अथ हिंसायां दण्डनिरुपणम् ।
केशवपण्डितकृतम् धर्मकल्पलनान्तर्गतनीतिमज्जर्यां दण्डनीतिप्रकरणम् ।
श्रीगणेशाय नम: ॥
[अनुष्टुप]
प्रसन्नवदनं रामं निधाय हृदि केशव: ।
धर्मकल्पालतासिध्यै तनुते नीतिमज्जरीम् ॥१॥
श्रीगणेशाय नम: ॥
[उपेन्द्रवज्रा ]
जयत्यसौ शंभुमखी (ही) महेन्द्र:
प्रख्यातकीर्ति: प्रियधर्ममूर्ति: ।
दानेन यस्माखिलविप्रसार्था:
शश्वत् कृता: (तास्ते) सुखिनो भवन्ति ॥२॥
मन्वादिशास्त्रणि विचार्य सम्यक
तथा निबन्धांश्च मिताक्षरादीन् ।
[सारं] समादाय ततश्च तेन
निबध्यतेऽस्मिन्खलु दण्डनीति: ॥३॥
मनु: -
दुष्टस्य दण्ड: सुजनस्य पूजा
न्यायेन कोशस्य च संप्रवृध्दि: ।
अपक्षपातो विषयस्य रक्षा
पश्चैव यज्ञा: कथिता नृपाणाम् ॥४॥
तेषां चाभिषेकादिगुणयुक्तानां प्रजापालनं परमो धर्म: । स च शिष्टपालनं दुष्टदण्डनं विना न संभवति ।
शिष्टदुष्टज्ञानं तु व्यवहारदर्शनं विना नेति तद्दर्शनमावश्यकम् । तदाह याज्ञवल्क्य: -
[अनुष्टुप]
व्यवहारान्नृप: पश्योव्दिव्दद्भिर्ब्राह्मणै: सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविबर्जित: ॥५॥
अन्न धर्मशास्त्रानुसारेणेति वैतेन धर्मशास्त्रेणेत्यर्थ: ।
धर्मशास्त्रविरोधे तु युक्तियुक्तो विधि: स्मृत: ॥६॥
स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारत: ॥७॥
इति नारदोक्ते: । युक्तिर्न्याय: ।
केवलं शास्त्रामाश्रित्य न कर्तव्यो हि निर्ण्यद: ।
युक्तिहीनविचारे हि धर्महानि: प्रजायते ॥८॥
चोरोऽचोर: साध्वसाधु जायते व्यवहारत: ।
युक्तिं विना विचारेण माण्डव्यश्चोरतां गत: ॥९॥
असत्या: सत्यसंकाशा: सत्याश्चासत्य संनिभा: ।
दृश्यन्ते भ्रान्तिजनकास्तस्माद्युक्त्या विचारयेत् ॥१०॥
इति बृहस्पति स्मरणात् । कात्यायनोऽपि
स तु सभ्यै: स्थिरैर्युक्त: प्राज्ञैर्मौलैर्व्दिजोत्तमै: ॥११॥
राजा तु धार्मिकान्सभ्यान्नियुज्ज्यात्सुपरीक्षितान् ।
व्यवहारधुरं वोढुं ये शक्ता: सद्रवा इव ॥१२॥
इति नारदीयात् ।
अनियुक्तो नियुक्तो वा धर्मज्ञो वक्तुमर्हति ।
दैवीं वाचं स वदति (य:) शास्त्रमुपजीवति ॥१३॥
इति वसिष्ठोक्तेर्वच: ।
नानियुक्तेन वक्तव्यं व्यवहारेषु किंचन ।
नियुक्तेन तु वक्तव्यमपक्षपतितं वच: ॥१४॥
इति नारदवाक्यस्य निवारणीयमित्यर्थ: । पुरोहितस्य नियुक्तापेक्षया राज्ञो निवारणे अधिक: प्रत्यवाय: ।
दण्डनीयोत्सर्गे राजैकरात्रमुपदा (तो) पे [वासे] त्रिरात्रं पुरोहित: । कृच्छ्रमदण्डनीयदण्डने ।
पुरोहितस्त्रिरात्रमेकरात्रं राज्ञेति वसिष्ठेन पुरोहितस्याधिकप्रायाश्वित्तोक्ते: । कात्यायन: ।
कुलशीलवयोवृत्तवित्तवद्भिरमत्सरै: ।
वणिग्भि: स्यात्कतिपयै: कुलभूतैरधिष्ठितम् ॥१५॥
इति सभ्यसभालक्षणादि विस्तरभयान्नेहोक्तम् । तच्च महानिबन्धेभ्योऽवसेयम् ।
अनादेयव्यवहारानाह याज्ञवल्क्य: -
मत्तोन्मत्तार्तव्यसनिबालभीतादियोजित: ।
असंबध्दकृतश्चैव व्यवहारो न सिध्यति ॥१६॥
तथा -
पुरराष्ट्रविरुध्दश्च यश्च राज्ञा विवर्जित: ॥१७॥
अनादेयो भवेव्दादो धर्मविद्भिरुदाहृत: ॥१८॥
इति । प्रजापालनं च केभ्य: कार्यमित्याह याज्ञवल्क्य:-
चाटतस्करदुर्वृत्तमहासाहसिकादिभि: ॥१९॥
अयुक्तिकेभ्यश्चोरेभ्य: परेभ्यो राजवल्लभात् ॥२०॥
पीडयमाना: प्रजा रक्षेत्कायस्थैश्च विशेषत: ॥२१॥
अरक्षणे दोषमाह स एव -
अरक्षमाणा: कुर्वन्ति यत्किंचित्किल्बिषं प्रजा: ॥२२॥
तस्मात्तु नृपतेरर्ध यस्माद्गृह्वात्यसौ करान् ।
ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् ॥२३॥
साधून्सन्मानयेद्राजा विपरीतांश्च घातयेत् ॥२४॥
तथा च । अपत्यध्य (राध्य) नुसारेण दण्डप्रणयनं कार्यम् । तदाह याज्ञवल्क्य : -
तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ॥२५॥
धर्मो हि दण्डरुपेण ब्रह्मणा निर्मित: पुरा ॥२६॥
यथाशास्त्रं प्रयुक्त: सन्सदेवासुरमानुषम् ॥२७॥
जगदानन्दयेत्सर्वमन्यथा तत्प्रकोपयेत् ॥२८॥
सम्यक्तु दण्डनं राज्ञ: स्वर्गकीर्तिजयावहम् ।
अपि भ्राता सुतोऽर्ध्यो वा श्वशुरो मातुलोऽपि वा ॥२९॥
नादण्डयो नाम राज्ञोऽस्ति धर्माव्दिचलित: स्वकात् ॥३०॥
एतच्च मातापित्रादिव्यतिरेकेण । तथा च शड्ख: । अदण्डयौ मातापितरौ ।
स्नातकपुरोहितपरिव्राजकवानप्रस्था: श्रुतिशीलशौचाचारवन्तस्ते हि धर्माधिकारिण इति । इदमपि धनदण्डयाद्यभिप्रायेण यथाऽऽह बृहस्पति: ।
गुरुन्पुरोहितामात्यान्वाग्दण्डेनैव दण्डयेत् ।
विवादिनो नराश्चान्यान्दोषिणोऽर्थेन दण्डयेत् ॥३१॥
यो दण्डयान्दण्डयेद्राजा सम्यग्वध्याश्च घातयेत् ॥३२॥
इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणै: ।
इति संचिन्त्य नृपति: क्रतुतुल्यफलं पृथक् ॥३३॥
व्यवहारान्स्वयं पश्येत्सभ्यै: परिवृतोऽन्वहम् ॥३४॥
फलान्तरमाह याज्ञवल्क्य: [मनु: कात्यायनश्च]--
यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भय: ।
प्रजास्तत्र विवर्व्द्रन्ते नेता चेत्साधु पश्यति ॥३५॥
स प्राडिंवाक : सामात्य : स ब्राह्मणपुरोहित: ।
स सभ्य: प्रेक्षको राजा स्वर्गे तिष्ठति धर्मत: ॥३६॥
इति।
कुलानि जाती: श्रेणिश्च गणान् जनपदानपि ॥३७॥
स्वधर्माच्चलितान् राजा विनीय स्थापयेत्पथि ॥३८॥
दण्डं दुर्वृत्तेषु पातयेदित्युक्तं स दण्डो व्दिविध: । यथाऽऽह नारद: ।
शारीरश्चार्थद्ण्डश्च दण्डस्तु व्दिबिध: स्मृत: ॥३९॥
शारीरस्ताडनादिस्तु मरणान्त: प्रकीर्तित: ॥४०॥
काकिण्यादिस्त्वर्थदण्डं: सर्वस्वान्त: प्रकीर्तित: ॥४१॥
व्दिविधोऽप्यपराधानुसारेणानेकधा भवति ।
शारीरो नवधा प्रोक्तो ह्यर्थदण्डस्त्वनेकधा ॥४२॥
दशस्थानानि दण्डस्य मनु: स्वायंभुवोऽब्रवीत् ॥४३॥
उपस्थमुदरं जिव्हा हस्तौ पादौ च पश्चमम् ।
चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥४४॥
शारीरदण्डविषये अपवादमाह कात्यायन: -
सुवर्णशतमेकं तु वधार्हो दण्डमर्हति ।
अडंच्छेदे तदर्थ तु संदंशार्हस्तदर्धकम् ॥४५॥
इति । इदं ब्राह्मणाविषयम् । ब्राह्मणभिन्नविषये तु ।
त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥४६॥
नायं नियम: । बन्धनाकंरणादीनामपि दर्शनात् ।
धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् ।
अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ॥४७॥
तदुक्तं विज्ञानेश्वरेण ब्राह्मणस्य पुनर्द्रव्यासत्त्वे कर्मवियोगादीनि ।
यथाऽऽह गौतम: कर्मयोजनविख्यापननिर्वासनाडंकरणादीन्यवृत्ताविति ।
नारदेनापि -
वध: सर्वस्वहरणं पुरान्निर्वासनाडंने ।
तदडंच्छेद इत्युक्तो द्ण्ड उत्तमसाहसे ॥४८॥
अविशेषेण सर्वेषामेष दण्डविधि: स्मृत: ।
वधादृते ब्राह्मणस्य न वधं ब्राह्मणोऽर्हति ॥४९॥
शिरसो मुण्डनं दण्डस्त्वस्य निर्वासनं पुरात् ।
ललाटे चाभिशस्ताडं: प्रयाणं गर्दभेन च ॥५०॥
इति । व्यासोऽपि ।
वपनं द्रविणादानं स्थानात्रिर्यापणं तथा ।
एष[वै] ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिक: ॥५१॥
अडंने व्यवस्था दर्शिता ।
गुरुतल्पे भग: कार्य: सुरापाने सुराध्वर: ।
स्तेये तु श्वपदं कार्ये ब्रह्महण्यशिरा: पुमान् ॥५२॥
इति। अड्कनं तु ब्राह्मणानां भल्लातकरसेन । इतरेषां तप्तलोहशलाकयेति वैजयन्तीकार: ।
यत्तु । चक्षुर्निरोधओ ब्राह्मणस्येत्यापस्तम्बवचनम् ।
ब्राह्मणस्य पुरान्निर्वासनसमये वस्त्रादिना चक्षुर्निरोध: कर्तव्य इति तस्यार्थ: ।
न चक्षुषोरुहरणं अक्षतो व्रजेत् ।
न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि ।
तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥५३॥
न शारीरो ब्राह्मणस्य दण्ड इत्यादि मनुगौतमादिवचनविरोधादित्यलं प्रसडेंन । दण्डभेदानाह ।
धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ॥५४॥
योज्या व्यस्ता: समस्ता वाऽप्यपराधवशादिमे ॥५५॥
साशीति: पणसाहस्रो द्ण्ड उत्तमसाहस: ॥५६॥
तदर्ध मध्यम: प्रोक्तस्तदर्धमध्यम: स्मृत: ॥५७॥
ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा ।
वय:कर्म च वित्तं च दण्डं दण्डयेषु पातयेत् ॥५८॥
व्यवहारविषयमाह ।
स्मृत्याचारव्यपेतेन मार्गेणाधर्षित: परै: ।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥५९॥
व्यवहारदर्शनप्रकारमाह मनु: ।
व्यवहारन्दिदृक्षुस्तु ब्राह्मणै: सह पार्थिव: ।
मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीत: प्रविशेत्सभाम् ॥६०॥
तत्राऽऽसीन: स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् ।
विनीतवेषाभरण: पश्येत्कार्याणि कार्यिणाम् ॥६१॥
प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभि: ।
अष्टासशसु मार्गेषु निबध्दानि पृथक् पृथक् ॥६२॥
धर्मासनमधिष्ठाय संवीताडं: समाहित: ।
प्रणम्य लोकपालेभ्य: कार्यदर्शनमारभेत ॥६३॥
इति । स्थित इति पूज्यार्थिप्रत्यर्थिविषयम् । पाणिमुद्यम्येत्यभयप्रदर्शनार्थम् ।
बृहस्पतिरपि --
विप्रो धर्मद्रुमस्याऽऽदि स्कन्द(न्ध) शाखे महीपति: ।
सचिवा: पत्रपुष्पाणि फलं न्यायेन पालनम् ॥६४॥
यशो वित्तं फलरसो भोगोऽत्र ग्रहपूजनम् ।
अजेयत्वं लोकपडिं: स्वर्गे स्थानं च शाश्वतम् ॥६५॥
विदित्वैतान् न्यायसरसान्समो भूत्वा विवादिनाम् ।
त्यक्त्वा लोभादिकं राजा धर्म्यं कुर्याव्दिनिर्णयम् ॥६६॥
इति । व्यवहारदर्शने प्रत्यवायाभाव उक्तो मनुना ।
राजा भवत्यनेनास्तु मुच्यन्ते च सभासद: ।
एनो गच्छति कर्तारं निन्दार्हो यत्र तिष्ठति ॥६७॥
इति । सर्वमपि व्यवहारदर्शनं देशाचारानुरोधेन कर्तव्यामित्याह संवर्त: ।
तस्माच्छास्त्रानुसारेण राजा कार्याणि साधयेत् ॥६८॥
मनुरपि --
जातिजान्पदान्धर्मान् श्रेणिधर्मास्तथैव च ।
समीक्ष्य कुलधर्माश्च स्वधर्म प्रतिपालयेत् ॥६९॥
[स्वधर्मे राजधर्मे व्यवहारदर्शनमित्यर्थ:।] कुलधर्मस्वरुपमाह कात्यायन: --
गोत्रस्थितिस्तु या येषां क्रमादायाति धर्मत: ।
कुलधर्म तुं तं प्राहु: पालयेत्तं तथैव च ॥७०॥
बृहस्पति: --
देशजातिकुलानां च ये धर्मा: प्राक् प्रवर्तिता: ।
तथैव ते पालनीया: प्रजा प्रक्षुभ्यतेऽन्यथा ॥७१॥
जनापराक्तिर्भवति व्यक्तं कोशश्च नश्यति ।
उदूह्यते दाक्षिणात्यैर्मातुलस्य सुता व्दिजै: ॥७२॥
मध्यदेशे कर्मकरा: शिल्पिनश्च गवासि(शि)न: ।
मत्स्यादाश्च नरा: सर्वे व्यभिचाररतास्त्रिय: ॥७३॥
उत्तरे मद्यपा नार्य: स्पृश्या नृणां रजस्वला: ।
स्ववंशजाता: प्रगृह्वान्ति भ्रातृभार्यामभर्तृकाम् ॥७४॥
अनेककर्मणा नैते प्रायाश्चित्तदमार्हका: ॥७५॥
प्रायश्च्वित्ताऽही दण्डार्हाश्व न भवन्तीत्यर्थ: । विशेषमाह व्यास: --
वाणिक् शिल्पिप्रभृतिषु कृषिरडोंपजीविषु ।
अशक्यो निर्णयो ह्यन्यैस्तं तैरेव तु कारयेत् ॥७६॥
बृहस्पति: --
कीनाशा: कारुका: शिल्पिकुसीदश्रेणिनर्तका: ।
लिडिंनस्तस्कारा: कुर्यु: स्वेन धर्मेण निर्णयम् ॥७७॥
कीनाशा: कर्षका: । मनु: --
आश्रमेषु व्दिजातीनां कार्ये विवदतां मिथ: ।
न विब्रूयान्नृपो धर्म चिकीर्षन्प्रियमात्मन: ॥७८॥
यथार्हमेतानभ्यर्च्य ब्राह्मणै: सह पार्थिव: ।
सांत्वेन प्रशमय्यादौ स्वधर्म प्रतिपालयेत् ॥७९॥
बृहस्पति: --
तपस्विनां तु कार्याणि त्रिविधैरेव कारयेत् ।
उत्कृष्टजातिमू(शी) लानां गुर्वाचार्यतपस्विनाम् ॥८०॥
अभियुक्ताश्च ये तत्र यन्निबन्ध प्रजोजना:( प्रजोजना: ) ।
तत्रत्य गुणदोषाणां त एव हि विचारका: ॥८१॥
राज्ञ: कार्यान्तरो सक्तत्वेन व्यवहारादर्शने याज्ञवल्क्य: _
अपश्यता कार्यवशाव्यवहारान्नृपेण तु ।
सभ्यै: सह नियोक्तव्यो ब्राह्मण: सर्वधर्मवित् ॥८२॥
तथा --
यदा स्वयं न कुर्यात्तु नृपति: कार्यदर्शनम् ।
तथा नियुज्ज्याव्दिव्दांस ब्राह्मणं कार्यदर्शनें ॥८३॥
सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृत: ।
सभामेव प्रविश्यागर्यामासीन: स्थित एव च ॥८४॥
इति मनूक्तेश्व । कात्यायनोऽपि --
यदा न कुर्यान्नृपति: स्वयं कार्यविनिर्णयम् ।
तदा तत्र नियुज्जीत ब्राह्मणं शास्त्रपारगम ॥८५॥
दान्त कुलीनं मध्यस्थमनुव्देगकरं स्थिरम् ।
परत्रभीरुं धीमन्तं निर्लोभं क्रोधवर्जितम् ॥८६॥
मनु: --
यत्र विप्रो न विव्दान्स्यात्क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥८७॥
इति ।
जातिमात्रोपजीवी वा कामं स्याद्राह्मणब्रुव: ।
धर्मप्रवक्ता नृपतेर्न तु शूद्रं : कथंचन ॥८८॥
यत्र राज्ञस्तु कुरुते शूद्रो धर्मविवेचनम् ।
तस्य सीदति तद्राष्ट्रं पडें गौरिव पश्यत: ॥८९॥
इति व्यासोक्तेश्व । अत्र शूद्रस्य निषेधादनुलोमप्रतिलोमजानां सुतरां निषेधोऽवगन्तव्य: ।
अमात्यादिकार्येऽपि शूद्रादिनिषेध
इति स्मृतिचन्द्रिकाकार: ।
N/A
References : N/A
Last Updated : February 01, 2018
TOP