मराठी मुख्य सूची|विधी|पूजा विधी| ज्ञानसाधन-निरूपणम् पूजा विधी दत्त उपासना दिपावली गणपती पूजा गणेश स्थापना गृहप्रवेश हरितालिका पूजा लक्ष्मी सरस्वती पूजन मंगलागौरी पूजा नवरात्र पूजा घटस्थापना नित्य विधी रुद्राक्ष धारण विधी सर्व पूजा सार्थ श्रीसत्यनारायण पूजा कथा श्रीवरदलक्ष्मी पूजा वटसावित्री पूजा पार्थिव गणपतिपूजा श्रीगणेश षोडशोपचार विशेषपूजाविधि निर्गुणमानसपूजा प्रार्थनादण्डकम् ज्ञानसाधन-निरूपणम् परतत्त्वनिरूपणम् प्राणाहुतिमन्त्राः वैश्वदेवमन्त्राः विरजाहोममन्त्राः पापनिवारका मन्त्राः त्रिसुपर्णमन्त्राः मृत्युनिवारणमन्त्राः आदित्यमण्डले परब्रह्मोपासनम् दहरविद्या होममन्त्राः शत्रुजयमन्त्राः मङ्गलश्लोकाः मङ्गलं गणनाथाय प्रातःस्मरणम् प्रातःस्मरणश्लोकाः श्री परमार्थस्तुतिः मङ्गलाचरणम् दीपज्योतिः प्रार्थना परापूजा श्रीअष्टपुत्रा महालक्ष्मी पाठ ज्ञानसाधन-निरूपणम् पूजा विधीHindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals. Tags : puja vidhiपूजाविधी ज्ञानसाधन-निरूपणम् (महानारायणोपनिषत्) Translation - भाषांतर प्राजापत्यो हारुणि-स्सुपर्णेयःप्रजापतिं पितर-मुपससार किं भगवन्तः परमं वदन्तीति तस्मै प्रोवाच सत्येनवायु-रावाति सत्येनादित्यो रोचते दिवि सत्यं वाचः प्रतिष्ठा सत्येसर्वं प्रतिष्ठितं तस्मात् सत्यं परमं वदन्ति तपसादेवा देवता-मग्रे आयन् तपसर्षयस्सुवरन्वविन्दन्तपसा सपत्नान् प्रणुदामाराती-स्तपसि सर्वंप्रतिष्ठितं तस्मात्तपः परमं वदन्ति दमेन दान्ताः किल्बिष-मवधून्वन्तिदमेन ब्रह्मचारिण-स्सुवरगच्छन् दमो भूतानां दुराधर्षं दमे सर्वंप्रतिष्ठितं तस्माद्दमः परमं वदन्ति शमेन नाकं मुनयोऽन्वविन्दञ्छमो भूतानां दुराधर्षञ्छमे सर्वंप्रतिष्ठितं तस्माच्छमः परमं वदन्ति दानं यज्ञानां वरूथं दक्षिणा लोके दातारँ सर्वभूतान्युपजीवन्तिदानेनाराती-रपानुदन्त दानेन द्विषन्तो मित्रा भवन्ति दाने सर्वं प्रतिष्ठितंतस्मा-द्दानं परमं वदन्ति धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठंप्रजा उपसर्पन्ति धर्मेण पाप-मपनुदति धर्मे सर्वं प्रतिष्ठितं तस्मा-द्धर्मं परमंवदन्ति प्रजननं वै प्रतिष्ठा लोके साधुप्रजाया-स्तन्तुंतन्वानः पितॄणा-मनृणो भवति तदेव तस्या अनृणं तस्मात् प्रजननं परमं वदन्त्यग्नयोवै त्रयी-विद्या देवयानः पन्था गार्हपत्य ऋक्पृथिवीरथन्तर-मन्वाहार्यपचनं यजु-रन्तरिक्षंवामदेव्य-माहवनीयस्सामसुवर्गो लोको बृहत्तस्मा-दग्नीन् परमंवदन्त्यग्निहोत्रँ सायं प्रातर्गृहाणां निष्कृति-स्स्विष्टँसुहुतं यज्ञक्रतूनां प्रायणँ सुवर्गस्य लोकस्यज्योति-स्तस्मा-दग्निहोत्रं परमं वदन्ति ।यज्ञ इति यज्ञेन हि देवा दिवंगता यज्ञेनासुरा-नपानुदन्त यज्ञेन द्विषन्तो मित्रा भवन्ति यज्ञे सर्वं प्रतिष्ठितंतस्माद्यज्ञं परमं वदन्ति मानसं वै प्राजापत्यं पवित्रंमानसेन मनसा साधु पश्यन्ति मानसा ऋषयः प्रजा असृजन्त मानसेसर्वं प्रतिष्ठितं तस्मान्मानसं परमं वदन्ति न्यास इत्याहुर्मनीषिणो ब्रह्माणं ब्रह्माविश्वः कतम-स्स्वयम्भु प्रजापति-स्संवथ्सरइति संवथ्सरो ऽसावादित्यो य एष आदित्ये पुरुष-स्स परमेष्ठीब्रह्मात्मा याभिरादित्य-स्तपति रश्मिभि-स्ताभिः पर्जन्योवर्षति पर्जन्येनौषधि-वनस्पतयःप्रजायन्त ओषधिवनस्पतिभि-रन्नं भवत्यन्नेन प्राणाः प्राणै-र्बलं बलेनतप-स्तपसा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसाशान्ति-श्शान्त्याचित्तं चित्तेन स्मृतिँ स्मृत्या स्मारँ स्मारेण विज्ञानं विज्ञानेनात्मानं वेदयतितस्मा-दन्नं ददन्थ्सर्वाण्येतानि ददात्यन्नात् प्राणा भवन्ति भूतानांप्राणै-र्मनो मनसश्च विज्ञानं विज्ञाना-दानऩ्दो ब्रह्मयोनि-स्स वा एषपुरुषः पञ्चधा पञ्चात्मा येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं च द्यौश्च दिशश्चावान्तरदिशाश्चस वै सर्व-मिदं जगथ्स सभूतँ स भव्यं जिज्ञासकॢप्त ऋतजा-रयिष्ठा श्रद्धासत्यो महस्वान् तपसो परिष्टाद् ज्ञात्वा तमेव मनसा हृदा च भूयो न मृत्यु-मुपयाहि विद्वान्तस्मान्न्यास-मेषां तपसा-मतिरिक्तमाहु-र्वसुरण्वो विभूरसि प्राणे त्वमसि सन्धाता ब्रह्मन् त्वमसिविश्वधृत्तेजोदा-स्त्वमस्यग्नि-रसि वर्चोदा-स्त्वमसि सूर्यस्य द्युम्नोदा-स्त्वमसिचन्द्रमस उपयामगृहीतोऽसि ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीतैतद्वै महोपनिषदंदेवानां गुह्यं य एवं वेद ब्रह्मणो महिमान-माप्नोतितस्माद्ब्रह्मणो महिमान-मित्युपनिषत्॥ N/A References : N/A Last Updated : January 08, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP