ध्यानपारमिता

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अभून्मलयमालीति वणिक्कर्णाटदेशजः ।
सुतां कदाचित्सोऽपश्यदिन्दुकेसरभूपतेः ॥५३६॥
अमन्दानन्दनिष्पन्दसुन्दरेन्दुनिभाननाम् ।
स तामिन्दुयशां नाम दृष्ट्वाभूत्स्मरपीडितः ॥५३७॥
दुर्लभेयमिति ज्ञात्वा चित्रकारेण सुन्दरीम् ।
कृत्वा तु फलके तुल्यां स तां नित्यमपूजयत् ॥५३८॥
स तद्ध्यानपरः सर्ववृत्तिनिर्वाणनिश्चलः ।
अवाप्तः कामपि भुवं तस्थौ रागपरायणः ॥५३९॥
तां ततो भावनाक्रान्तो वासनालिखितां पुरः ।
अपश्यत्परिसर्पन्तीं लतां वाताकुलामिव ॥५४०॥
चन्द्रोदये नवोद्याने तां निधाय जगाम सः ।
तदर्थं पुष्पमाहरुतं कमलोत्तंसभूषणम् ॥५४१॥
ततो यदृच्छया यातः संगतो विनयद्युतिः ।
अदृश्यो वीक्ष्य तं मूढं सर्पं चित्रपटेऽलिखत् ॥५४२॥
स च पुष्पाण्यथादाय दृष्ट्वा सर्पं प्रियान्तिके ।
सत्संयुक्तां प्रदध्यौ तां पुरो लीलाभिसारिणीम् ॥५४३॥
निहतामथ सर्पेण पतितावयवां भुवि ।
विलोक्य निश्चलध्यानः स शुशोच सुलोचनाम् ॥५४४॥
हा प्रिये हा मनःसिन्दुचन्द्रिके क्क गतासि मे ।
विलष्येति स वृक्षाग्रादुत्ससर्ज निजां तनुम् ॥५४५॥
रक्षितो बोधिसत्वेन तेनैव च विबोधितः ।
असत्यभावनामात्रं मूढोऽस्मीति विवेद सः ॥५४६॥
यदेवानन्यमनसां ध्यानं मुग्धाननाम्बुजे ।
तत्स्वधाम्नि यदि स्यात्तु भवेऽस्मिन्कः पुनर्भवेत् ॥५४७॥
ततः स शासनं पुण्यमर्हतां दर्शने स्थितः ।
विरतेच्छाभयद्वेषो भेजे संसारशातनम् ॥५४८॥
स कदाचिन्नरपतेस्तामेवेन्दुयशःसुताम् ।
दृष्ट्वा विरक्तस्तां मायां स्मृत्वा साश्रुमुखोऽभवतत ॥५४९॥
ततः पृष्टो नरेन्द्रेण तस्मै सर्वं निवेद्य सः ।
जगाम काननं ध्याननिवृत्तः सह भूभुजा ॥५५०॥
इत्येवं ध्यानयोगेन भावितं दृश्यते पुरः ।
सर्वेन्द्रियसमापत्तिलीनानां ज्ञानसंचयैः ॥५५१॥
इति ध्यानपारमिता ॥१५॥

N/A

References : N/A
Last Updated : October 21, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP