संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|दण्डनीतिः| अथ चौर्यदण्ड: दण्डनीतिः विषयानुक्रमणिका अथ हिंसायां दण्डनिरुपणम् । अथ व्यवहारदर्शनकलमाह कात्यायन: अथ चौर्यदण्ड: अथ स्त्रीसंग्रहणरुपे पारदार्ये दण्ड: अथ वाक्यारुष्ये दण्ड: अथ दण्डपारुष्ये दण्ड: अथ केवलसाहसे दण्ड: अथ चौर्यदण्ड: केशवपण्डितकृतम् धर्मकल्पलनान्तर्गतनीतिमज्जर्यां दण्डनीतिप्रकरणम् । Tags : dandnitikeshav panditsanskritकेशव पण्डितदण्डनीतिसंस्कृत अथ चौर्यदण्ड: । Translation - भाषांतर तत्स्वरुपमाह नारद: -उपायैर्विविधैरेषां छलयित्वाऽपकर्षणम् ।सुप्तमत्तप्रमत्तेभ्य: स्तेयमाहुर्मनीषिण: ॥१३८॥चौरं प्रदाप्यापहृतं घातयेव्दिविधैर्वधै: ॥१३९॥अन्यायोपात्तवित्तत्वाध्दनमेषां मलात्मकम् ।अतस्तान्घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥१४०॥इदं च महापराधविषयम् । चोरभेदानाह बृहस्पति: -प्रकाशाश्चाप्रकाशाश्च तस्करा व्दिविधा: स्मृता: ।प्रज्ञासामर्थ्यमायाभि: प्रभिन्नास्ते सहस्रधा ॥१४१॥अत एव नारद: -प्रकाशवश्चकास्तत्र कूटमानतुलाश्रिता: ।उत्कोचका: सोपधिका: वज्चका: पण्ययोषित: ॥१४२॥प्रतिरुपकराश्चैव मडंलदेशवृत्तय: ।इत्येवमादयो ज्ञेया: प्रकाशास्तस्करा भुवि ॥१४३॥अप्रकाशतस्करस्वरुपमाह व्यास: -साधनाडांन्विता रात्रौ विचरन्त्यविभाषिता: ।अविज्ञातनिवासाश्च ज्ञेया: प्रच्छन्नतस्करा: ॥१४४॥उत्क्षेपक: संधिभेत्ता पान्थमुड्ग्रन्थिभेदक: ।स्त्रीपुंगोश्व्पशुस्तेयी चोरो नवविध: स्मृत: ॥१४५॥इति । चोरविषये द्ण्डमाह योगीश्वर: ।सचिन्हं ब्राह्मणं कृत्वा स्वराष्ट्राव्दिप्रवासयेत् ॥१४६॥बन्दिग्राहांस्तथा वाजिकुंजराणां च हारिण : ।प्रसह्यघातिनश्चैव शूल्मारोपयेन्नरान् ॥१४७॥अग्न्यगारायुधागारदिवतागारभेदकान् ।हस्त्यश्वरथहन्तृंश्च हन्यादेवाविचारयन् ॥१४८॥इति मनुस्मरणात् ।उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ ।कार्यौ व्दितीयापराधे करपादैकहीनकौ ॥१४९॥तथा द्च मनु: -अडुंली ग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे ।व्दितीये हस्तचरणौ तृतीये वधमर्हति ॥१५०॥अड्ंगुली तर्जन्यड्ंगुष्ठौ । नारद:-प्रथमे ग्रन्थिभेदानामडुंष्ठयोर्वध: ॥१५१॥द्रव्याणामानन्त्याप्रतिद्रव्यं द्ण्डं वक्तुमशक्ते: सामान्येन दण्डकल्पनामाह ।क्षुद्रमध्योत्तमद्रव्यहरणे सारतो दम: ।देशकालवय: शक्ति संचिन्त्यं दण्डकर्मणि ॥१५२॥क्षुद्रादिस्वरुपमाह ।मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत् ।शमीधान्यं कृतान्नं च क्षुद्रदव्यमुदाहृतम् ॥१५३॥वास: कौशेजवंर्ज च गोवंर्ज पशवस्तथा ।हिरण्यवंर्ज लोहं च मध्यं व्रीहियवा अपि ॥१५४॥हिरण्यरत्नकौशेयस्त्रीपुंगोगजवाजिन: ।देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयमुत्तमम ॥१५५॥साहसेषु य एवोक्तस्त्रिषु द्ण्डो मनीषिभि: ।स एव द्ण्ड: स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥१५६॥मनु: ।धान्यं दशभ्य: कुम्भेभ्यो हरतोऽभ्यधिकं वध: ।शेषेऽप्येकादशगुणं दाप्यस्तस्य च तध्दनम् ॥१५७॥विंशतिद्रोण: कुम्भ: । हर्तुर्हियमाण: स्वामिगुणापेक्षया सुभिक्षदुर्भिक्षका लापेक्षया वा ताडनाडंच्छेदवधस्वरुपा दण्डा योज्या: ।सुवर्णरजतादीनामुत्तमानां च वाससाम् ।रत्नानां चैव सर्वेषां शतादभ्यधिके वध: ॥१५८॥पश्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते ।शेषेष्वेकादशगुणं मूल्याद्ण्डं प्रकल्पयेत् ॥१५९॥शतपत्र माषाणामेव । मानवे स दण्डं प्राप्नुयान्माषमिति माषस्यैवोपक्रमात् ।पुरुषाणां कुलीनानां नारीणाम् च विशेषत: ।रत्नानां चैव सर्वेषां हरणे वधमर्हति ॥१६०॥विष्णुरपि रत्नापहार्युत्तमसाहसम् । रत्नानां वज्रवैडूर्यादीनां बहुमूल्यानाम् । एकस्याप्यपहर्तु: उत्तमसाहसं दण्ड: । इदं ब्राह्मणविषयम् । अन्येषां तु वध एव । शड्ंखलिखितौ । राजपुत्रहरणे सहस्रं शारीरो वा दण्ड: । तत्कुलीनेष्वर्धमिति । अकुलीनानां तु द्ण्डान्तरम् ।पुरुषं हरतो द्ण्ड उक्त उत्तमसाहस: ।स्त्र्यपराधे तु सर्वस्वं कन्यां तु हरतो वध: ॥१६१॥अलंकृतां हरेत्कन्यामुत्तमं त्वन्यथाऽधमम् ।दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वध: स्मृत: ॥१६२॥अलंकृतां विवाहाभिमुखीम् । आनुलोम्यापहार --सकमास्वनुलोमासु न दोषस्त्वन्यथा दम: ॥१६३॥व्यासोऽपि --स्त्रीहर्ता लोहशयने दग्धव्यो वै कटाग्रिना ।नरहर्ता हस्तपादौ स्थित्वा स्थाप्यश्चतुष्पथे ॥१६४॥दासीहरणे दण्डमाह नारद: -सर्वस्वं हरतो नारीं कन्यां तु हरतो वध: ॥१६५॥दासीं च हरतो मध्य: पादस्य च्छेदनं तथा ॥१६६॥इति । बृहस्पति: -गोहर्तुर्नासिकां छित्वा बद्ध्वाम्भसि निमज्जयेत् ॥१६७॥व्यास: -पशुहर्तुस्त्वर्धपादं तीक्ष्णशस्त्रेण कर्तयेत् ॥१६८॥पान्थद्रव्यापहारे बृहस्पति: -तथा पान्थमुषो वृक्षे गले बदूध्वाऽवलम्बयेत् ॥१६९॥माषतो न्यूनमूल्यानां मूल्यात्पश्चगुणो दम: ॥१७०॥काष्ठभाण्डतृणादीनां मृन्मयानां तथैव च ॥१७१॥वेणुवैणवभाण्डानां तथा स्नाय्वस्थिचर्मणाम् ॥१७२॥शाकानामार्द्रमूलानां हरणे फलमूलयो: ॥१७३॥गोरसेक्षुविकाराणां तथा लवणतैलयो: ।पक्कान्नानां कृतान्नानां मद्यानामामिषस्य च ॥१७४॥सर्वेषामल्पमूल्यानां मूल्यात्पश्चगुणो दम: ॥१७५॥इति मनुरपि -सूत्रकार्पासकिण्वानां गोधूमस्य गुडस्य च ।दध्र: क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥१७६॥वेणुवैणवभाण्डानां लवणानां तथैव च ।मृन्मयानां च हरणे मृदू भस्मन एव च ॥१७७॥अजानां पक्षिणां चैव तैलस्य च घृतस्य च ।मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम् ॥१७८॥अन्येषां चैवमादीनां मद्यानामोदनस्य च ।पक्कान्नानां च सर्वेषां तन्मूल्यादूव्दिगुणो दम: ॥१७९॥इति । तदल्पविषयम । विष्णु: अनुक्तद्रव्याणामपहर्ता मूल्यसमम् । यान्युत्तममध्यमाधमकोटिष्वनुक्तानि द्रव्याणि । तन्मूल्यसमं दण्डय: । तथा -संधिं छित्वा तु ये चौर्य रात्रौ कुर्वति तस्करा: ।तेषां छित्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् ॥१८०॥पथिकानामल्पापहारे न दण्ड: । मनु: -व्दिजोऽध्वग: क्षीणवृत्तिर्व्दाविक्षू व्दे च मूलके ।आददान: परक्षेत्रात्र दण्डं दातुमर्हति ॥१८१॥तथा -चणकव्रीहिगोधूमयवानां मुद्रमाषयो: ।अनिषिध्दैर्ग्रहीतव्यो मुष्टिरेक: पथिस्थितै: ॥१८२॥तथैव सप्तमे भक्ते भक्तानि षडनश्रता ।अश्वस्तवविधानेन कर्तव्यं हीनकर्मण: ॥१८३॥यत्तु -व्दिजस्तृणैध: पुष्पाणि सर्वत: स्ववदाहरेत् ॥१८४॥इति योगीश्वरवचनं तद्रवाद्यर्थतृणादिविषयम । गोऽन्यर्य तृणमेघांसि वीरुध्दनस्पतीनां च पुष्पाणि स्ववदाहरेदिति फलानि चापरिवृत्तानामिति गौतमस्मरणात् । यत्पुनर्बार्हस्पस्त्यम् ।तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् ।अनापृच्छन्हि गृह्वानो हस्तच्छेदनमर्हति ॥१८५॥इति । तद्राह्मणस्वामिकापहर्तृव्दिजव्यतिरिक्तविषयमनापव्दिषयं वा । राजादिरक्षितविषयं वा । ब्राह्मणस्यापि बलाद्द्राह्मणस्वामिकापहारविषयं वा । तथा च शड्ंखलिखितौ । ब्राह्मणो ब्राह्मणस्य समिदाज्येध्माग्रिकाष्ठतृणोलपपुष्पमूलफलान्यपहेरध्दलादविज्ञातो वा हस्तच्छेदनमवाप्नुयात् । कुशकरकाग्रिहोत्रद्रव्याण्यपहरत: प्रत्यक्षतोऽडंच्छेद: स्यादिति एतेन स्ववदाहरणस्य परिगृहीतविषयत्वे फलैधकुसुमस्तेयमधैर्य च मलावहमिति विरोधो निरस्त: । गवाद्यार्थविषयत्वात्तस्येति निरवद्यम् । अचोरस्यापि चोरोपकारिणो दण्डमाह नारद: -भक्तावकाशाग्न्युदकमन्त्रोपस्करणव्ययान् ।दत्त्वा चौरस्य वा हन्तुर्जानतो दम उत्तम: ॥१८६॥शक्ताश्च ये उपेक्षन्ते तेऽपि तद्दोषभागिन: ॥१८७॥उत्कोशतां जनानां च हियमाणे धने तथा ।श्रुत्वा ये नाभिधावन्ति तेऽपि तद्दोषभागिन: ॥१८८॥तद्दण्डभागिन इत्यर्थ: । सर्व स्तेयदोषमाह । विष्णु: । स्तेना: सर्वमपहृतं धनिकस्य दाप्यास्तस्तेषामभिहितदण्डप्रयोग इति । स्वामिने अपहृतद्रव्यदापनानन्तरं यथोक्तदण्डानुष्ठानं कार्यम् ।संसर्गचिन्हसंधैश्च विज्ञाता राजपूरुषै: ।प्रदाप्यापहृतं द्ण्डया दमै: शास्त्रप्रचोदितै: ॥१८९॥इति । बार्हस्पत्यात् ।चोरापहृतमानेतुमशक्तेन महीभृता ॥१९०॥स्वकोशाध्दनिने धनं देयमिति विज्ञानेश्वर: । इति चौर्यप्रकरणं समाप्तम् ॥ऽऽ॥ऽऽ॥श्री॥ N/A References : N/A Last Updated : February 01, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP