संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| भीमपराक्रमसमागमः प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका भीमपराक्रमसमागमः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत भीमपराक्रमसमागमः Translation - भाषांतर इति पान्थवचः श्रुत्वा संप्राप्योज्जयिनीं शनैः । प्रतिश्रयार्थं वृद्धायाः प्रविष्टोऽहं निवेशनम् ॥४०७॥ रूपकत्रयमादाय सा मे भोजनसिद्धये । दिदेश खट्वां श्रान्तस्य याचितां जीर्णजालकाम् ॥४०८॥ शयानस्तत्र जालेन तदुप्तां यवमुष्टिकाम् । अपश्यं तां च संजातां सहसा फलितामपि ॥४०९॥ तैर्यवैर्विहितान्सक्तून्मदर्थमुपकल्प्य सा । पुनारेवात्मनश्चान्यान्ययौ स्नातुं नदीतटम् ॥४१०॥ तस्यां गतायामुत्थाय कांस्यपात्रद्वयस्थितान् । कृत्वा विनिमयेनाह तांस्तथैव पुनः स्थितः ॥४११॥ सा समभ्येत्य दत्त्वा मे स्वयं भुक्त्वा विपर्ययात् । अभूच्छागलिका क्षिप्रं क्रमक्षुद्रो हि योषिताम् ॥४१२॥ निजव्याजनिबधां तां छागीमादाय सौनिकम् । ततो विक्रयकामोऽहं दृष्टः सौनिकयोषिता ॥४१३॥ सा प्राह मामहो पाप सखी मे वञ्चिता तव्या । द्रक्ष्यसीत्युद्धता क्रोधकम्पमानकराधरा ॥४१४॥ ततो दिनान्ते सुप्तोऽहं वृक्षमूले स्थितस्तया । कण्ठे बद्धेन सूत्रेण क्षिप्रं नीतो मयूरताम् ॥४१५॥ कालेन धीवरैर्बध्वा विक्रीतोऽहं विचित्ररुक् । अस्मिन्प्रतीहारगृहे स्त्रीणां केलिपदे स्थितः ॥४१६॥ अद्याहं त्वत्प्रसादेन मुक्तस्तिर्यङ्निबन्धनात् । भवत्सेवासुखं प्राप्तः प्रमाणमधुना भवान् ॥४१७॥ त्वामवश्यं प्रतीहारो रहस्ये भेदशङ्कितः । हन्ता प्रातः प्रतिनिशं को नाम न हतोऽमुना ॥४१८॥ इदमर्गलितद्वारं गृहं सुभयरक्षितम् । प्रभाते संशयश्चासौ न जाने किं भविष्यति ॥४१९॥ अथवा तेन सूत्रेण मुहूर्तं बर्हिरूपिणौ । निर्गच्छावो गवाक्षेणेत्युक्त्वा तौ चक्रतुस्तथा ॥४२०॥ इति भीमपराक्रमसमागमः ॥९॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP