संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|दण्डनीतिः| अथ वाक्यारुष्ये दण्ड: दण्डनीतिः विषयानुक्रमणिका अथ हिंसायां दण्डनिरुपणम् । अथ व्यवहारदर्शनकलमाह कात्यायन: अथ चौर्यदण्ड: अथ स्त्रीसंग्रहणरुपे पारदार्ये दण्ड: अथ वाक्यारुष्ये दण्ड: अथ दण्डपारुष्ये दण्ड: अथ केवलसाहसे दण्ड: अथ वाक्यारुष्ये दण्ड: केशवपण्डितकृतम् धर्मकल्पलनान्तर्गतनीतिमज्जर्यां दण्डनीतिप्रकरणम् । Tags : dandnitikeshav panditsanskritकेशव पण्डितदण्डनीतिसंस्कृत अथ वाक्यारुष्ये दण्ड: । Translation - भाषांतर तल्लक्षणमाह नारद: -देशजातिकुलादीनामाक्रोशन्यडंसंयुतम् ।यव्दच: प्रतिकूलार्थ वाक्पारुष्यं तदुच्यते ॥२७६॥उच्चैर्भाषणमाक्रोश: । न्यडंमवद्यम् तस्य च द्ण्डतारतत्मार्थ त्रैविध्यं तैनैवोक्तम् ।निष्टुराश्लीलतीव्रत्वात्तदापि त्रिविधं स्मृतम् ।गौरवानुक्रमात्तस्य द्ण्डोऽपि स्यात्क्रमादुरु: ॥२७७॥साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यडंसंयुतम् ।पतनीयैरुपाक्रोशैस्तीव्रमाहुर्मनीषिण: ॥२७८॥इति । तत्र धिड्ंमूर्खेत्यादि साक्षेपम् । भगिनीगामिईत्यादि अश्लीलम् । ब्रह्माहाऽसीत्यादि तीव्रम् । तत्र निष्ठुराक्षेपे सवर्णविषये दण्ड: ।सत्यासत्यान्यथास्तोत्रैर्न्युनाडेंन्द्रियरोगिणाम् ।क्षेपं करोति चेद्द्ण्डय: पणानर्धत्रयोदशान् ॥२७९॥स्त्यम् ।नेत्रयुगलहीने एव अन्धोऽसीति तत्सत्यम् । चक्षुष्मानेव अन्ध इत्युच्यते तदसत्यम् । विकृताकृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदन्यथास्तोत्रम् ।एतैर्य: क्षेपं भर्त्सनं करोत्यसौ अर्धाधिकत्रयो दशपणान्दण्डय: । यदा पुन: पुत्रादयो मात्रादीन् शपन्ति तेषां दण्डस्तेनैवोक्त: -मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् ।आक्षारयज्छतं दाप्य: पन्थानं चादददुरो: ॥२८०॥अयं च द्ण्ड: सापाराघेषु मात्रादिषु गुरुषु निरपराधायां च जायायां द्रष्टव्य: । अश्लीलापेक्षदण्डमाह । याज्ञवल्क्य: -अभिगन्तासि भगिनीं मातरं वा तवेति ह ।शपन्तं दापयेद्राजा पश्चविंशतिकं दमम् ॥२८१॥इदानीं विषमगुणेषु द्ण्डं प्रतिपादयति -अर्धोऽधमेषु व्दिगुण: परस्त्रीषूत्तमेषु च ॥२८२॥वर्णानामनुलोमानां च परस्पराक्षेपे द्ण्डमाह -दण्डप्रणयनं कांर्य वर्णजात्युत्तराधरै: ॥२८३॥वर्णा: ब्राह्मणाद्या: । जातयो मूर्धावसिक्तदय: । मूर्धावसिक्तं ब्राह्मणध्दीनं क्षत्रियादुत्कृष्टम् चाकृश्य ब्राह्मण: क्षत्रियाक्षेपनिमित्तात्किंचिदधिकं दण्डमर्हति । मूर्धावसिक्ताम्बष्ठयो: परस्पराक्षेपे ब्राह्मणक्षत्रियदण्डवत् ।प्रातिलोम्यापवादेषु व्दिगुणत्रिगुणा दमा: ।वर्णानामानुलोम्येन तस्मादर्धार्धहानित : ॥२८४॥शतं ब्राह्मणमाकृश्य क्षत्रियो दण्डमर्हति ।वैश्योऽप्यर्धशतं व्दे वा शूद्रस्तु वधमर्हति ॥२८५॥वधं ताडनजिव्हाच्छेदनरुपम् ।पश्चाशद्राह्मणो दण्डय: क्षत्रियस्याभिशंसने ।वैश्ये स्यादर्धपश्चाशच्छूदे व्दादशको दम: ॥२८६॥एवं क्षत्रियस्य वैश्याक्रोशे वैश्यस्य शूद्राक्रोशे आनुलोम्येन चाऽऽक्रोशे ज्ञेयं पुनर्निष्ठुराक्षेपमधिकृत्याऽऽह -बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दम: ।शत्यस्तदर्धिक: पादनासाकर्णकरादिषु ॥२८७॥वाचा प्रतिपादिते छिन्नघ्रीत्यादिरुपे प्रत्येकं विनाशे शत्य: शतपणरुप: । पादनासाकर्णकरादिषु तदर्ध: ।अशक्तस्तु वदन्नेवं दण्डनीय: पणान्दश ।तथा शक्त: प्रतिभुवं दाप्य: क्षेमाय तस्य तु ॥२८८॥तीव्राक्रोशे दण्डमाह -पतनीयै : कृते क्षेपे दण्डो मध्यमसाहस: ।उपपातकयुक्ते तु दाप्य: प्रथमसाहसम् ॥२८९॥ब्रह्महाऽसि गोघ्रस्त्वमसीत्यादिरुप: ।त्रैविद्यनृपदेवानां क्षेप उत्तमसाहस: ।मध्यमो ज्ञातिपूगानां प्रथमो ग्रामदेशयो: ॥२९०॥इति । अत्र विष्णुना विशेषोऽभिहित: । अक्रोशयिता च विजिव्ह: । हीनवर्णोऽधिकवर्णस्य जातिभ्रंशादिभिराक्रोशयिता जिव्हारहित: कार्य: । यथाऽऽह मनु: -एकजार्तिर्व्दिजातींस्तु वाचा दारुण्या क्षिपन् ।जिव्हाया: प्राप्नुयाच्छेदं जघन्यप्रभवो हि स: ॥२९१॥एकजातिग्रहणं क्षत्रियाद्युपलक्षणं जघन्यज इति हेतो: । अनृतभाषणे कात्यायन: -अनृताक्षेपशीलानां जिव्हाच्छेदो विशोधनम् ॥२९२॥हारीतोऽपि । मिथ्यादूषिणां मेलकानां च राज्ञा जिव्हां छिन्द्यात् ।कचिदपवाद माहोशना- मोहात्प्रमदात्संहर्षात्प्रीत्या वोक्तं मयेति य: ।नाहमेवं पुनर्वक्ष्ये दण्डार्ध तस्य कल्पयेत् ॥२९३॥इति । विष्णु: । वेदोदाहर्ता च वेदोदाहरणान्वित: ।आक्रोशकस्तु विप्राणां जिव्हाच्छेदेन दण्डयताम् ॥२९४॥इति बार्हस्पत्यात् । विष्णु: । दर्पेण धर्मोपदेशकारिणां राजा तप्तमासेचयेत्तैलमास्ये । दर्पेण विद्यागर्वेण । यथाऽऽह मनु: -धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वत: ।तप्तमासेचयेतैलं वक्त्रे श्रोत्रे च पार्थिव: ॥२९५॥गौतमोऽपि । अथास्य वेदमुपश्रुश्रृण्वतस्त्रपुजतुभ्यां श्रोत्रपूरीणमुदाहरणे जिव्हाच्छेदो धारणे शरीरभेद इति । एतच्च दर्पेण साक्षात् श्रवणे वेदितव्यम् । विष्णु: । च नामजातिग्रहणे दशाडुलोऽस्य शंडुंर्निखेयो मुखे तथाऽऽह मनु: -नामजातिग्रहं तेषामभिद्रोहेण कुर्वत: ।निधेयोऽयोमथ: शडंर्ज्वलन्नस्ये दशाडुंल: ॥२९६॥द्रोहेण ईर्ष्यातिशयेन अरे डित्थायप्ररविप्रेत्याद्यधिकवर्णनामजातिग्रहणं कुर्वत: । हीनवर्णाक्रोशे उत्तमस्य दण्डमाह विष्णु: । हीनवर्णाक्रोशने षट् ।इदमपि सगुणपरम् । निर्गुणाक्षेपे तु न दण्ड: ।गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्नुयात् ॥२९७॥इति बार्हस्पत्यात् ।॥इति वाक्पारुष्यम् ॥ N/A References : N/A Last Updated : February 01, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP