अथ केवलसाहसे दण्ड:
केशवपण्डितकृतम् धर्मकल्पलनान्तर्गतनीतिमज्जर्यां दण्डनीतिप्रकरणम् ।
तत्स्वरुपं नारदेनोक्तम् -
सहसा क्रियते कर्म यत्किंचिव्दलर्पितै: ।
तत्साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥३५५॥
तदिदं चौर्यवाग्दण्डपारुष्यस्त्रीसंग्रहणेषु व्यासक्तमपि
बलदर्पावष्टम्भोपाधिमिर्भिद्यत इति द्ण्डातिरेकार्थ पृथगभिधानम् ।
तस्य त्रैविध्यमाह-
तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा ।
उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥३५६॥
फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भाडंक्षेपावमर्दाद्यै: प्रथमं साहसं स्मृतम् ॥३५७॥
वास: पश्वन्नपानानां गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥३५८॥
व्यापादो विषशस्त्राद्यै: परदाराभिमर्शनम् ।
प्राणोपरोधि यच्चान्यदुक्तमुत्तमसाहसमसाहसम् ॥३५९॥
मनुष्यमारणादीनां जनसमक्षं क्रियमाणानां साहसत्वम् ।
असमक्षं क्रियमाणान चौर्यत्वादिकमिति भेद: ।
तत्र परद्रव्यापहरणरुपे साहसे दण्डमाह-
तन्मूल्याद् व्दिगुणो दण्डो निहृवे तु चतुर्गुण: ॥३६०॥
साहसिकस्य प्रयोजयितारं प्रत्याह -
य: साहसं कारयति स दाप्यो व्दिगुणं दमम् ।
यश्चैवमुक्त्वा हन्तारं कारयेत्स चतुर्गुणम् ॥३६१॥
वाचैव साहसं कुर्वित्युक्ते साहसिकदण्डाद् व्दिगुणम् ।
तुभ्यं घनं दास्यामि त्वं साहसं कुरु इत्युक्ते चतुर्गुणं दाप्योऽनुबध्नातिशयात् ।
साहसिकविशेषं प्रत्याह -
अर्ध्याक्रोशातिक्रमकृद्भ्रातृभार्याप्रहारक: ।
संदिष्टस्याप्रदाता च समुद्रगृहभेद्कृत् ॥३६२॥
सामन्तकुलिकादीनामपकारस्य कारक: ।
पश्चाशत्पणिको द्ण्ड एषामिति विनिश्चय: ॥३६३॥
स्वच्छन्दं विधवागामी विक्रुष्टेऽनाभिधावक: ।
अकारणे च विक्रोष्टा चण्डालश्चोत्तमान्स्पृशन् ॥३६४॥
शूद्रप्रवजितानां च दैवे पित्र्ये च भोजक: ।
अयुक्तं शपथं कुर्वन्न योग्यो योग्यकर्मकृत् ॥३६५॥
वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् ।
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥३६६॥
पितापुत्रस्वसृभ्रातृदंपत्याचार्यशिष्यका: ।
एषामपतितान्योन्यत्यागी च शतदण्डभाक् ॥३६७॥
अस्यार्थ: । स्वच्छन्दं विधवां गच्छतीति ।
चौर्यादिभयाकुलैर्विक्रुष्टे: शक्तोऽपि न धावति ।
यश्चाकारणं विक्रोशति । चण्डालश्च व्दिजातिं स्पृशति ।
यश्च शूद्रादीन्दैवपित्र्यकर्मणि भोजयति ।
मातरं ग्रहीष्यामीति शपथं करोति ।
शूद्रादिरयोग्यकर्माध्ययनादि करोति ।
वृषादीनां पुंस्त्वघातं करोति । यश्च साधारणद्रव्यस्य वश्चक: ।
दासीगर्भपातयिता ये च पित्रादयोऽपतिता एवान्योऽन्यं त्यजन्ति ते सर्वे प्रत्येकं पणशतदण्डार्हा भवन्ति ।
साहसिकज्ञानोपायमाह बृहस्पति: -
हत: संदृश्यते यत्र घातकश्च न दृश्यते ।
पूर्ववैरानुमानेन ज्ञातव्य: स महीभुजा ॥३६८॥
प्रातिवेश्यानुवैश्यौ च तस्य मित्रारिबान्धवा: ।
द्रष्टव्या राजपुरुषै: सामादिभिरुपक्रमै: ॥३६९॥
विज्ञेयोऽसाधुसंसर्गाच्चिन्हैर्होडे(ढे) न वा नरै: ।
एषोदिता घातकानां तस्कराणां विभावना ॥३७०॥
गृहीत: शडंया यस्तु न तत्कार्य प्रपद्यते ।
शपथेनावबोव्दव्य: सर्ववादेष्वयं विधि: ॥३७१॥
चिन्हं रक्तलेपादि । होडं (होढं) मृतस्य दहनादि(घनादि) । ज्ञानानन्तरं कर्तव्यमाह व्यास: -
ज्ञात्वा तु घातकं सम्यक् स सहायं स बान्धवम् ।
हन्याच्चित्रवधोपायैरुव्देजनकरैर्नृप: ॥३७२॥
बृहस्पतिरपि -
प्रकाशघातक ये च तथा चोपांशुघातका: ।
ज्ञात्वा सम्यग्धनं हृत्वा हन्तव्या विविधैर्वधै: ॥३७३॥
इति । मिताक्षरायाम् -
क्षेत्रवेश्मवनग्रामविवीतखलदाहका: ।
राजपत्न्यभिगामी च दग्धव्यश्च कटाग्रिना ॥३७४॥
इति । साहसप्रसडांत्तत्सदृशापराधे दण्डमाह -
वसानस्त्रीन्पणान्दाप्यो नेजकस्तु परांशुकम् ।
विक्रयावक्रयाधानयाचितेषु पणान्दश ॥३७५॥
यदा प्रमादान्नाशयति । तत्राऽऽह -
मूल्याष्टभागो हीयेत सकृव्दौतस्य वासस: ।
व्दि: पादस्त्रिस्तृतीयांशश्चतुव्दौंतेऽर्धमेव च ॥३७६॥
अर्धक्षयात्तु परत: पादांशापचय: क्रमात् ।
यावत्क्षीणदशं जीर्ण जीर्णस्यानियम: स्मृत: ॥३७७॥
तुलाशासनमानानां कूटकृन्नाणकस्य च ।
एभिश्च व्यवहर्ता य: स दाप्यो दममुत्तमम् ॥३७८॥
अकूटं कूटकं ब्रुते कूटं यश्चाप्यकूटकम् ।
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ॥३७९॥
तथा -
भिषड्ंमिथ्याचरन्दाप्यस्तिर्यक्षु प्रथमं दमम् ।
मानुषे मध्यमं राजपुरुषेषूत्तमं दमम् ॥३८०॥
अबन्ध्यं यश्च बध्राति बध्दं यश्च प्रमुश्चति ।
अप्राप्तव्यवहारं च स दाप्यो दममुत्तमम् ॥३८१॥
राजाज्ञया विनोति वेदितव्यम् ।
मानेन तुलया वाऽपि योंऽशमष्टमकं हरेत् ।
दण्डं स दाप्यो व्दिशतं वृध्दौ हानौ च कल्पितम् ॥३८२॥
तथा ।
भेषजस्त्रेहलवगन्धधान्यगुडादिषु ।
पण्येषु प्रक्षिपन्हीनं पणान्दाप्यस्तु षोडश ॥३८३॥
मुच्चर्ममणिसूत्राय: काष्ठवल्कलवाससाम् ।
अजातौ जातिकरणे विक्रेयाष्टगुणो दम: ॥३८४॥
संभूय कुर्वतामर्धं सबाधं कारुशिल्पिनाम् ।
अर्घस्य र्हासं वृध्दिं वा जानतां दम उत्तम: ॥३८५॥
संभूय वणिजां पण्यमनवैणोपरुन्धताम् ।
विक्रीणतां वा विहितो दण्ड उत्तमसाहस: ॥३८६॥
राजनि स्थाप्यते योऽर्ध: प्रत्यहं तेन विक्रय: ।
क्रयो वा निस्त्र्वस्तस्माव्दणिजां लाभकृत्स्मृत: ॥३८७॥
पश्चरात्रे पश्चरात्रे पक्षे मासे तथा गते ।
कुवींत चैषां प्रत्यक्षमर्धसंस्थापनं नृप: ॥३८८॥
स्वदेशपण्ये तु शतं वणिग्गृह्वीत पश्चकम् ।
दशकं पारदेश्ये तु य: सद्य: क्रयविक्रयी ॥३८९॥
पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुध्दवम् ।
अर्घोऽनुग्रहकुत्कार्य: क्रेतुर्विंकेतुरेव च ॥३९०॥
गृहादिहरणे मनु: ।
गृहं तडागमारामं क्षेत्रं वा भीषया हरन् ।
शतानि पश्च दण्ड:स्याज्ज्ञानाव्द्दिशतो दम: ॥३९१॥
अथ राजाश्रयापराधरुपे प्रकीर्णकेऽपराधेषु दण्ड: । अपराधविशेषेषु दण्डमाह योगीश्वर: । राज्याडेंषु स्वाम्यमात्यदिसप्तसु एकस्मिन्नपि यद्द्रोहं तव्दैकल्प्यहेतुना नरनि तस्य शीघ्रमेव वध: कार्य इति । तत्स्वरुपमाह नारद: -
प्रकीर्णके पुनर्ज्ञेया व्यवहारान्नृपाश्रया: ।
राज्ञामाज्ञाप्रतीघातस्तत्कर्मकरणं तथा ॥३९२॥
पुरप्रदानं संभेद: प्रकृतीनां तथैव च ।
पाखण्डिनैगमश्रेणीगणधर्मविपर्यया: ॥३९३॥
पितापुत्रविवादश्च प्रायश्चित्तव्यतिक्रम: ।
प्रतिग्रहविरोधश्च कोप आश्रमिणामपि ॥३९४॥
वर्णसंकरदोषश्च तव्दत्तिनियमस्तथा ।
न दृष्टं यच्च पूर्वेषु संर्व तत्स्यात्प्रकीर्ण्कम् ॥३९५॥
इति । यत्र ग्रामादौ विहितभिक्षावृत्तिव्यतिरेकेण भिक्षाप्रदाने दण्डमाह याज्ञवल्क्य: ।
अव्रता ह्यनधीयाना यत्र भैक्ष्यचरा व्दिजा: ।
तं ग्रामं दण्डयेद्राजा प्रयाहि स ०॥३९६॥
इति । तथा -
अडेंभ्यो यस्त्वथैकोऽपि द्रोहमाचरतेऽल्पधी: ।
वधस्तस्य तु कर्तव्य: शीघ्रमेव महीक्षिता ॥३९७॥
आधिसीमोपनिक्षेपजडबालधनौर्विना ।
तथोपानिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥३९८॥
आध्यादीनां विहर्तारं धनिने दापयेध्दनम् ।
दण्डं च तत्समं राज्ञे शक्त्यपेक्षमस्थापि वा ॥३९९॥
राजकृतसंविव्द्यतिक्रमे दण्डमाह मिताक्षराकार: -
राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु ।
त्रैविद्यं वृत्तिमद्रूयात्स्वर्धम: पाल्यतामिति ॥४००॥
राजा स्वपुरादौ गृहादि कृत्वा तत्र ब्राह्मणान्स्थापयित्वा तद्राह्मणजातं वेदत्रयभूहिरण्यादिसंपन्नं च कृत्वा श्रुतिस्मृतिविहितस्वधर्मो भवद्भिरनुष्ठीयतामिति ब्राह्मणान्बूयात् ।तैश्च यत्कर्तव्यं तदाह --
निजधर्माविरोधेन यस्तु सामयिको भवेत् ।
सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च य: ॥४०१॥
श्रौतस्मार्तकर्मानुपमर्देने समयानिष्पन्नो यो धर्मों गोप्रचारोदकरक्षणदेवगृहपालनादिरुपस्तथा राज्ञा च कृत: यावत्पथिकं भोजनं देयम् । अस्मदरातिमण्डलं तुरडांदयो न प्रस्थापनीय़ा इत्यादि रुपोऽपि । तदतिक्रमे दण्डमाह -
गणद्रव्यं हरेद्यस्तु संविदं लडंयेश्च य: ।
सर्वस्वहारणं कृत्वा तं राष्ट्राव्दिप्रवासयेत् ॥४०२॥
गणस्य ग्रामादिजनसमूहस्य साधारणं द्रव्यमपहरति । संविदं जनसमूहकृतां राजकृतां वा लडंयति तं सर्वस्वहरणपूर्वक निष्कासयेत् । अयं च दण्डो अनुबन्धातिशयेन । अनुबन्धाल्पत्वे तु -
यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ।
विसंवदेन्नरो लोभाक्तं राष्ट्राव्दिप्रवासयेत् ॥४०३॥
निगृह्य दापयेदेनं समयव्यभिचारिणम् ।
चतु: सुवर्ण षण्निष्कं शतमानं च राजतम् ॥४०४॥
इति मनूक्तो जातिशक्त्याद्यपेक्षया कल्पनीय़: ।
कर्तव्यं वचनं सर्वै: समूहहितवादिनाम् ।
यस्तस्य विपरीत: स्यात्सदाप्य: प्रथमं दमम् ॥४०५॥
कचिद्द्यूतकारिणो दण्डमाह -
राज्ञा सचिन्हं निर्वास्या: कूटाक्षोपधिदेविन: ॥४०६॥
कूटैरक्षादिभि: । मतिवश्चनहेतुना मणिमन्त्रौषधादिना उपाधिना दीव्यन्ति तान् श्वपदादिनाऽडंयित्वा स्वराष्ट्रान्निर्वासयेत् । निर्वासने च विशेषो नारदेनोक्त : -
कूटाक्षदेविन: पापान् राजा राष्ट्राव्दिवासयेत् ।
कण्ठेऽक्षमालामासज्य स ह्येषां विनय: स्मृत: ॥४०७॥
एष एव विधिर्ज्ञेय: प्राणिद्यूते समाह्वये ॥४०८॥
प्राणिद्यूते कुक्कुटादिक्रीडने । समाह्वये मेषमल्लादौ । बृहस्पति: ।
प्रच्छाद्य दोषं व्यामिश्र्य पुन: संस्कृत्य विक्रयी ।
पण्यं तद्दिगुणं दाप्यो वणिग्दडं च तत्समम् ॥४०९॥
अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् ।
स्त्रीबालकान्वश्चयन्ति दण्डयास्तेऽर्थानुसारत: ॥४१०॥
हेमरत्नप्रवालाद्यान्कृत्रिमान्कुर्वते तु ये ।
क्रेतुर्मुल्यं प्रदाप्यास्ते राज्ञा तव्द्दिगुणं दमम् ॥४११॥
अज्ञातौषधमन्त्रस्तु यश्च व्याधेरतत्त्ववित् ।
रोगिभ्योऽर्थ समादत्ते स दण्डयश्चौरवद्भिषक् ॥४१२॥
कूटाक्षवेदिन: क्षुद्रा राजभागहराश्च ये ।
गणका वश्चकाश्चैव दण्डयास्ते कितवा: स्मृता: ॥४१३॥
अन्यायवादिन: सभ्यास्तथैवोक्तो च जीविन: ।
विश्वस्तवश्चकाश्चैव निर्वास्या: सर्व एव ते ॥४१४॥
निर्वास्या: मारणीया: ब्राह्मणादृते ।
ज्योतिर्ज्ञानं तथोत्पातमविदित्वा तु ये नृणाम् ।
श्रावयन्त्यर्थलोभेन विनेयास्ते प्रयत्नत: ॥४१५॥
दण्डया: ।
दण्डाजिनाभियुक्तं हि आत्मानं दर्शय़न्ति ये ।
हिंसन्ति छद्मना नृणां वध्यास्ते राजपूरुषै: ॥४१६॥
मध्यस्था वश्चयन्त्येकं स्नेहलोभादिना यदा ।
साक्षिणश्चान्यथा ब्रूयुर्दाप्यास्ते व्दिगुणं दमम् ॥४१७॥
इति । अपराधाविशेषे दण्डविशेषमाह विष्णु: । कूटशासनकर्तृश्व हन्यात् । पटे वा ताम्रपट्टे वेत्यादिनोक्तं राजाज्ञामन्तरेण स्वेच्छाकल्पितं कुर्वन्ति तानमात्यादीन् चकारात्प्रकृतिभेदकादींश्च हन्यात् । यथाऽऽह मनु: -
कूटशासनकर्तृश्च प्रकृतीनां च दूषकान् ।
स्त्रीबालब्राह्मणघ्रांश्च हन्याद् व्दिट्सेविनस्तथा ॥४१८॥
विष्णु: । कूटलेख्यकारांश्च हन्यात् । राजशासनातिरिक्तमपि व्यावहारिकं ऋणादिपत्रं कूटं कृत्रिमं कुर्वन्ति तानपि हन्यात् । यथाऽऽह कात्यायन: -
प्रमाणेन तु कूटेन मुद्रया वाऽपि कूटया ।
कार्य तु साधयेद्यो वै स दण्डयो दममुत्तमम् ॥४१९॥
स्थावरे विक्रयाधाने लेख्यं कूटं करोति य: ।
सव सम्यग्भावित: कार्यो जिव्हापाण्यडिघ्रवर्जित: ॥४२०॥
इति ।
न्यूनं वाऽभ्यधिकं चापि लिखेद्यो राजशासनम् ।
पारदारिकचौरं वा मुश्चतो दण्डं उत्तम: ॥४२१॥
अभक्ष्येण व्दिजं दूष्य दण्ड उत्तमसाहसम् ।
मध्यमं क्षत्रियं वैश्यं प्रथमं गूद्रमर्धकम् ॥४२२॥
किं च ।
कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ॥४२३॥
युध्दकार्ये नियुक्तो य: संग्रामात्पलायनं करोति तस्य दण्डमाह मत्स्य: -
त्यागेन य: सहायानां स्वप्राणांस्त्रातुमिच्छति ।
निहन्यु: काष्ठलोष्ठैर्वा दहेयुर्वा कटाग्रिना ॥४२४॥
इति नीतिसारोक्ते: ।
त्र्यडंहीनश्च कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥४२५॥
त्रिशब्दान्नासाकर्णकरैस्त्रिमिर्हीन: कार्य: । किं च --
सर्वकण्टकापापिष्ठं हेमकारं तु पार्थिव: ।
प्रवर्तमानमन्याये छेदयेल्लवश: क्षुरै: ॥४२६॥
इति । तद्देवब्राह्मणराजस्वर्णाविषयम् । विषयविशेषे स एवाऽऽह -
चतुष्पादकृतो दोषो नापैहीति प्रजल्पत: ।
काष्ठलोष्ठेषु पाषाण बाहुयुग्यकृतस्तथा ॥४२७॥
किं च ।
छिन्ननस्येन यानेन तथा भग्रयुगादिना ।
पश्चाच्चैवापसरता हिंसने स्वाम्यदो षभाक् ॥४२८॥
उपेक्षायां स्वामिनो दण्डमाह ।
शक्तोऽप्यमोक्षयन्स्वामी दंष्ट्रिणां गृह्विणां तथा ।
प्रथमं साहसं दद्याव्दिक्रुष्टे व्दिगुणं तथा ॥४२९॥
किं च ।
जारं चौरेत्यभिवदन्दाप्य: पश्चशतं दमम् ।
उपजीव्य धनं मुश्चंस्तदेवाष्टगुणीकृतम् ॥४३०॥
विष्णु: । ये चाकुलीना राज्यमभिकामयेयुस्तान्हन्यात् । अकुलीना अराजबीजिन: । चकाराद्राजक्रीडाद्यनुकर्तव्यश्च । यथाऽऽह कात्यायन: ।
राजक्रीडासु ये सक्ता राजवृत्त्युपजीविन : ।
अप्रियं चास्य कर्तारो वधं तेषां प्रकल्पयेत् ॥४३१॥
इति । विष्णु: । सेतुभेदकांश्च। सेतुर्जलप्रवाहबन्ध: । यथाऽऽह मनु: ।
तडागभेदकं हन्यादप्सु शुध्दवधेन वा ।
यव्दापि प्रतिसंस्कृर्याद्दाप्यस्तूत्तमसाहसम् ॥४३२॥
इति । तडागसेतुभेदकस्त्रीविषये पूर्वमुक्तम् । किं च ।
राज्ञोऽनिष्टप्रवक्तारं तस्यैवाऽऽक्रोशकारकम् ।
तन्मन्त्रस्य प्रभेत्तारं जिव्हां छित्त्वा प्रवासयेत् ॥४३३॥
नारदोऽपि ।
अवक्रुश्य च राजानं वर्त्मनि स्वे व्यवस्थितम् ।
जिव्हाच्छेदाद्भवेच्छुव्द्रि: सर्वस्वहरणेन च ॥४३४॥
इति । किं च -
राज्ञ: कोशापहर्न्तृश्च प्रतिकूलेषु च स्थितान् ।
घातयेव्दिविधैर्दण्डैररीणां चोपजापकान् ॥४३५॥
किं च ।
मृताडंलग्रविक्रेतुर्गुरोस्ताडयितुस्तथा ।
राजयानासनारोदुर्दण्ड उत्तमसाहस: ॥४३६॥
इदं च राजाज्ञाविनैति ज्ञेयम् । नारद: -
राजनि प्रहरेद्यस्तु कृताडंस्यापि दुर्मति: ।
शूले तमग्रौ विपचेद्रह्यहत्या शताधिकम् ॥४३७॥
विष्णुना विशेषो दर्शित: । तादृशमेव वा कुर्यात् । तादृशं नेत्रव्दयरहितं वा कुर्यात् । कारयेदित्यर्थ: । अत्र शूलारोहणाग्रिदाहयोर्विकल्प: । किं च-
व्दिनेत्रभेदिनो राजव्दिष्टादेशकृतस्तथा ।
विप्रत्वेन तु शूद्रस्य जीवतोऽष्टशतो दम: ॥४३८॥
क्रोधादिना परस्परं नेत्रभेत्ता । यश्च विनाशास्त्रं राज्ञोऽनिष्ठप्रयो(व)क्ता । य: शूद्रो भोजनार्थ ब्राह्मणचिन्हं धारयति । एतेऽष्टशतपणान्दण्डनीया: ।श्राध्दभोजनार्थ शूद्रस्य ब्राह्मणवेषधारणे तु तप्तशलाकया यज्ञोपवीतव्दिलिखेदिति स्मृत्युक्तो विशेषो ज्ञेय: । अत्र विष्णुना विशेषो विहित: । उभयनेत्रभेदिनं राजा यावज्जीवं बन्धनात्र विमुश्चेत । उभयोरपि नेत्रयोर्भेदं करोति तं यावज्जीवं बन्धनागारात्र बहि:कुर्यात । राजानुवृत्तौ पुन: त्रे नेत्रव्दयरहितं कुर्यात् । गौतम: । अथाडानि । स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि प्रकृतय: । तद्दूषकांश्च हन्यादिति । तथा च मात्स्ये --
अडेंभ्यो यस्त्वथैकोऽपि द्रोहमाचरतेऽल्पधी: ।
वधस्तस्य तु कर्तव्य: शीघ्रमेव महीक्षिता ॥४३९॥
अयथार्थव्यवहारकरणे याहु: ।
दुदृष्टांस्तु पुनर्दृष्टा व्यवहारान्नृपेण तु ।
सभ्या: सजयिनो दण्डया विवादाद् व्दिगुणं दमम् ॥४४०॥
इति । नारद: ।
अन्वाहितं याचितकमाधि: साधारणं च यत् ।
निक्षेपपुत्रदारांश्च सर्वस्वं चान्वये सति ॥४४१॥
अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ॥४४२॥
इत्यदेयदाने ।
अदेयं यश्च गृह्वाति यश्चादेयं प्रयच्छति ।
तावुभौ चौरवच्छास्यौ दाप्यौ चोत्तमसाहसम् ॥४४३॥
नारदोऽपि -
गृह्वात्यदत्तं यो लोभाद्यश्चादेयं प्रयच्छति ।
अदेयदायको दण्डयस्तथा दत्तप्रतीच्छक: ॥४४४॥
कात्यायन: -
स्वेच्छया य: प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् ।
न दद्यादृणवद्दाप्य: प्राप्नुयात्पूर्वसाहसम् ॥४४५॥
गौतमेन चास्यापवाद उक्त: । प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यादिति । परिव्राजकस्य परिव्रज्यात्यागे कात्यायन:-
प्रव्रज्यावसिता यत्र त्रयो वर्णा व्दिजातय: ।
निर्वासं कारयेव्दिप्रं दासत्वं क्षत्रवैश्ययो: ॥४४६॥
याज्ञवल्क्योऽपि -
प्रव्रज्यावसितो राज्ञो दासस्त्वामरणान्तिकम् ॥४४७॥
निर्वासनप्रकारमाहतुर्दक्षनारदौ -
पारिव्राज्यं गृहीत्वा तु य: स्वधर्मे न तिष्ठति ।
श्वपदेनाडंयित्वा तु राजा शीघ्रं प्रवासयेत् ॥४४८॥
ब्राह्मण्या विक्रये दासीकरणे च दण्डमाह कात्यायन: -
आदद्याद्राह्मणीं यस्तु विक्रीणीयात्तथैव च ।
राज्ञा तदकृतं कार्य दण्डया: स्यु: सर्व एव ते ॥४४९॥
कामात्तु संश्रितां यस्तु कुर्याद्दासीं कुलस्त्रियम् ।
संक्रामयेत वाऽन्यत्र दण्डयस्तच्चाकृतं भवेत् ॥४५०॥
विष्णुरपि । यस्तूत्तमवर्ण दास्ये नियोजयति तस्योत्तमसाहसो दण्ड: । स धनस्यादुष्टदासीविक्रयेदण्डमाह कात्यायन: -
विक्रोशमानां यो भक्तां दासीं विक्रेतुमिच्छति ।
अनापदिस्थ: शक्त: सन्प्राप्रुयात्पूर्वसाहसम् ॥४५१॥
सेवकस्याकाले सेवात्यागे दण्डमाह विष्णु: । स्वामिनं भृतकश्चापूर्णकाले त्यजन् सकलमेवं मूल्यं जह्यात् । राज्ञे च पणशतं दद्यादिति । परसरस्यादिभक्षणे पशुस्वामिन: पशुरक्षकस्य च दण्डमाह याज्ञवल्क्य: -
माषानष्टौ तु महिषी सस्यघातस्य कारिणी ।
दण्डनीया तदर्ध तु गौस्तदर्धमजाविकम् ॥४५२॥
भक्षयित्वोपविष्टानां यथोक्तद् व्दिगुणो दम: ।
सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम् ॥४५३॥
यावत्सस्यं विनश्येत्तु तावत्स्यात्क्षेत्रिण: फलम् ।
गोपस्ताडयस्तु गोमी तु पूर्वोक्तं दण्डमर्हति ॥४५४॥
विवीं तृणकाष्ठादिसंग्रहस्थानम् । एतदपवादमाहोशना -
अदण्डयाश्चोत्सवे गाव: श्राध्दकाले तथैव च ॥४५५॥
व्यास: -
आक्रम्य च व्दिजैर्भुक्तं परिक्षीणैश्च बान्धवै: ।
गोभिश्च नरशार्दूल वाजपेयाव्दिशिष्यते ॥४५६॥
उशना -
गोभिर्विनाशितं धान्यं यो नर: प्रतियाचते ।
पितरस्तस्य नाश्रन्ति त्रिदिवौकस: ॥४५७॥
ग्रामादिसीमाया विपरीतनयने दण्डमाय मनु: -
यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिण: ।
विपरीतं नयन्तस्ते दाप्यास्तु व्दिशतं दमम् ॥४५८॥
नारदोऽपि -
अथ चेदन्यथा ब्रूयु: समन्ता: सीमनिर्णये ।
सर्वे पृथग्पृथग्दण्डया राज्ञा मध्यमसाहसम् ॥४५९॥
कात्यायनोऽपि -
बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ।
कुर्युर्भयाव्दा लोभाव्दा दाप्यास्तूत्तमसाहसम् ॥४६०॥
गवाक्षव्दारमार्गादिरोधे दण्डमाह कात्यायन:
मेखलभ्रमनिष्कसगवाक्षान्नोपरोधयेत् ।
प्रणालीं गृहवास्तुं च पीडयन्दण्डभाग्भवेत् ॥४६१॥
बृहस्पति: -
वर्च: स्थानं वह्विचयं गर्तोच्छिष्टाम्बुसेचनम् ।
अत्यारात्परकुडयस्य न कर्तव्यं कथंचन ॥४६२॥
वर्च:स्थानं शौचस्थलम् । अत्यारादतिसमीपे । कात्यायन: -
विण्मूत्रोदकसेकं च वह्विश्वभ्रनिवेशनम् ।
अरत्निदूयमुत्सृज्य परकुडयान्निवेशयेत् ॥४६३॥
नारद: -
अवस्करस्थलश्वभ्रमस्पन्दनिकादिभि: ।
चतुष्पथसुरस्थान राजमार्गान्न रोधयेत् ॥४६४॥
कात्यायन: -
सर्वे जना: सदा येन प्रयान्ति स चतुष्पथ: ।
अनिषिध्दा यथाकालं राजमार्ग: स उच्यते ॥४६५॥
बृहस्पति: -
यस्तत्र संकरं श्वभ्रं वृक्षारोपणमेव च ।
कामात्पुरीषं कुर्याच्च तस्य दण्डस्तुभाषक: ॥४६६॥
मनुरपि -
समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि ।
स व्दौ कार्षापणौ दद्यादमेध्यं चाऽऽशु शोधयेत् ॥४६७॥
तडागोद्यानाद्युपघाते कात्यायन: -
तडागोद्यानतीर्थानिं योऽमध्येन विनाशयेत् ।
अमेध्यं शोधयित्वा तु दण्डयेत्पूर्वसाहसम् ॥४६८॥
विष्णु: । स्त्रियमशक्तभर्तृकां तदतिक्रमणीं च हन्यात् । भरणादिसमर्थोऽप्यशक्तो निरोध्दुमन्यायेभ्यो भर्ता यस्तं भर्तारं परपुरुषलंपटतया तदतिक्रमकारिणीम् । तथाऽऽह मनु: -
भर्तारं लडंयेद्या तु स्त्री ज्ञातिबलदर्पिता ।
तां श्वभि: खादयेद्राजा संस्थाने बहु संस्थिते ॥४६९॥
इति । दोषमनुक्त्वा कन्यादातुर्दण्डमाह विष्णु: । दोषमनाख्याय कन्यां प्रयच्छश्चं कार्षापणशतम् । दीर्घकुत्सितरोगे तु नारद: -
यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति ।
तस्य कुर्यान्नृपो दण्डं पूर्वसाहसचोदितम् ॥४७०॥
संसृष्टमैथुनादिदोषे तु योगीश्वर: -
अनाख्याय ददद्दोषं दण्ड उत्तमसाहस: ॥४७१॥
दानार्थ प्रदर्शितायामुत्तमकन्यायां दानकाले सदोषामन्यां कन्यां प्रयच्छति तस्य दण्डमाह मात्स्ये -
य: कन्यां दर्शयित्वाऽन्यां दु:कन्यां संप्रयच्छति ।
उत्तमं तस्य कुर्वीत राजा दण्डं तु साहसम् ॥४७२॥
इति । विष्णु: । अदुष्टां दुष्टमिति ब्रुवतस्तूत्तमसाहसै: । राजज्ञातिक्रमणे दण्डमाह कात्यायन: -
आहूतस्त्ववमन्येत य: शक्तो राजशासनम् ।
तस्य कुर्यान्नृपो दण्डं विधिदृष्टेन कर्मणा ॥४७३॥
हीने कर्मणि पश्चाशन्मध्यमे तु शतावर: ।
उसमे तु सहस्रं स्याद् ० ॥४७४॥
इति । राजाज्ञाया: कचिदपवादमाह नारद: ।
निवेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थित: ।
अभियुक्तस्तथाऽन्येन राजाकार्योद्यतस्तथा ॥४७५॥
गवां प्रचारे गोपाला: सस्यावापे कृषीवला: ।
शिल्पिनश्चापि तत्काल आयुधीयाश्च विग्रहे ॥४७६॥
अप्राप्तव्यवहारश्च दूतो देयोन्मुखो व्रती ।
विषमस्थश्चा नासेध्या नचैनानाह्वयेन्नृप: ॥४७७॥
तथा ।
न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।
सर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुका: स्मृता: ॥४७८॥
इति । आसेधो राजाज्ञया प्रतिबन्ध: । निवेष्टुकामो विवाहोन्मुख: । मिताक्षराया मपि -
अकल्पबालस्थाविरविषमस्थक्रियाकुलान् ।
कार्यातिपातिव्यसनिनृपकार्योत्सवाकुलान् ॥४७९॥
मत्तोन्मत्तप्रमत्तार्तान्भृत्यान्नाऽऽह्वानयेन्नृप: ॥४८०॥
इति । आह्वाननिषेधेन राजाज्ञाद्यातिक्रमणे न दोष: । व्यसनादिनिवृतौ पुन: र्दोषोऽवगन्तव्य: । याज्ञवल्क्योऽपि --
नदीसंतारकान्तारदुर्देशोपप्लवादिषु ।
आसिध्दस्तं परासेधं व्युत्क्रमन्नाप्रराघ्रुयात् ॥४८१॥
इति । विष्णु: - येषां देय: पन्थास्तेषां पथोऽदायी कार्षापणविंशतिं दण्डय: । याज्ञवल्क्येन -
वृध्दभारिनृपस्नातस्त्रीरोगिवरवर्णिनाम् ॥४८२॥
पन्था देय इत्युक्तं तेषां पथोऽदायी विंशतिपणान्दण्डय: । विष्णु: । आसनार्हस्याऽऽसनमददच्च । पूजार्हमपूजयंश्च । चकारादुक्तौ प्रतिवदंश्च । अभिवादितो नाभिवादयंश्च प्रातिवेश्य ब्राह्मणानिमन्त्रणांतिक्रमणे च पश्चविंशतिपणात्मको दण्ड: । इदं च प्रामादिके । बुध्दिपूर्वके तु सुवर्णमाषकम् । यथाऽऽह मनु: -
प्रातिवेश्यानुवेश्यौ च कल्याणे विंशतिर्व्दिजे ।
अर्हावभोजयान्विप्रो दण्डमर्हति माषकम् ॥४८३॥
अयं च दण्डो भोज्यदानानन्तरम् ।योगीश्वरोऽपि --
तरिक: स्थलजं शुल्कं गृह्वन्दाप्य: पणान्दश ।
ब्राह्मण: प्रतिवेश्यानामेतदेवानिमन्त्रणे ॥४८४॥
इति । चकारद्दानातिक्रमणे यथाऽऽह कात्यायन: -
संन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिकमेत् ।
यद्ददाति तमुल्लड्ंध्य तस्य स्तेयेन लिप्यते ॥४८५॥
अधीयानत्वविशेषणान्मूर्खातिक्रमणे न दोष इत्याह स एव ।
यस्य त्वेकगृहे मूर्खो दूरे चार्घ्यगुणान्वित: ।
गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रम: ॥४८६॥
विष्णु: - निमन्त्रयित्वा भोजनमदायिनश्च । योग्यं ब्राह्मणं निमंन्त्र्य अभोजयंश्च विंशति कार्षापणान्दण्डय: । चकाराव्दिगुणभोजनं दाप्य: । प्रामादिके चेदम् बुध्दिपूर्वे मनुराह -
श्रोत्रिय: श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् ।
तदन्नं व्दिगुणं दाप्यो हिरण्यं चैव माषकम् ॥४७८॥
इति । हिरण्यमाषकं दण्ड इत्यर्थ: । विष्णु: । निमन्त्रितस्तथेत्युक्त्वा चाभुज्जान: सुवर्णमाषकम् । निमन्त्रितेषु एकस्याभोजने दण्डान्तरं कल्प्यम् । इदं च अत्यक्तपरान्नभोजनविषयम् । मात्स्ये यथा --
आमन्त्रितस्तु यो विप्रो वर्तमान: प्रतिग्रहे ।
निष्कारणं न गच्छेत्तु स दाप्योऽष्टशतं दमम् ॥४८८॥
इति । निष्कारणपदात्पातित्यादि दोषाभावो गम्यते । पातित्यादिदोषे तु न दोष: । चकारात्प्रतिग्रहं स्वीकृत्याप्रतिग्राही च । विष्णु: - जात्यपहारिणा लसुनादिना प्रच्छन्नभोजितेन ब्राह्मणस्य जातिमपहरति स वध्य: ब्राह्मणव्यतिरिक्तश्वेत् । स तु कृताडो निर्वास्य एव ॥ क्षत्रियं दूषायितुस्तुस्तदर्धम् । वैश्यं दूषयितुस्तदर्धमिति । शूद्रं दूषयितु: प्रथमसाहसम् । स्वस्य शास्त्रीयज्ञानाभावे धर्मानुष्ठानकर्तुर्दण्डमाह प्रतिष्ठाहेमाद्रौ मनु: -
कर्मानुष्ठानभूयस्त्वात्फलभूयस्त्वदर्शनात् ।
केवलं शास्त्रमाश्रित्य प्रतिष्ठाकार्मनार्हाति ॥४८९॥
अज्ञानादथवा लोभादत्पज्ञ: कर्तुमिच्छति ।
प्रतिष्ठाकर्मदेवानां नियन्तव्य: स राजभि : ॥४९०॥
राज्ञा धर्मप्रवृत्तेन धर्मवृध्दिमभीप्सता ।
स्वराष्ट्रे सर्वकर्माणि सम्यक्कार्याणि शास्त्रत: ॥४९१॥
अमन्त्रज्ञा हि बहव: कर्तुमिच्छन्ति सर्वदा ।
तेषां तु निग्रह: कार्यो राष्ट्रभडंभ्यान्नृपै : ॥४९२॥
न्यासहोमविधिं सम्यक् न जानाति व्दिजाधम: ।
आचार्यो न स मन्तव्यो निग्राह्यस्तस्करो यथा ॥४९३॥
अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्विज: ।
दक्षिणाहीनो यजमान्न प्रतिष्ठासमो रिपु: ॥४९४॥
इत्युक्ते: । अभिचारिककर्मकरणे दण्ड: कालिकापुराणे -
अभिचारिकमत्यर्थ कुर्वाणं तु विघातयेत् ।
प्रवासयेद्राह्मणं तु पार्थिवाश्चाऽऽभिचारिकम् ॥४९५॥
सेवकस्य सेवाऽकरणे दण्ड: । मात्स्ये -
भृत्यो राज्ञां न कुर्याद्यो दर्पात्कर्म यथोदितम् ।
स दण्डय: कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥४९६॥
इति । छत्रदेवताप्रतिमादिभेदने दण्डमाह मात्स्ये । मनु: -
छत्रस्य ध्वजयष्ठीनां प्रतिमानां च भेदका: ।
प्रतिकुर्युश्च तत्सर्व दण्ड: पश्चशतानि च ॥४९७॥
छत्रप्रतिमादि सम्यक्कृत्वा दण्डं च दद्यादिति । प्राकारादिभेदने दण्डमाह मात्स्ये -
प्राकारस्य च भेत्तारं परिखानां च पूरकम् ।
व्दाराणां चैव भेत्तारं क्षिप्रं निर्वासयेत्पुरात् ॥४९८॥
कूटसाक्षिणो दण्डमाह याज्ञवल्क्य: -
पृथग्पृथग्दण्डनीया: कूटकृत्साक्षिणस्तथा ।
विवादाद् व्दिगुणं दण्डया विवास्यो ब्राह्मण: स्मृत: ॥४९९॥
अथ महापातकेषु दण्डमाह । विष्णु: । अथ महापातकिनो ब्राह्मणवर्ज सर्वे वध्या: । वधोऽत्र प्राणावियोगानुकूलव्यापार: । इदं च प्रायाश्चित्ताकरणे ।
चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् ।
शरीरं धनसंयुक्तं दण्डं धर्म्य प्रकल्पयेत् ॥५००॥
इति मानवात् । एतेषां वध: सर्वस्वापहारश्च । ब्राह्मणस्य पुन: सर्वस्वापहारश्च । ब्राह्मणस्य पुन: सर्वस्वापहार एव न वध: ।
महापातकयुक्तो हि न विप्रो वधमर्हति ॥५०१॥
इति बृहस्पतिस्मरणात् । इदं च कामतो महापातकेषु ज्ञेयम् । अकामतस्तु मनुराह -
इतरे कृतवन्तस्तु पापान्येतान्यकामत: ।
सर्वस्वहारमर्हन्ति सकामास्तु प्रवासनम् ॥५०२॥
इति ।इतरे विप्रातिरिक्ता: । प्रवासनं वध: । ब्राह्मणवर्जमित्यत्र हेतुमाह विष्णु: । न शारीरो ब्राह्मणस्य दण्ड: ।
न त्वडंभेदं विप्रस्य प्रवदन्ति मनीषिण: ॥५०३॥
इति हारितस्मरणात् । कथं तर्हि महापातकेऽस्य दण्ड इत्यत आह विष्णु: । स्वदेशाद्राह्मणं कृताडं विवासयेत् । यथाऽऽह बौधायन: । तप्तायसेन ललाटेऽडंयित्वा विषयान्निर्वासनमिति । अडंनप्रकारपूर्वमुक्त: । इदमपि प्रायश्चित्ताकरणे यथाऽऽह मनु: -
प्रायश्चित्तं तु कुर्वाणास्त्रयो वर्णा यथोदितम् ।
नाड्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥५०४॥
इति । अत्र क्षत्रियादीनामडंकरण विप्रसमानधर्मकसवनस्थक्षत्रियादिविषयम् । इतरेषां तु वधविधानादडंननिषेध: । यथा चाऽऽहोशना --
ब्राह्मणस्यापराधेषु चतुर्ष्वडों विधीयते ।
इतरेषां तु वर्णानामडंनं नात्र कारयेत् ॥५०५॥
महापातकयुक्तांश्च वधदण्डेन शातयेत् ॥५०६॥
इति । एतदपि कामतो महापातकेन । अकामतस्तु मनु: -
आग:सु ब्राह्मणस्यैषु कार्यो मध्यमसाहस: ।
विवास्यो वा भवेद्राज्यात्सद्रव्य: सपरिच्छद: ॥५०७॥
इति । आग:सु महापातकेषु । अपराधान्तरे ब्राह्मणस्य कथमित्यय आह विष्णु: । अन्यत्रापि वधाकर्मणि तिष्ठन्तं समग्रधनमक्षतं विवासयेत् । अन्यत्र वधाकर्मणि कूटशासनकरणादौ । यथाऽऽह मनु: -
न जात ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ।
राष्ट्रादेनं बहि:कुर्यात्समग्रधनमक्षतम् ॥५०८॥
इति । बहिष्कारप्रकार: पूर्वमुक्त: । अथ ब्राह्मणवधे मदनरत्ने भविष्ये -
अकामतो यदा हन्यान्मानवो ब्राह्मणान्बहन् ।
चरेद्रतं वने घोरे यावत्प्राणपरिक्षय: ॥५०९॥
कामतश्चतुरादिवधे तत्रैवोक्तम् ।
कामतस्तु यदा हन्याद्राह्मणान् सुरसत्तम ।
तदात्मानं दहेदग्रौ विधिना येन तच्छृणु ॥५१०॥
भूत्वा निष्कालको वीर वेष्टयित्वा तु वाससा ।
घृताक्तेन महावाहो दत्त्वा सर्वस्वमेव हि ॥५११॥
हित्वा पादौ करीषाग्रौ दहेदात्मानमाशिखम् ॥५१२॥
निष्कालक: कृतसर्वाडंवपन: । कामत: पित्रादिवधे सवनस्थवधे चैवम् ।
यागस्थक्षत्रविडांती ब्रह्महत्या व्रतं चरेत् ॥५१३॥
इति याज्ञवल्क्योक्ते: । मनुरपि -
लक्ष्यं शस्त्रभृतां वा स्याव्दिषामिच्छयाऽऽत्मन: ।
प्रास्येदात्मानमग्रौ वा समिध्दे त्रिरवाक् शिरा: ॥५१४॥
लक्ष्यभूतो मृतो जीवन्या शुध्येत् ।तदाह याज्ञवल्क्य: -
मृतकल्प: प्रहारार्तो जिवन्नापि विशुध्यति ॥५१५॥
प्राणान्तिकं तु यत्प्रोक्तं प्रायश्चित्तं मनीषिभि: ।
तत्कामकारविषयं विज्ञेयं नात्र संशय: ॥५१६॥
इति मध्यमाडिरसोक्ते: । यमोऽपि --
य: कामतो महापापं नर: कुर्यात्कथंचन ।
न तस्य शुध्दिर्निर्दिष्टा भृग्वग्रिपतनादृते ॥५१७॥
इदं क्षत्रियादेर्न विप्रस्य प्रायश्चित्तविधानं च विप्राणां मरणान्तिकमिति कलौ निषेधात् । पित्रादिवधे त्वापस्तम्ब: पितृमातृभ्रूणहननं ब्राह्मण्या गर्भिण्या वधश्च ब्रह्महत्यायां तीव्रतामांनि । एतदेव गुरुत्वा श्रोत्रियं वा कर्मसंपन्नमेतेनैव विधिनोत्तमादुच्छासाच्चरोदिति । उच्छासो मरणम् । मदनरत्ने भविष्ये -
मातरं पितरं हत्वा सोदरं भ्रातरं तथा ।
गुरुं हत्वा श्रोत्रियं वा आहिताग्रिमथापि वा ॥५१८॥
अनेन विधिना पापी कीर्तयेत्पापमात्मन: ।
व्रतं चरेदोत्तमात्तु उच्छृसान्नियतव्रत: ॥५१९॥
इदं सर्ववर्णपरम् । याज्ञवल्क्योऽपि
लोमभ्य: स्वाहेत्येवं हि लोमप्रभृति वै तनुं ।
मज्जान्तां जुहुयाव्दापि मन्त्रैरेतैर्यथाक्रमम् ॥५२०॥
इति । गर्भवधे याज्ञवल्क्य: -
गर्भहा च यथावर्ण तथाऽऽत्रेयीनिषूदक: ॥५२१॥
इति । ब्रह्मघातकानाह पैठीनसि: -
हन्ता मन्तोपदेष्टा च तथा संप्रतिपादक: ।
प्रोत्साहक: सहायश्च तथा मार्गोपदेशक: ॥५२२॥
आश्रय: शस्त्रदाता च भक्तदाता विकर्मिणाम् ।
उपेक्षक: शक्तिमांश्चेद्दोषवक्ताऽनुमोदक: ॥५२३॥
अकार्यकारिणस्तेषां प्रायश्चित्तं प्रकल्पयेत् ।
यथाशक्त्यनुरुपं च द्ण्ड तेषां प्रकल्पयेत् ॥५२४॥
मनुरपि -
बहूनामेककार्याणां सर्वेषां शस्त्रधारिणाम् ।
यद्येको घातयेत्तत्र सर्वे ते घातका: स्मृता: ॥५२५॥
अत एव मनुना अनुग्राहकस्य हिंसाफलसंबन्धो दर्शित: । तथा प्रयोजकादीनामप्यापस्तम्बेन फलसंबन्ध उक्त: । प्रयोजयिताऽनुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु भागिनो यो भूय आरभेत तस्मिन्फलविशेष इति । तत्रा प्रवृत्तस्य प्रवर्तक: प्रयोजक: । स त्रिविध: । आज्ञापयिता अभ्यर्थयमान उपदेष्टेति । आज्ञापयिता स्वामी । अभ्यर्थयिता स्वयमशक्त: सन् प्रार्थनादिना मच्छत्रुं व्यापादयेत्युच्चं प्रवर्तयति स: । उपदेष्टा तु त्वं स्वशत्रुमित्थं व्यापादयेति मर्मोध्दाटनाद्युपदेशपुर: सरं प्रेरयति स: । अनुमन्ता तु प्रवृत्तस्य प्रवर्तक: । स व्दिविध: । कश्चित्स्वार्थ कश्चित्परार्थमनुजानाति स: । विष्णु: ।
आक्रुष्टस्ताडितो वाऽपि धनैर्वा विप्रयोजित: ।
यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातिनम् ॥५२६॥
इति विष्णूक्ते: । तथा -
ज्ञातिपुत्रकलत्रार्थ सुहृत्क्षेत्रार्थमेव च ॥५२७॥
अर्ध तदेव । सुमन्तुरपि
तिरस्कृतो यदा विप्रो हत्वाऽऽत्मानं मृतो यदि ।
निर्गुण: सहसा क्रोधाद्रहक्षेत्रादिकारणात् ॥५२८॥
त्रिवार्षिकं व्रतं कुर्यात्प्रतिलोमां सरस्वतीम् ।
गच्छेव्दाऽपि विशुध्यर्थ तत्पापस्येति निश्चितम् ॥५२९॥
एताव्दिषये प्रायश्चित्तलाघवाद्दण्डलाघवं कल्प्यमिति योगीश्वर: । अस्यापवाद: यथाऽऽह विष्णु: -
उद्दिश्य कुपितो हत्वा तोषित: श्रावयेत्पुन: ।
तस्मिन्मृते न दोषोऽस्मित व्दयोरुच्छ्रावणे कृते ॥५३०॥
आक्रोशकेन धनदानेन तोषित: । जनसमक्षं उच्चै: श्रावयति नाऽक्रोशकस्यापराध इति तत्र वचनात्र दोष: ।किं च ।
अकारणं तु य: किंचिव्द्दिज: प्राणान्परित्यजेत् ।
तस्यैव हि स दोष: स्यान्न तु यं परिकीर्तयेत् ॥५३१॥
इति सुमन्तुस्मरणात् । हिंसा सहायादिषु प्रायश्चित्ततारतम्यं कल्पनीयम् । साक्षाध्दन्तुर्मरणान्तिकप्रायश्चित्तमेव दण्ड इति सर्वनिबन्धा: । ब्रह्महत्यासमान्याह । याज्ञवल्क्य: -
गुरुणामध्यधिक्षेपो वेदनिन्दा सुहृव्दध: ।
ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् ॥५३२॥
गुरुणामधिक्षेप: अनृतामिशंसनम् । गुरोरनृताभिशंसनं महापातकसममिति गौतमस्मरणात् । वेदनिन्दा । नास्तिक्याभिनिवेशेन वेदकुत्सनम् । सुहृदो मित्रस्याब्राह्मणस्यापि वध: । अधीतवेदस्य असच्छास्त्रविनोदेन नाशनं विस्मरणाम् । एतानि प्रत्येकं ब्रह्महत्यासमानि । बृहव्दिष्णु: । गयास्थक्षत्रियवैश्यवध: । रजस्वलायाश्चान्तर्वत्न्याश्चात्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानि । एताव्दिषये प्रायश्चितानुसारेण दण्डानुसरणं कार्यमिति । बालवृध्दादीनां साक्षाद्राह्महन्तृत्वेऽपि प्रायश्चित्ताल्पत्वेन दण्डाल्पत्वमपि बोध्यम् । यथाऽऽहाडिरा: -
अशीतिर्यस्य वर्षाणि बालो वाऽप्यूनषोडश: ।
प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥५३३॥
इति । तथ -
अर्वाक्तु व्दादशाव्दर्षादशीतेरुर्ध्वमेव च ।
अर्धमेव भवेत्पुंसां तुरीयं तत्र योषिताम् ॥५३४॥
इति । तथा । अनुपनीतस्यापि बालस्य पादमात्रं प्रायाश्चित्तम् ।
स्त्रीणामर्ध प्रदातव्यं पुत्राणां रोगिणां तथा ।
पादो बालेषु दातव्य: सर्वपापेष्वयं विधि: ॥५३५॥
इति विष्णुस्मरणात् । अतश्च यच्छडेन: -
ऊनैकादशवर्षस्य पश्चवर्षात्परस्य च ।
प्रायश्चित्तं चरेद्भाता पिता वाऽन्य: सुहृज्जन: ॥५३६॥
इति प्रतिपाद्योक्तम् -
अतो बालतरस्यास्य नापराधो न पातकम् ।
राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥५३७॥
इति तदपि संपूर्णप्रायश्चित्ताभावप्रतिपादनपरम् । न पुन: सर्वात्मना तदभावप्रतिपादनपरम् । कचित्सत्यपि हिंसानिमित्ते उपकारार्थ प्रवृत्ते दोषाभावमाह । मिताक्षरायां संवर्त: -
बन्धने गोश्चिकित्सार्थे गूढगर्भाविमोचने ।
यत्ने कृते विपत्तिश्चेत्प्रायश्चित्तं विद्यते ॥५३८॥
औषधं स्नेहमाहारं ददद्रोब्राह्मणादिषु ।
दीयमाने विपत्ति: स्यान्न स पापेन लिप्यते ॥५३९॥
दाहच्छेदशिराभेदप्रयत्नैरुपकुर्वताम् ।
प्राणसंत्राणसिध्यर्य प्रायश्चित्तं न विद्यते ॥५४०॥
इति प्रायश्चित्ताभावाद्दण्डाभावो बोध्य: । एतन्निपुणभिषग्विषयम् । इतरस्य द्ण्ड: पूर्वमुक्त: । इति ब्राह्मणवधदण्डनिरुपणमिति वधपदेन पठयनुमात्रनिषेध: । नित्यं मद्यं ब्राह्मणो वर्जयेत् ।
सुरा वै मलमन्नानां पाप्मा च मलमुच्यते ।
तस्माद्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥५४१॥
इति त्रैवर्णिकविषय: सुरानिषेध: । तत्पाने दण्डमाह याज्ञवल्क्य: । अथ सुरापाने याज्ञवल्क्य: दण्ड: ।
सुराम्बुघृतगोमूत्रपयसामग्रिसंनिभम् ।
सुरापोऽन्यतमं पीत्वा मरणाच्छुध्दिमृच्छति ॥५४२॥
अग्रिसंतप्तमेकं पीत्वा म्रियतेत्यर्थ: । गोमूत्रसाहित्यात् घृतं पयश्च गव्यम् । पय: साहित्याद्रोमूत्रं स्त्रैणम् । मनु: -
पयो घृतं वाऽऽमरणाद्रोशकृद्रसमेव वा ॥५४३॥
देवलस्तु । रुप्यताम्रहेमसीसानामन्यतममग्रिकल्पं पीत्वा शरीरपरित्यगात्पूतो भवतीत्याह पैठीनसि: -
सुराप आर्द्रवासाश्च अग्रिवर्णा सुरा पिबेत् ॥५४४॥
रेत-सेक:कुमारीषु स्वयोनिष्वन्यजासु च ।
सख्यु: पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदु: ॥५५९॥
इति मनुस्मरणात् । रेत:सेकात् प्राक् न गुरुतल्पसमत्वम् । तथा -
पितु: स्वसारं मातुश्च मातुलानीं स्नुषामपि ।
मातु: सपत्नीं भगिनीमाचार्यतनयां तथा ॥५६०॥
आचार्यपत्नीं तनयां गच्छंस्तु गुरुतल्पग: ।
लिडं छित्वा वधस्तत्र सकामाया: स्त्रिया अपि ॥५६१॥
तस्य लिडं छित्वा राज्ञा वध: कर्तव्य: । दण्डार्थ प्रायश्चित्तं च तदेवेति विज्ञानेश्वर: । चशब्दाद्राज्ञीप्रवजितादीनां ग्रहणम् । यथाऽऽह नारद-
माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥५६२॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥५६३॥
आसामन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्रस्योत्कर्तनं दण्डो नान्यस्तत्र विधीयते ॥५६४॥
इति । अयं च द्ण्डो ब्राह्मणव्यतिरिक्तस्य ।
न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ॥५६५॥
इति । तस्य वधनिषेधात् तस्य तप्तेऽय: शयने स्वप्यादित्यादिनोक्तं मृत्युरुप प्रायश्चित्तं व्रतमेव दण्ड: । प्रायश्चित्तस्योभयरुपत्वात् । बृहव्दिष्णु : । सगोत्राया उत्तमवर्णाया रजस्वलाया: प्रव्रजिताया निक्षिप्तायाश्च गमनमित्येनान्यनुपातकानि । यदा पुनरेता: स्त्रिय: सकामा: सत्य एतानेव पुरुषान्वशीकृत्योपभुजते । तदा तासामपि पुरुषवद्दण्ड: । प्रायश्चित्तं च यमोऽपि -
मातृष्वसा मातृसखी दुहिता च पितृष्वसा ।
मातुलानी स्वसा श्वश्रूर्गत्वा सद्य: पतेव्द्दिज: ॥५६६॥
इति । अथ संसर्गिणां दण्ड: । अत्रापि प्रायश्चित्तानुसारेण दण्ड: कल्प्य इति राज्ञा यथाशास्त्रं सभ्यानुमतेन कृतदण्डानां पापिनां न केवलं पापक्षय: किं तु स्वर्गप्राप्तिपीत्याह मनु: -
राजभि: कृतदण्डास्तु कृत्वा पापानि मानवा: ।
निर्मला: स्वर्गमायान्ति सन्त: सकृतिनो यथा ॥५६७॥
इति गुरुतल्पदण्डनिरुपणम् । एवं व्यवहारदर्शनेन राज्ञ ऐहिकमायुष्मिकं च फलं भवतीति प्रपञ्चितं प्राक् । व्यवहारदर्शने तु दोषमाह मनु: -
धर्मो विध्दस्त्वधर्मेण सभां यत्रोपतिष्ठते ।
शल्यं चास्य न कृन्तन्ति विव्दांस्तत्र सभासद: ॥५६८॥
पादोऽधर्मस्य कर्तारं पाद: साक्षिणमृच्छति ।
पाद: सभासद: सर्वान्पादो राजानमृच्छति ॥५६९॥
कर्तृपापस्य पाद इत्यर्थ: । नारदेन सभ्यविषयेऽपवाद उक्त: -
न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपते: ।
वक्तव्यं तत्प्रियं नात्र न सभ्य: किल्बिषी भवेत् ॥५७०॥
तत्प्रियं राजप्रियम् । यदि राजप्रियं वदेत्तदा प्रत्यवाय: । तथा --
अधर्मत: प्रवृत्तं तं नोपेक्षेरन्सभासद: ।
उपेक्षमाणा: स नृपा नरकं यान्त्यधोमुखा: ॥५७१॥
अन्यायेनापि तं यान्तं येऽनु यान्ति सभासद: ।
तेऽपि तद्भागिनस्तस्मात् बोधनीय: स तैर्नृप: ॥५७२॥
इति । याज्ञवल्क्योऽपि --
सभा वा न प्रवेष्टव्या वक्तव्यं वा समज्जसम् ।
अब्रुवन्विब्रुवन्वाऽपि नरो भवति किल्बिषी ॥५७३॥
अदण्डयान्दण्डयन्राजा दण्डयाश्चैवाप्यदण्डयन् ।
अयशो महदाप्रोति नरकं चैव गच्छति ॥५७४॥
तथा मात्स्ये --
योऽवध्यस्य वधे तावान्तावान्वध्यस्य रक्षणे ।
अधर्मो नृपतेर्दृष्ट एतयोरुभओरपि ॥५७५॥
इति ।
इति श्रीमन्महाराजाधिराजक्षत्रियकुलावतंससिंहासनाधीश्वरश्रीशंभुराज छत्रपतिविरचिते ग्रन्थे बुधभूषणे श्रीमत्पुरोहितदामोदरभट्टात्मजकेशवपण्डित विरचितधर्मकल्पलतान्तर्गतनीतिमञ्जर्या दण्डनीतिप्रकरणम् ।
श्रीरस्तु ॥ श्रीरामाय नम: ॥
शके राज्याभिषेकीये दुंदुभसंवत्सरे लिहमिदं पुस्तकम् ।
समाप्त
N/A
References : N/A
Last Updated : February 01, 2018
TOP