प्रज्ञापारमिता

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


सिंहलद्वीपवसतिश्चौरोऽभूत्सिंहविक्रमः ।
स कालेन जरां प्राप्य पपात नरकं निरम् ॥५५२॥
न शर्वविष्णुशक्राणां मद्भक्तिर्गणनास्पदम् ।
विचिन्त्येति सदा धीमांश्चित्रगुप्तमपूजयत् ॥५५३॥
हेलाकमलसंचारचीत्कारकृतलेखया ।
जगन्ति यैर्निवर्त्यन्ते कायस्थांस्तान्नमेन्न कः ॥५५४॥
विज्ञाय दृढभक्तं तं पुनर्ज्ञातुं तदाशयम् ।
तद्गृहं ब्राह्मणो भूत्वा चित्रगुप्तस्ततोऽविशत् ॥५५५॥
स तत्र भोजितस्तेन प्रीतः स्वस्त्ययनोन्मुखः ।
प्रार्थितो विप्रतुष्टो मे चित्रगुप्तो भवत्विति ॥५५६॥
ततः परीक्ष्य बहुशो भार्यादानेऽ‍प्यविक्रियम् ।
तमायुष्काममवदच्चित्रगुप्तः स्वरूपधृक् ॥५५७॥
तुष्टोऽहं तव कल्याण क्षीणमायुस्तु दुर्लभम् ।
तथापि युक्तिमाश्रित्य करिष्यामि हितं तव ॥५५८॥
पारे समुद्रक्षेत्रस्य राजर्षेः शिवशासनात् ।
तपोवनतरङ्गिण्याः पारे मृत्युर्न बाधते ॥५५९॥
तदेहि वत्स तं देशमित्युक्त्वा तं निनाय सः ।
तत्र स्थितोऽसौ कालस्य दुर्लङ्घ्यो मनसाप्यभूत् ॥५६०॥
याते वर्षसहस्रेऽथ कृतान्तो यत्नमास्थितः ।
विधाय मायाललनामाचकर्ष तमुत्सुकम् ॥५६१॥
तरङ्गिण्याः परं पारं प्राप्तं तं काममोहितम् ।
आकृष्य कालः पाशेन निनाय यममन्दिरम् ॥५६२॥
पृष्टोऽवदच्चित्रगुप्तो धर्मराजेन तद्गतिम् ।
भक्तो ममायमित्यन्तः कलयंल्लेखिनीकरः ॥५६३॥
नरके नास्ति संख्यास्य दिनमेकं द्विजार्चनात् ।
स्वर्गभोगस्तु तत्पूर्वं स्वर्गं यात्वेष दुर्मतिः ॥५६४॥
इति तद्वचसा नाकं प्रयातस्तेन शिक्षितः ।
तत्र लिङ्गार्चनपरस्तस्थौ क्षपितकल्मषः ॥५६५॥
दग्धे श इवार्चनात्तस्य पातके त्रिदिवस्थितेः ।
परिज्ञानसमाधानादभवो विभवोऽभवत् ॥५६६॥
इति प्रज्ञावता तेन चौरेण कुशलस्थितिः ।
प्राप्ता प्रज्ञामृते पुंसां बन्धुरन्यो न विद्यते ॥५६७॥
इति प्रज्ञापारमिता ॥१६॥

N/A

References : N/A
Last Updated : October 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP