अथ स्त्रीसंग्रहणरुपे पारदार्ये दण्ड:

केशवपण्डितकृतम् धर्मकल्पलनान्तर्गतनीतिमज्जर्यां दण्डनीतिप्रकरणम् ।


तत्स्वरुप व्यासेन विवृतम्‍ ।
त्रिविधं तत्समाख्यातं प्रथमं[ मध्यमोत्तमम्‍ ॥
अदेशकालसंभाषा निर्जनेच परस्त्रिया: ।
कटाक्षावेक्षणं हास्यं प्रथमं ] साहसं स्मृतम्‍ ॥१९१॥
प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम्‍ ।
प्रलोभनं चात्रपानैर्मध्यमं साहसं स्मृतम्‍ ॥१९२॥
सहासनं विविक्ते तु परस्परसमाश्रय: ।
केशाकेशिग्रहश्चैव सम्यक्‍ संग्रहणं स्मृतम्‍ ॥१९३॥
बृहस्पतिरपि -
पापमूलं संग्रहणं त्रिप्रकारं निबोधत ।
बलोपाधिकृते व्दे तु तृतीयमनुरागजम्‍ ॥१९४॥
अनिच्छन्त्या यत्क्रियते मत्तोन्मत्तप्रमत्तया ।
प्रलपन्त्या वा रहसि बलात्कारकृतं तु तत्‍ ॥१९५॥
छद्मना गृहमानीय दत्त्वाऽस्यै मदकारणम्‍ ।
संयोग: क्रियते यत्र तत्तूपाधिकृतं विदु: ॥१९६॥
अन्योन्यचक्षूरागेण दूतीसंप्रेषणेन च ।
कृतं लोभार्थरुपेण[रुपार्थलोभेन ] ज्ञेयं तदनुरागजम्‍ ॥१९७॥
तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमोत्तमम्‍ ॥१९८॥
अनुरागजमिति शेष: ।
अपाडंप्रेषणं हास्यं दूतीसंप्रेषणं तथा ।
स्पर्शो भूषणवस्त्राणां प्रथम: संग्रह: स्मृत: ॥१९९॥
प्रेषणं गन्धमाल्यानां फलमद्यान्नवाससाम्‍ ।
संभाषणं च रहसि मध्यमं संग्रहं विदु: ॥२००॥
एकशय्यासनं क्रीडा चुम्बनालिडंनं तथा ।
एतत्संग्रहणं प्रोक्तमुत्तमं शास्त्रवेदिभि: ॥२०१॥
इति । स्त्रीपुंसयोर्मिथुनीभाव: संग्रहणम्‍ । ज्ञानपूर्वकत्वात्तत्कर्तुर्दण्डविधानाय तज्ज्ञानोपायमाह-
पुमान्संग्रहणे ग्राह्य: केशाकेशि परस्त्रिया ।
सद्यो वा कामजैश्चिन्है: प्रतिपत्तौ व्दयोस्तथा ॥२०२॥
परभार्यया सह केशाकेशिक्रीडनेनाभिनवै: कररुहक्रीडनदशनादिकृतव्रणै:  रागकृतैर्लिडैंर्व्दयो: संप्रतिपत्त्या वा ज्ञात्वा संग्रहणे प्रवृत्तो ग्रहीतव्य : । किं च --
नीवीस्तनप्रावरणसक्थिकेशावमर्शनम्‍ ।
अदेशकालसंभाषं सहैकस्थानमेव च ॥२०३॥
एतच्च शड्‍ंक्यमानपुरुषविषयमितरस्य तु न दोष: । यथाऽऽह मनु: -
यस्त्वनक्षरित: पूर्वमभिभाषेत कारणात्‍ ।
न दोषं प्राप्नुयात्किंचित्र हि तस्य व्यतिक्रम: ॥२०४॥
इति । य: परस्त्रिया स्पृष्ट: क्षमते असावपि ग्राह्य: । तेनैवोक्तम्‍ ।
स्त्रियं स्पृशेददेशे य: स्पृष्टो वा मर्षयेत्तथा ।
परस्परस्यानुमते सर्व संग्रहणं स्मृतम्‍ ॥२०५॥
यश्च मयेयमसकृद्भुक्तेति वदति सोऽपि ग्राह्य: ।
दर्पाव्दा यदि वा मोहात्‍ श्लाघया वा स्वयं वदेत्‍ ।
पूर्व मयेयं भुक्तेति तच्च संग्रहणं स्मृतम्‍ ॥२०६॥
पित्रदिभि: परस्परसंभाषणनिषेधे कृते सति पुन: संल्लापादिकरणे दण्डमाह -
स्त्रीनिषेधे शतं दद्यादूव्दिशतं तु दमं पुमान्‍ ।
प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ॥२०७॥
एतच्चारणादिभार्याव्यतिरेकेण -
नैष चारणदारेषु विधिर्नात्मोपजीविषु ।
सज्जयन्ति हि ते नारीं निगूढाश्चारयन्ति च ॥२०८॥
इति मनुस्मरणात्‍ । तमिदानीं संग्रहणे दण्डमाह -
सजातावुत्तमो दण्ड अनुलोम्ये तु मध्यम: ।
प्रातिलोम्ये वध: पुंसो नार्या: कर्णादिकर्तनम्‍ ॥२०९॥
चतुर्णामपि वर्णानां बलात्कारेण सजातीयगुप्तपरदारगमने उत्तमसाहसम्‍ । आनुलोम्येन हीनवर्णा स्त्रियमनगुप्तामभिगच्छति तदा मानवे विशेष: -
सहस्रं ब्राह्मणे दण्डयो गुप्तां विप्रां बलादूव्रजन्‍ ।
शतानि पश्च दण्डय: स्यादिछन्त्या सह संगत: ॥२१०॥
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन्‍ ।
शूद्रायां क्षत्रियविशो: सहस्रं तु भवेद्दम: ॥२११॥
साहसरुपस्त्रीसंग्रहणस्य ज्ञानोपायं तत्र द्ण्डं चाऽऽह संवर्त: -
नेच्छन्त्या यानि चिन्हानि बलात्कारकृतानि च ।
परपुंस: प्रसड्‍ंगेषु नारीणां तानि सर्वत: ॥२१२॥
नखदन्तक्षता क्षामा सकचग्रहविक्षता ।
सद्यो विश्वासिता नारी वलात्कारेण दूषिता ॥२१३॥
उच्चैर्विक्रोशयन्ती च रुद्र्न्ती लोकसन्निधौ ।
तस्य नाम्ना वदन्ती च यथाऽहं तेन  दूषिता ॥२१४॥
शोचेदेवं विधैर्लिड्‍ंर्व्रणीकृतपयोधरा ।
चिन्हालंकारकेशैश्च व्यांकुलीकृतलोचना ॥२१५॥
राज्ञा सभ्यै: सभां नीत्वा स्वयमन्विष्य तत्क्षणात्‍ ।
यद्‍ब्रुयात्सहजं तत्र तत्कर्तव्यं प्रयत्नत: ॥२१६॥
विवादे साक्षिणामात्र प्रकुर्वीत परिग्रहम्‍ ।
प्रार्थनादभिशस्तस्य न दण्डं दातुमर्हति ॥२१७॥
इति । या यद्‍ब्रुयाव्दधहस्तच्छेदादिकं स एव दण्ड इत्यर्थ: ।
सहसा कामयेद्यस्तु धनं तस्याखिलं हरेत्‍ ।
उत्कृत्य लिडंवृषणौ भ्रामयेद्रर्दभेण तु ॥२१८॥
इति । सहसा दर्पेण कामयेद्रच्छेत्‍ । अयं च धनदण्डो न स्त्रीमात्रसाधारण: किं तु गुरुभार्यादिव्यतिरेकेण द्रष्टव्य: -
माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥२१९॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥२२०॥
आसामन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्रस्योत्कर्तनं दण्डो नान्यस्तत्र विधीयते ॥२२१॥
इति नारदस्मरणात्‍ । अयं च द्ण्डो न ब्राह्मणस्य -
परदारभिमर्शेषु प्रवृत्तं तु महीपति: ।
उव्देजनकरैर्दण्डैश्चिहयित्वा प्रवासयेत्‍ ॥२२२॥
अब्राह्मण: संग्रहणे प्राणान्तं च वधमर्हतीति ब्राह्मणाधिकारे बृहस्पतिवचनात्‍ । शड्रंखलिखितौ । येन येनाड्रेंनापराधं कुर्यात्तत्तदस्य च्छेत्तव्यमन्यत्र ब्राह्मणात्‍ । प्रातिलोम्येनोत्कृष्टवर्णस्त्रीगमने क्षत्रियादर्वेध: । वसिष्ठ: । राजन्यश्चेद्राह्मणीमभिगच्छेरपत्रैर्वेष्टयित्वा राजन्यमग्रौ प्रास्येत्‍ । एवं वैश्यो राजन्यां मैथुनमाचरञ्छूद्रस्तु राजन्यवैश्ययोरिति । ब्राह्मण्यादीनां शूद्रादिगमने दण्डमाह यम: ।
वृषलं सेवते या तु ब्राह्मणी मदमोहिता ।
तां श्वभि: खादयेद्राजा संस्थाने वध्यधातिनाम्‍ ॥२२३॥
वैश्यं वा क्षत्रियं वाऽपि ब्राह्मणी सेवते तु या ॥
शिरसो मुण्डनं तस्या: प्रयाणं गर्दभेण तु ॥२२४॥
बृहस्पति : -
गृहमागत्य या नारी प्रलोभ्य स्पर्शनादिना ।
कारयेत्तत्र सा दण्डया स तस्या हि दम: स्मृत: ॥२२५॥
छिन्ननासोष्ठकर्ण तु पुरे भ्राम्याप्सु मज्जयेत्‍ ॥२२६॥
इति । एतत्तु गुप्ताविषयम्‍ । अन्यत्र धनदण्ड: ।
ब्राह्मणीं यद्यगुप्तां तु सेवेतां वैश्यपार्थिवौ ।
वैश्यं पश्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम्‍ ॥२१७॥
इति मानवात्‍ ।
उभावपि तु तावेव ब्राह्मण्या गुप्तयासह ।
विपुलतौ शूद्रवद्दण्डयौ दग्धव्यौ वा कटान्निना ॥२२८॥
शूद्रस्य तु पुनरगुप्तामुत्कृष्टवर्णा व्रजतो लिडंच्छेदसर्बस्वापहरौ गुप्तां तु वज्रतो वधसर्वस्वापहाराविति तेनैवोक्तम्‍ ।
शूद्रो गुप्तमगुप्तं वा व्दैजातं वर्णमाविशन्‍ ।
अगुप्तमडंसर्वस्वैर्गुप्ते सर्वेण हीयते ॥२२९॥
नार्या: पुनर्हिनवर्णं वज्रन्त्या: कर्णनासाकर्तनम्‍ । आनुलोम्येन सवर्ण व्रजन्त्या दण्ड: कल्प्य: । अयं दण्डाद्युपदेशो राज्ञ एव । तस्यैव पालनाद्यधिकारात्‍ ।यदा तु राज्ञो निवेदने विलम्बेन कार्यातिपातशडांतदा स्वयमेव जारादीन्हन्यात्‍ । तदाह मनु: -
शस्त्रं व्दिजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते ।
व्दिजातीनां च वर्णानां विपलवे कालकारिते ॥२३०॥
आत्मनश्च परित्राणे दक्षिणानां च संगरे ।
स्त्रीवित्ताभ्युपपत्तौ च घ्रन्धर्मेण न दुष्यति ॥२३१॥
अत्र व्दिजातिपदं ब्राह्मणवैश्यपरम्‍ ।
ब्राह्मणार्थ गवार्थं च वर्णानां वाऽपि संकरे ।
गृहीयातां विप्रविशौ शस्त्रं धर्मव्यतिक्रमे ॥२३२॥
इति बौधायन: । क्षत्रियस्य तन्नित्यम्‍ । परीक्षार्थमपि ब्राह्मण आयुधं नाऽऽददीतेत्यापस्तम्बीयम्‍ । हास्यार्थमपि आयुधं नाऽऽददीतेति बौधायनीयं च धमोंपरोधादिभिन्नविषयम्‍ । याज्ञवल्क्योऽपि ।
आततायिनमायान्तं हन्यादेवाविचारयन्‍ ॥२३३॥
नाततायिवधे दोषो हन्तुर्भवति कश्चन ।
प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥२३४॥
अग्रिदो गरदश्चैव शस्त्रपाणिर्धनापह: ।
क्षेत्रदारापहारी च षडेते आततायिन: ॥२३५॥
इति । तथा क्षत्रियवैश्ययोरन्योन्यस्त्र्यभिगमने यथाक्रमं सहस्रपश्चशतपणात्मकौ दण्डौ । तदाह मनु: -
वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत्‍ ।
यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हत: ॥२३६॥
क्षत्रियायामगुप्तायां वैश्ये पश्चशतं दम: ।
मूत्रेण मौण्ड्‍यमान्विच्छेत्क्षत्रियो दण्डमेव वा ॥२३७॥
कन्यादूषणे दण्डमाह नारद: -
दूषणे तु करच्छेद उत्तमे तु वधस्तथा ॥२३८॥
यद्यकामां कन्यां बलात्कारेण नखक्षतादिना दूषयति तदाऽस्य करच्छेत्तव्य: । यदा तामेव अड्‍ंगुलीप्रक्षेपेण योनिं क्षतवतीं करोति तत्र विशेषमाह मनु: -
अभिषह्य तु य: कन्यां कुर्याद्दर्पेण मानव: ।
तस्याऽऽशु कर्त्ये अडंल्यौ दण्डं चार्हसि षट्‍शतम्‍ ॥२३९॥
यदा सानुरागां पूर्ववद्दूषयति तत्र तेनैवोक्तम्‍ -
सकामां दूषयानस्तु नाडुंलिच्छेदमर्हति ।
व्दिशतं तु दमं दाप्य: प्रसडंविनिवृत्तये ॥२४०॥
यदा तु कन्यैव कन्यां दूषयति विदग्धा वा तत्रापि तेनैवोक्तम्‍ -
कन्यैव कन्यां या कुर्यात्तस्यास्तु व्दिशतो दम: ॥२४१॥
या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्‍ंयमर्हति ॥२४२॥
यदा पुनरुत्कष्टजातीयां कन्यां सानुरागामकामां वाऽधिगच्छति तदा हीनस्य क्षत्रियादेर्वध: । यदा सवर्णा सकामामभिगच्छति तदा मिथुनं शुल्कं पित्रे दद्याद्यदीच्छति । पितर्यनिच्छति तदा राज्ञे दण्डरुपेण दद्यात्सवर्णामकामां गच्छतो वध एव ।
शुल्कं दद्यात्सेवमान: समाभिच्छेत्पिता यदि ॥२४३॥
योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति ।
सकामां दूषयेत्तुल्यो न वधं प्राप्नुयान्नर: ॥२४४॥
किं च -
शंत स्त्रीदूषणे दद्याद्‍व्दे तु मिथ्याभिशंसने ।
पशून्गच्छन्‍ शंत दाप्यो हीनस्त्रीं गां च मध्यमम्‍ ॥२४५॥
स्त्रीशब्देनात्र कन्या गृह्यते ।बलात्कारेण साधारणस्त्रीगमने दण्डमाह -
अप्रयच्छंस्तथा शुल्कमनुभूय पुमान्‍ स्त्रियम्‍ ॥२४६॥
आक्रमेण च संगच्छन्घातदन्तनखादिभि: ॥२४७॥
अयोनौ वाऽपि गच्छेद्यो बहुभिर्वाऽपि वासयेत्‍ ।
शुल्कमष्टगुणं दाप्यो विनयं तावदेव तु ॥२४८॥
वेश्या: प्रधाना यास्तत्र कामुकास्तद्रहोषिता: ।
तत्समुत्थेषु कार्येषु निर्णयं संशये विदु: ॥२४९॥
यस्तु स्वयोषादावति वर्तते तत्राऽऽह -
अयोनौ गच्छतो योषां  पुरुषं वाऽपि मेहत: ।
चतुर्विशतिको दण्डस्तथा प्रव्रजितागमे ॥२५०॥
अन्त्याभिगमने त्वड्‍क्य: कुबन्धेन प्रवासयेत्‍ ॥२५१॥
इदं ब्राह्मणविषयम्‍ । अन्त्यानामडिंरा: ।
चाण्डाल: श्वपच: क्षत्ता सूतो वैदेहिकस्तथा ।
मागधायोगवौ चैव सप्तैतेऽन्त्यावसायिन: ॥२५२॥
संवर्त: -
रजकश्चर्मकारश्च नटो बुरुड एव च ।
कैवर्तमेदभिल्लश्च सप्तैते अन्त्यजा: स्मृता: ॥२५३॥
शूद्रस्तथान्त्य एव स्यादन्त्यस्याऽऽर्यागमे वध: ॥२५४॥
अवरुध्दासु दासीषु भुजिष्यासु तथैव च ।
गम्यास्वपि पुमान्दाप्य: पश्चाशत्पणिकं दमम्‍ ॥२५५॥
उक्तलक्षणवर्णस्त्रियो दास्यस्ता एव स्वामिना पुरुषान्तरोपभोगतो निरुध्दा अवरुध्दा: पुरुषनियतपरिग्रहा भुजिष्या: । अपि शब्दाव्देश्यास्वैरिणीनां ग्रहणम्‍ । तासू च पुरुषसाधारणतया गम्यस्वपि पश्चाशत्पणं दण्डनीय: । परप्रिगृहीतत्वेन परदारतुल्यत्वात्‍ । एतत्स्पष्टमुक्तं नारदेन -
स्वैरिण्यब्राम्हणी वेश्या दासी निष्कासिनी च या ।
गम्या: स्युरानुलोम्येन स्त्रियो न प्रतिलोकमत: ॥२५६॥
आस्वेव तु भुजिष्यासु दोष: स्यात्परदारवत्‍ ।
गम्यास्वपि हि नोपेयाद्यतस्ता: स परिग्रहा: ॥२५७॥
धात्रीगमने परिचारकस्त्रीगमने च द्ण्डमाह कात्यायन : -
बालधात्रीमधात्रीं च दासीमिव भुनक्ति य: ।
परिचारकपत्नीं च प्राप्नुयात्पूर्वसाहसम्‍ ॥२५८॥
इति । व्यभिचरितस्त्रीगमने संवर्त: । मिताक्षरायाम्‍ ।
चतुर्थे स्वैरिणी प्रोक्ता पश्चमे बन्धकी मता ॥२५९॥
इति । षट्‍त्रिंशन्मते -
ब्राह्मणीं बन्धकीं गत्वा किंचिद्दत्त्वा व्दिजातये ।
राजन्यां च धनुर्दद्याव्दैश्यं गत्वा तु चैलकम्‍ ॥२६०॥
शूद्रां गत्वा तु यो विप्र उदकुम्भं व्दिजातये ।
दिवसोपोषितो वा स्याद्दधाव्दिप्राय भोजनम्‍ ॥२६१॥
इति । शक्तौ तु यम: -
त्रिरात्रोपोषित: स्नात्वा दद्यात्संमार्जनीं तथा ॥२६२॥
इति । गर्भोत्पतौ तूशना -
गमने तु व्रतं यत्स्याद्रर्भे तु व्दिगुणं चरेत्‍ व्दिगुणं चरेत्‍ ॥२६३॥
इति । संवर्त: -
कथंचिद्राह्मणीं गच्छेत्क्षत्रियो वैश्य एव वा ।
कृच्छ्रं सांतपनं कुर्यात्प्रायश्चित्तं विधीयते ॥२६४॥
शूद्रस्तु ब्राह्मणीं गच्छेत्कथंचित्काममोहित: ।
गोमूत्रयावकाहारो मासेनैकेन शुध्यति ॥२६५॥
तदन्त्यजव्यभिचारिब्राह्मणीविषयम्‍ । अन्त्यजागमने संवर्त: -
रजकव्याधभैलूषवेणुचर्मोपजीविनी ।
एतास्तु ब्राह्मणो गत्वा चरेच्चान्द्रायणव्दयम्‍ ॥२६६॥
इति । इदं ब्राह्मणस्याकामत: सकृद्रमनविषयम‍ । क्षत्रियादीनां तु । पादहीनं कल्पनीयम्‍ । अत्रैवापस्तम्बेनोक्तम्‍ -
म्लेच्छी नटी चर्मकारी रजकी बुरुडी तथा ।
एतासु गमनं कृत्वा चरेच्चान्दायणद्व्यम्‍ ॥२६७॥
इति । अकामतस्तु गमने यथाऽऽहाऽऽपस्तम्ब :-
चण्डालमेदश्वपचकपालव्रतचारिणाम्‍ ।
अकामत: स्त्रियो गत्वा पराकं व्रतमाचरेत्‍ ॥२६८॥
इति । शातातप: ।
कैवतीं रजकीं चैव वेणुचर्मोपजीविनीम्‍ ।
प्रजापत्यविधानेन कृच्छ्रेणैकेन शुध्यति ॥२६९॥
इति । तद्रेकत:  सेकात्प्राड्‍ंनिवृत्तिविषयम्‍ । उशना ।
कापालिकान्न भोक्तृणां तन्नारीगामिनां तथा ।
ज्ञात्वा कृच्छ्राब्दमुद्दिष्टमज्ञानादैन्दवव्दयम्‍ ॥२७०॥
इति । तदभ्यासविषयम्‍ । यदा चण्डाल्यादिषु गच्छतो गर्भो भवति तदा ।
चण्डाल्यां गर्भमारोप्य गुरुतल्पव्रतं चरेत्‍ ॥२७१॥
इत्युशनसोक्तं व्दादशवार्षिकं द्रष्टव्यम्‍ । यत्तु -
अन्त्यजायां प्रसूति: स्यान्निष्कृतिर्न विधीयते ।
निर्वासनं कृताडंस्य तस्य कार्यमसंशयम्‍ ॥२७२॥
इत्यापस्तम्ब आह । तत्कामकारविषयम्‍ । स्त्रीणामापि सवर्णानुलोमव्यवाये यत्पुरुषस्योक्तं त्रैवार्षिकादि तदेव भवति ।
यत्पुंस: परदारेषु तच्चैनां चारयेव्द्तम‍ ॥२७३॥
इति मनुवचनात्‍ । ब्राह्मण्या क्षत्रियवैश्यगमने दण्डमाह वसिष्ठ: । ब्राह्मण्या: शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्रां खरमारोप्य महापथमनुव्राजयेत्‍ । पूता भवतीति विज्ञायते । एवं वैश्याया: क्षत्रियगमने शूद्रायाश्च वैश्यक्षत्रियगमने ज्ञेयम्‍ । महापथो राजमार्ग: ।  राजमार्गपरिव्राजनमेव दण्ड: । प्रायश्चित्तं तु भिन्नमिति । विधवायास्तु असकृद्‍व्यभिचारे धृतावसिक्ताया गोमयाग्रिना दाह: । इति चतुर्विशति मतात्‍ । तथाऽऽहोशना -
अन्त्यजेन तु संपर्के भोजने मैथुने कृते ।
प्रविशेत्संप्रदीप्तेऽग्रौ मृत्युनाऽऽशु विशुध्यति ॥२७४॥
इति । यदा प्रायश्चित्तं न करोति तदा पुंलिडेंनाकंनीया वध्या वा भवेत्‍ ।
हीनवर्णोपभुक्ता या साऽडंक्या वध्याऽथवा भवेत्‍ ॥२७५॥
इति पराशस्मरणात्‍ । अनुक्तद्ण्डेषु पारदार्येषु प्रायश्चित्तलघुगुरुभावेन राजदण्ड: कल्पनीय इति दिक्‍ ।
॥ इति पारदार्यप्रकरणम्‍ ॥

N/A

References : N/A
Last Updated : February 01, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP