संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|दण्डनीतिः| अथ दण्डपारुष्ये दण्ड: दण्डनीतिः विषयानुक्रमणिका अथ हिंसायां दण्डनिरुपणम् । अथ व्यवहारदर्शनकलमाह कात्यायन: अथ चौर्यदण्ड: अथ स्त्रीसंग्रहणरुपे पारदार्ये दण्ड: अथ वाक्यारुष्ये दण्ड: अथ दण्डपारुष्ये दण्ड: अथ केवलसाहसे दण्ड: अथ दण्डपारुष्ये दण्ड: केशवपण्डितकृतम् धर्मकल्पलनान्तर्गतनीतिमज्जर्यां दण्डनीतिप्रकरणम् । Tags : dandnitikeshav panditsanskritकेशव पण्डितदण्डनीतिसंस्कृत अथ दण्डपारुष्ये दण्ड: । Translation - भाषांतर तत्स्वरुपमाह मिताक्षरायां नारद: -परगात्रेष्वभिद्रोहो हस्तपादायुधादिभि: ।भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥२९८॥परगात्रादिषु स्थावरजडंमादिद्रव्येषु । अभिद्रोहो दु:खोत्पादनम् । तथा भस्मादिग्रहणाद्रज: पडंपुरीषाद्यैरुपघात: संदर्शनरुपं । तस्य भेदानाह-तस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् ।अवगू(गो) रणानि: शडंपातनक्षतदर्शनै: ॥२९९॥हीनमध्योत्तमद्रव्यरुपकर्मत्रैविध्यात्पुनस्त्रैविध्यम् ।हीनमध्योत्तमानां च द्रव्याणां समतिक्रमात् ।त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् ॥३००॥राज्ञा कार्यमिति शेष: । उपघातस्य भेदानाह परिशिष्टकार: -दु:खं रक्तं व्रणं भडं च्छेदनं भेदनं तथा ।कुर्याद्यत्प्राणिनां तध्दि दण्डपारुष्यमुच्यते ॥३०१॥विधि: पश्चविधस्तूक्त एतयोरुभयोरपि ॥३०२॥पारुष्ये सति संरम्भादुत्पन्ने क्रुध्दयोर्व्दयो: ।स मान्यते य: क्षमते द्ण्डभाग्योऽतिवर्तते ॥३०३॥पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् ।पश्चाद्य: सोऽप्यसत्कारी पूर्वे तु विनयो गुरुद: ॥३०४॥व्दयोरापन्नयोस्तुल्यमनुबध्नाति य:पुन: ।स तयोर्दण्डमप्रोति पूर्वो वा यदि वेतर: ॥३०५॥पारुष्यदोषावृतयोर्युगपत्संप्रवृत्तयो: ।विशेषश्चेन्न लक्ष्येत विनय: स्यात्समस्तयो: ॥६०६॥श्वपाकपण्डचण्डालव्यडेंषु वधवृत्तिषु ।हस्तिपव्रात्यदासेषु गुर्वाचार्यान्नृपेषु च ॥३०७॥मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥३०८॥यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु ।स एव विनयं कुर्यान्न तव्दिनयभाड्ंनृप: ॥३०९॥आकुष्टस्तु समाक्रोशंस्ताडित: प्रतिताडयन ।हत्वाऽपराधिनं चैव नापराधी भवेन्नर: ॥३१०॥मला होते मनुष्याणां धनमेषां मलात्मकम् ।अतस्तान्घातयेद्राजा नार्थदण्डेन द्ण्डयेत् ॥३११॥व्दयो: कलहप्रवृत्तयोर्मध्ये य: क्षमेत तस्य दण्डाभाव: पूज्यत्वं च । पूर्व कलहप्रवृतस्य दण्डगुरुत्वम् । अपराधविशेषापरिज्ञाने दण्ड: सम: । श्वपचादिभिरार्याणामपराधे कृते सज्जना एव दण्डदापनेऽधिकारिण: । श्वपचादीन्नाजा घातयेत्रार्थ गृहीयादिति । दण्डपारुष्यसंदेहे निर्णयहेतुमाह -असाक्षिके हते चिन्हैर्युक्तिभिश्चाऽऽगमेन च ।द्रष्टव्यो व्यवहारस्तु कूटचिन्हकृतो भयात् ॥३१२॥एवं निश्चिते साधनविशेषे द्ण्डविशेषमाह -भस्मपडंरज: स्पर्शे दण्डो दशपण: स्मृत: ।अमेध्यपार्ष्णिनिष्ठयूतस्पर्शने व्दिगुणस्तत: ॥३१३॥समेष्वेवं परस्त्रीषु व्दिगुणस्तूत्तमेषु च ।हीनेष्वर्धदमो मोहमदादिभिरदण्डनम् ॥३१४॥अमेध्यमिति अश्रुश्लेष्मनखकेशकर्णविट्दूषिकाशुक्रोच्छेषादिकम् । पार्ष्णि: पादस्य पश्चिमो भाग: । निष्ठयूतं मुखनि:सारितं जलम् । पुरीषादिस्पर्शने कात्यायनेन विशेषो दर्शित: -छर्दिमूत्रपुरीषाद्यैरापाद्य: स चतुर्गुण: ।षडुण: कायमध्ये स्यान्मूर्ध्रि त्वष्टगुण: स्मृत: ॥३१५॥इति । आद्यग्रहणाव्दसाशुक्रादयो गृह्यन्ते । स च सवर्णविषय: । परभार्यासु चाविशेषेण । मोहमदादिभिरित्यत्रादिग्रहणादहावेशादिकम् । बृहस्पति: -उद्यतेऽश्मशिलाकाष्ठे कर्तव्य: प्रथमो दम: ॥३१६॥मध्यम: शस्त्रसंपाते संयोज्य: क्षुब्धयोर्व्दयो: ॥३१७॥एतद्युक्तेन कृतेऽप्यपराधे दण्डाभाव: । प्रातिलोम्यापराधे द्ण्डमाह । विष्णु: । हीनवर्णोऽधिकवर्णस्य येनाडेंनापराधं कुर्यात्तदेवास्य शातयेत् । योगीश्वरोऽपि-विप्रपीडाकरं च्छेद्यमडंमब्राह्मणस्य तु ।उद्रूर्णे प्रथमो दण्ड: संस्पर्शे तु तदर्धिक: ॥३१८॥मनुराह -येन केनचिदडेन हिंस्याच्छ्रेयांसमन्त्यज: ।च्छेत्तव्यं तत्तदेवास्य तन्ममोरनुशासनम् ॥३१९॥एवम् -पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति ॥३२०॥याज्ञवल्क्य: [मनु:] -अवनिष्टीवतो दर्पादूव्दावोष्ठौ च्छेदयेन्नृप: ।अवमृत्रयतो मेढ्रमवशर्धयतो गुदम् ॥३२१॥केशेषु गृहतो हस्तौ च्छेदयेदविचारयन् ।पादयोस्ताडने चैव ग्रीवायां च व्रणेषु च ॥३२२॥कात्यायन:देहेन्द्रियविनाशे तु यथा द्ण्डं प्रकल्पयेत ।व्रणितुष्टिकरं देयं ससुत्थानं च पण्डितै: ॥३२३॥एवं त्रैवर्णिकापराधे शूद्रस्याडंच्छेदनमेव । विष्णु: । एकासनोपवेशी -कट्या कृताडों निर्वास्य: स्फिचं वाप्यस्य कर्तयेत् ॥३२४॥इति । अडंन च तप्ताय सेनेति वैजयन्तीकार: । सजातिमधिकृत्याऽऽह-उद्रूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।परस्परं तु सर्वेषां शस्त्रे मध्यमसाहस: ॥३२५॥पादकेशांशुकावेष्टपादाध्यासे शतं दम: ॥३२६॥शोणितेन विना दु:खं कुर्वन्काष्ठादिभिर्नर: ।व्दात्रिंशतं पणान्दण्डयो व्दिगुणं दर्शनेऽसृज: ॥३२७॥अत्र मनुना विशेष उक्त: -त्वग्भेदक: शतं दण्डयो लोहितस्य तु दर्शक: ।मांसभेत्ता च षण् निष्कान्प्रवास्यस्त्वास्थिभेदक: ॥३२८॥करपाददतो भडें च्छेदने कर्णनासयो: ।मध्यो दण्डो व्रणोद्भेदे मृत्कल्पहते तथा ॥३२९॥चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।कन्धराबाहुसक्थ्नां च भडें मध्यमसाहस: ॥३३०॥इति योगिवचनम् । तत्र भडों भेदनं न तु च्छेदनमिति । यथाऽह कात्यायन: -कर्णौष्ठघ्राणपादाक्षिजिव्हाशिश्रकरस्य च ।च्छेदने चोत्तमो दण्डो भेदने मध्यमो भृगु: ॥३३१॥इति । च्छेदनं व्दैधीभाव: । भेदनमवयशैथिल्यम् । चेष्टारोधादिनिमित्ते प्रत्येकं दण्डो वेदितव्य: । आदिपदाज्जिव्हाप्रभेदनेऽपि । अपि च-एकं घ्रतां बहूनां च यथोक्ताद् व्दिगुणो दण्ड: प्रत्येकं वेदितव्य: ।वाक्पारुष्ये य एवोक्ता: प्रतिलोमानुलोमत: ।त एव द्ण्डपारुष्ये दाप्या राज्ञा यथाक्रमम् ॥३३३॥कलहापहृतं देयं दण्डश्च व्दिगुणस्तत: ॥३३४॥दु:खमुत्पादयेद्यस्तु संसमुत्थानजं व्ययम् ।दाप्यो दण्डश्च यो यस्मिन्कलहे समुदाहृत: ॥३३५॥समुत्थानं परिचर्या । तया सह वर्तमान व्ययं दद्यु: । व्ययं दत्त्वा परिचरेयुरित्यर्थ: । दरिद्रस्तु परिचर्यामात्रं कुर्यात् । यथाऽऽह कात्यायन: -वाग्दण्डस्ताडनं चैव येषूक्तमपराधिषु ।हृतं भग्रं प्रदाप्यास्ते शोध्यं नि:स्वैस्तु कर्मणा ॥३३६॥व्ययदानानिच्छुस्तावन्तं दण्डं दाप्य: । यथाऽऽह मनु: -समुत्थानव्ययं दाप्य: सर्वदण्डमथापि वा ॥३३७॥इति ।व्ययशब्द[ स्य] सामर्थ्यात्कलहापहृतं च यत् ॥३३८॥इति बार्हस्पत्यात् । अपहर्तृणां च व्दिगुणो द्ण्ड: -कलहापहृतं देयं दण्डश्च व्दिगुणस्तत: ॥३३९॥इति योगिस्मरणात् । ततोऽपहृताव्दस्तुन: । समुत्थानजं व्रणशोषणार्थमौषधार्थ द्ण्डं च दाप्य: । परगात्राभिद्रोहे दण्डमुक्त्वा बहिरडांर्थनाशे दण्डमाह -अभिघाते तथा च्छेदे भेदे कुडयावपातने ।पणान्दाप्य: पश्चदशर्विशतिं तद्ययं तथा ॥३४०॥षोडशाद्य: पणान्दाप्यो व्दितीयो मध्यमं दमम् ॥३४१॥कुडयावपातने एते त्रयो दण्डा: समुच्चिता ग्राह्या: । पुन: कुडयसंपादनार्थ धनं स्वामिने दद्यात् ।दु:खोत्पादि गृहे द्रव्यं क्षिपन्प्राणहरं तथा ।षोडशाद्य: पणान्दाप्यो व्दितीयो मध्यमं दमम् ॥३४२॥दु:खोत्पादि कण्टकादि । प्राणहरं विषादि । क्रमेण षोडशपणमध्यमसाहसौ विज्ञेयौ । पश्वभिद्रोहे दण्डमाह -दु:खे च शोणितोत्पादे शाखाडंच्छेदने तथा ।दण्ड: क्षुद्रपशूनां तु व्दिपणप्रभृति:क्रमात् ॥३४३॥शोणितस्त्रावशृडांडच्छेदनेषु क्रमेण च ॥३४४॥व्दिपणश्चतुष्पण: षट्पणोऽष्टपण इत्येवं रुप: । किं च -लिडंस्य च्छेदने मृत्यौ मध्यमो मूल्यमेव च ।महापशूनामेतेषु स्थानेषु व्दिगुणो दम: ॥३४५॥महापशूनां गोगजवाजिप्रभृतीनां स्वामिने मूल्य द्ण्डं च राज्ञे । विष्णुरपि ग्राम्यपशुपीडाकराश्च । ग्राम्या: पशवो गवाश्वादय: । तेषां व्रणादिकर्तारस्तेऽपि तत्परिचर्यापूर्वकं व्ययं दद्यु: । चकारातैलाभ्यडांदिकं च कर्तव्यम् । यथा पराशर :-व्रणभडें च कर्तव्यस्तैलाभ्यडंस्तु पाणिना ।यवसं चोपहर्तव्यो यावदूदृढबलोद्भवेत् ॥३४६॥इति । विष्णु: । पशूनां पुंस्त्वोपघाती कार्षापणशतम् । स्थावरमिद्रोहे दण्डमाह -प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे ।उपजीव्यद्रुमाणां च विंशतेर्व्दिगुणो दम: ॥३४७॥अनुपजीव्या प्ररोहिशाखिषु कल्प्यम् । वृक्षविशेषं प्रत्याह -चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।जातद्रुमाणां व्दिगुणो दमो वृक्षेऽथ विश्रुते ॥३४८॥वनस्पतीनां सर्वेषामुपभोगो यथा यथा ।तथा तथा दम: कार्यो हिंसायामिति धारणा ॥३४९॥इति मनुस्मरणात् । विष्णुरपि । फलोपभोगद्रुमच्छेदीतूत्तमसाहसं । पुष्पोपभोगच्छेदी मध्यमसाहसम् । वल्लीगुल्मलताच्छेदी कार्षापणशतम् । तृणच्छेद्येकम् ।सर्वे च तत्स्वामिनां तदुत्पत्तिमिति । तदुत्पत्तिं छिन्नद्रुमाद्यत्पत्तिसामग्रीं दद्युरिती । भार्यादि ताडने । दण्डमाह यम: -भार्या पुत्रश्च दासश्च दासी शिष्यश्च पश्चम: ।कृतापराधास्ताडया: स्यू रज्ज्वा वेणुदलेन वा ॥३५०॥अधस्तात्तु प्रहर्तव्यं नोत्तमाडें कथंचन ।अतोऽन्यथा प्रवृत्तस्तु यथोक्तं द्ण्डमर्हति ॥३५१॥मनुरपि -भार्या पुत्रश्च दासश्च दासी भ्राता सहोदर: ।प्राप्तापराधास्ताडयाश्च रज्ज्वा वेणुदलेन वा ॥३५२॥पृष्ठतस्तु शरीरस्य नोत्तमाडें कथंचन ।अतोऽन्यथा तु प्रहरन्प्राप्त: स्याच्चौरकिल्बिषम् ॥३५३॥यत्र तु आत्मन: कश्चिद्व्देषात्ताडनादि चिन्हं विधाय परमभिद्रवति । तत्र साक्षादिभिर्दिव्येन वा परीक्षणं कार्यमिति नारदोक्ते: । गुल्मादीन्प्रत्याह ।गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम् ।पूर्वस्मृतादर्धदण्ड: स्थानेषूक्तेषु कर्तने ॥३५४॥॥इति दण्डपारुष्यं च ॥ N/A References : N/A Last Updated : February 01, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP