संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| भीमभटाख्यायिका प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका भीमभटाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत भीमभटाख्यायिका Translation - भाषांतर विचित्रकथवृत्तान्तमिति श्रुत्वा सविस्मयः । मृगाङ्कदत्तः परमां प्रीतिं प्राप सहानुगः ॥७६९॥ ततस्तेन सहान्यैश्च स विवेश महद्वनम् । तमालतालवलयश्यामलीकृतदिङ्मुखम् ॥७७०॥ उत्तुङ्गतरुसंघातरुद्धसूर्याशुमण्डलम् । इन्द्रनीलशिलास्तम्भं तिमिरस्येव मन्दिरम् ॥७७१॥ उत्फुल्लफुल्लशबलं त्वङ्गद्भृङ्गीतरङ्गितम् । बर्हिबर्हावलीनीलं केशपाशमिव क्षितेः ॥७७२॥ तत्र सान्द्रलतापुञ्जनिकुञ्जे कुञ्जराधिपम् । ददर्श मृगसंघानामिव संकेतमण्डपम् ॥७७३॥ ( मनुष्यवच्चित्रगिरा भाषमाणं पुरः स्थितम् । नरमन्धं मुहुः प्रेम्णा समाश्वास्य फलाम्बुभिः ॥७७४॥ अपूर्वमथ संलापं श्रुत्वा गजमनुष्ययोः । ) मृगाङ्कदत्तः प्रोवाच सचिवान्विस्मयाकुलः ॥७७५॥ अहो बत मनुष्योऽयमचक्षुः करिणासकृत् । संभाष्यते बन्धुरिव प्रेम्णा दत्वा फलोदकम् ॥७७६॥ प्रचण्डशक्तिसदृशः पुरुषोऽयं स एव वा । श्रृणुमस्तावदित्युक्त्वा किमेतद्वदतो मिथः ॥७७७॥ मृगाङ्कदत्तवचनादिति तेषु लतान्तरे । स्थितेषु गूढं स गजस्तमन्धं प्रणतोऽवदत् ॥७७८॥ अहं जन्मान्तरे राजपुत्रो भ्रातृवधेच्छया । कृतव्रतस्त्रिनेत्रस्य शापात्प्राप्तोऽद्य हस्तिताम् ॥७७९॥ ब्रूहि तावत्स्ववृत्तान्तं पूज्यस्त्वमतिथिर्मम । इति पृष्टो गजेन्द्रेण प्राहान्धो बाष्पगद्गदः ॥७८०॥ अहं मृगाङ्कदत्तस्य सचिवो दशमः सखे । प्रचण्डशक्तिर्नागस्य शापात्प्राप्तो दशामिमाम् ॥७८१॥ वृत्तान्तमात्मनः सर्वं कथयत्यथ तेन सः । ( प्रार्थितो द्विरदः प्राह निःश्वस्य पृथु फूत्कृतम् ॥७८२॥ राठायामभवद्भूपः श्रीमानुग्रभटाभिधः । अभून्मनोरथा नाम भार्या तस्य मनोरमा ) ॥७८३॥ कदाचिदथ नानादिग्देशसंचारचञ्चुरः । नर्तकः कालको नाम तं नृपं द्रष्टुमाययौ ॥७८४॥तत्सुता दासिका नाम तस्याग्रे वसुधापतेः ।ननर्ताहितवैकुण्ठवनिताकारभूमिका ॥७८५॥ अमृताहरणं सत्यमनया तु कृतं मुहुः । कुतोऽन्यथा करोत्येषा लावण्यनयनामृतम् ॥७८६॥ इति संचिन्त्य तां राजा निदधे वल्लभापदे । एतदेवं श्रियः सारं यत्कामो न विमन्यते ॥७८७॥ स तया कण्ठलम्बिन्या लावण्योत्सवशीलया । मदावलोलः शुशुभे हलीव वनमालया ॥७८८॥ ततो मनोरमाख्यायां ज्येष्ठो भीमभटाभिधः । लासिकायां च समरभटः शौर्यवतां वरः ॥७८९॥ इति पुत्रेष्टियागेन पुत्रौ प्राप स पार्थिवः । ( स्पर्धानुबन्धसंनद्धौ भीमदुर्योधनाविव ) ॥७९०॥ कलाभिः शस्त्रविद्याभिरभूद्भीमभटोऽधिकः । सौभाग्यातिशयान्मातुर्द्वितीयस्तु पितुः प्रियः ॥७९१॥ ततः क्रीदानियुद्धेन भ्रात्रा स्फोटितमस्तकम् । रक्ताक्तं लासिका दृष्ट्वा पुत्रं राज्ञे न्यवेदयत् ॥७९२॥ तत्कोपाकुलितो राजा निरस्यान्तःपुरात्सुतम् । ज्येष्ठं कनीयसश्चक्रे राजपुत्रान्सहानुगान् ॥७९३॥ पितुः प्रसादाद्दर्पान्धो राजपुत्रः स तैर्वृतः । सोऽवमेनेऽग्रजं मूढो भस्मच्छन्नमिवानलम् ॥७९४॥ मित्रं भीमभटस्यासीच्छङ्खदत्ताभिधो द्विजः । तच्चित्तदर्पनतले स्वचित्तमिव बिम्बितम् ॥७९५॥ ततो देशान्तरायातं वणिजस्तुरगोत्तम म् । भीमो जग्राह मूल्येन जम्भारेरिव विस्मृतम् ॥७९६॥ निजस्त्त्वमिवात्युच्चं संकल्पमिव शीघ्रगम् । वडवाकामुकमिव प्राप्तं मार्तण्डमण्डलात् ॥७९७॥ तुरङ्गरत्नमालोक्य भ्रातुस्तल्लासिकासुतः ।ममायमिति दर्पान्धो हर्तुमभ्याययौ बलात् ॥७९८॥ तदर्थं सुभटान्हत्वा शङ्खदत्तसखो युधि । तस्यानुगं वधप्राप्तं न तं भीमभटोऽवधीत् ॥७९९॥ ततो ययौ पितुर्भीत्या स रात्रौ सुहृदा सह । मात्रा दत्तं समादाय रत्नभूषणसंचयम् ॥८००॥ तुरगाभ्यां व्रजन्वेगाद्विवेश विषमं वनम् । सुप्तसिंहगुहोपान्तसंकुचद्वरवारणम् ॥८०१॥ तत्रोच्चखुरटङ्कारप्रबुद्धैर्हरिणारिभिः । निहताश्वो ययौ पद्भ्यां सुहृदाश्वासितः शनैः ॥८०२॥जाह्नवीतटमासाद्य प्रभाते श्रमकर्षितः । ददर्श नीलकण्ठाख्यं विप्रं व्रतिपदे स्थितम् ॥८०३॥ युवा वृद्धोचिताचारः पृष्ठो राजसुतेन सः । उवाच धनवैकल्यात्स्थितो नाहं गृहाश्रमे ॥८०४॥ इति श्रुत्वाखिलं तस्मै दत्त्वा रत्नविभूषणम् । भीमो वयस्यसहितस्तर्तुं गङ्गां समुद्ययौ ॥८०५॥ उत्फुल्लफेनपटलां साट्टहासामिवालसाम् । सताण्डवामिवोद्दण्डवीचिदोर्दण्डमण्डलैः ॥८०६॥ तौ प्रविष्टौ त्रिपथगां भुजाक्षेपैः ससर्पतुः । क्षिपन्तौ रत्नकटकच्छायाशबलितं पयः ॥८०७॥ आन्दोलितं कुण्डलवन्नीलरत्नत्विषा मुहुः । सेवालवल्लरीजालं कर्षन्ताविव रेजतुः ॥८०८॥ ततः प्रालेयसंकाशैः पुष्करावर्तशालिभिः । दूरं हृतः शङ्खदत्तः सलिलैर्बहुविप्लवैः ॥८०९॥ पारं भीमभटः प्राप्य मित्रेणाशु विनाकृतः । शोकान्धकारमभवच्चक्रवाक इवाकुलः ॥८१०॥ संपत्सु केलिसदनं व्यसनेषु समाश्रयः । कोशो विश्रम्भचर्चासु किं नाम न सुहृन्नृणाम् ॥८११॥ स तद्वियोगसंतप्तः क्षेप्तुमात्मानमम्भसि । समुद्ययौ प्रियभ्रंशो धीररैपि न सह्यते ॥८१२॥ ततः साक्षाद्भगवती गङ्गा कान्तितरङ्गिता । तं प्राह साहसं पुत्र मा कृथा मित्रमाप्स्यसि ॥८१३॥ इमां च प्रतिलोमाख्यां दिव्यविद्यां गृहाण मे । यया भवन्ति सहसा यथेच्छा रूपवृत्तयः ॥८१४॥ इत्युक्त्वा दन्तकिरणैः क्षालयन्तीव दिक्तटीम् ।ददौ सुरणदी विद्यां तस्मै स्वेच्छाकृतिप्रदाम् ॥८१५॥ ततो व्रजन्धैर्यसखो निजोत्साहरते स्थितः । स लाटविषयं प्राप विषयं सर्वसंपदाम् ॥८१६॥ तत्रासौ लाटललनाकटाक्षोत्पलदामभिः । भूष्यमाण इवापश्यद्द्यूतशालां सकौतुकः ॥८१७॥ स्वजानुसंधिविन्यस्तकपोलैर्निश्चलेक्षणैः । पराजये हहाकारकराहतमहीतलैः ॥८१८॥ अधिक्षेपपरासक्तैः शपथाकोपकम्पिभिः । वक्रानेकाङ्गविन्यासपरैः कलकलाकुलैः ॥८१९॥ भुजङ्गैरिव सोच्छ्वासैः पथिकैरिव धूसरैः । उन्मत्तैरिव दिग्वस्त्रैर्व्यसनैरिव धिक्कृतैः ॥८२०॥ कितवैर्हलया तत्र द्यूतकेलिं विधाय सः । जित्वा धनं ददौ तेभ्यः परादानेष्वशिक्षितः ॥८२१॥ न वयं याचकतया पात्रं ते द्रविणार्पणे । इत्युक्त्वा तत्सुहृद्भूत्वा वसुदत्तोऽग्रहीद्धनम् ॥८२२॥ तेन संजातविश्रम्भस्तमपृच्छत्कथान्तरे । स्वैरं भीमभटो वृत्तं स च पृष्टोऽभ्यभाषत ॥८२३॥ बभूव शिवदत्ताख्यो द्विजन्मा हस्तिनापुरे । तस्याहं वसुदत्ताख्यस्तनयः प्राप्तदुर्नयः ॥८२४॥ स कदाचिन्मम पिता सदाकलहशीलया । गृहिण्या विहितोद्वेगो देशं देहमिवात्यजत् ॥८२५॥ गते तस्मिन्मम वधूं सा निष्कारणकोपना । तैस्तैः सपरुषालापैश्चकारात्यन्तदुःखिताम् ॥८२६॥ सहासोक्तिषु दौःशील्यं मौने दर्पं श्रमे सुखम् । नये मायां भये दम्भं सपर्यायां च वञ्चनम् ॥८२७॥ वक्ति स्नषामविरतं दोषैकन्यस्तलोचना । तद्दुःखात्साप्यगात्क्कापि कः सदा सहत्ते व्यथाम् ॥८२८॥ अपरां सुहृदां वाक्यात्परिणीतां मया पुनः । वृद्धा क्रमेण तेनैव सा निरासदुराशया ॥८२९॥ तृतीयोद्वाहविषये प्रार्थितोऽहं सुहृज्जनैः । गृहे दारुमयीं योषां मिथ्याभार्यामकल्पयम् ॥८३०॥ कृत्वागगुण्ठनामन्तर्निहितामथ तां मया । एकाकिनीं समभ्येत्य चक्रे कलहसूचनम् ॥८३१॥ अनुत्तरामथालोक्य वधूगाम्भीर्यशङ्किता । कृत्वा रक्ताक्तमात्मानं चुक्रोश करुणस्वनम् ॥८३२॥ अबान्धवाहं स्नुषया निहतेत्युच्चवादिनी । मन्मित्रस्वजनैरेत्य पृष्टा क्कासौ वधूरिति ॥८३३॥ दूरात्तयैव निर्दिष्टां मया सह विलोक्यताम् । उद्धाट्य दारुललनां जहसुस्ते सनिःस्वनम् ॥८३४॥ इत्यहं दु ःसहैर्मात्रा परुषैः शोषितः सदा । त्यक्त्वा स्वदेशमायातः स्वर्गभोगामिमां भुवम् ॥८३५॥ इह द्यूतेन विजिताः पणबद्धा मयानुगाः । एते चण्डभुजङ्गाद्याः कितवाः पृथुसाहसाः ॥८३६॥ इति भीमभटः श्रुत्वा तस्थौ तैः सह निर्वृतः । गुणिनां भव्यवपुषां पृथिवी निजमन्दिरम् ॥८३७॥ अत्रान्तरे प्रावृषेण्यपयःपूरतरङ्गितान् । विपाशासलिलान्प्राप्तो मत्स्यो हस्तीव धीवरैः ॥८३८॥ ततः कोलाहलाकृष्टः प्राप्ते द्रष्टुं महाजने । ततो भीमभटोऽपश्यन्मानं निर्दारितोदरम् ॥८३९॥ तन्मध्यादथ निर्यातं शङ्खदत्तं विलोक्य सः । बभूवाचिन्तिताप्तेऽस्मिन्परिवृत्ते च जालिकैः ॥८४०॥ निस्तीर्णस्तामवाप्तोऽहं धातुः किं नाम दुर्घटम् । इत्युक्त्वा तं परिष्वज्य तद्वृत्तान्तं निशम्य च । शङ्खदत्तो नवं सर्वं हर्षात्स्वर्गममन्यत ॥८४१॥ ततो भीमभटस्तत्र नागयात्रामहोत्सवे । कदाचित्सानुगोऽपश्यत्कन्यकां स्नातुमागताम् ॥८४२॥ सुतां हंसावलीं नाम चन्द्रादित्यस्य भूपतेः । दासीसहस्रानुगतां राकां तारावृतामिव ॥८४३॥ विलोललोचनच्छायालेखनीभिः स्मृताकृतैः । जनस्य संकल्पपटे याभिरालिख्यते स्मरः ॥८४४॥ मनोरथशताभ्यस्ता या यत्नशतसूत्रिता । घटितेव शशाङ्केन कान्तिस्फटिकपुत्रिका ॥८४५॥ तां विलोक्य स पञ्चेषुसंरम्भाकुलितोऽभवत् ।दुग्धाम्बुधिरिवास्फारं चन्द्रकान्तितरङ्गितः ॥८४६॥ सा च तद्दर्शनारम्भप्रौढोद्भिन्नमनोभवा । हंसावली यथार्थाभून्नलिनीदलशायिनी ॥८४७॥ तद्दूतीकृतसंकेतो निशि भीमभटस्ततः । कन्यकान्तःपुरं प्राप विद्याभ्यासादलक्षितः ॥८४८॥रत्नदीपांशुकपिशे दिव्यगन्धाधिवासिते । तत्र गान्धर्वविधिना भेजे तां चारुलोचनाम् ॥८४९॥ ततः कम्पाकुला तत्र सा तेनालिङ्गिता मुहुः । लज्जानिमीलन्नयना लेभे कामपि निर्वृतिम् ॥८५०॥ आकृष्यमाणा तेनास्या मेखला मधुरध्वनिम् । चकार सुरतारम्भनाट्यप्रस्तारनामिव ॥८५१॥ तस्याः केलिकलास्रस्तकबरीकुसुमोत्थिताः । मञ्जुगुञ्जन्मधुकराः सीत्काराचार्यतां ययुः ॥८५२॥ धैर्यस्य यदनायत्तं लज्जाया यदगोचरम् । यदशिष्यं विचारस्य सुरतं तदभूत्तयोः ॥८५३॥ प्रातः प्रयाते भूपालसुते हंसावली शनैः । रतारम्भसमुत्सृष्टनिद्रारुणविलोचना ॥८५४॥ विलोलिता वजेनेव नलिनी कम्पशालिनी ।राज्ञे निवेदिता शङ्काकुलैरत्नःपुराधिपैः ॥८५५॥ राजापि यत्नादन्विष्य द्वितीयेऽह्नि समागतम् । परिज्ञाय ददौ तस्मै प्रियां पुत्रीं श्रिया सह ॥८५६॥ अपुत्रेण ततो राज्ञा श्रियं तेन समर्पिताम् । लेभे भीमभटो लाटविषये पौरसंमतः ॥८५७॥ शङ्खदतादिभिः सार्धं संमन्त्र्य भ्रातुरन्तिके । प्राहिणोत्प्रतिराजस्य स दूतं विग्रहोत्सुकः ॥८५८॥ मिथो बलैरधिक्षेपे ज्वलन्मन्युमहानलौ । चक्रतुस्तौ बलाम्भोधिसज्जखङ्गोर्मिभीषणम् ॥८५९॥ ततो भीमभटः प्राप्य राढां दृढविनिश्चयः । दिशश्चक्रे गजघटापुष्करावर्तसंकटाः ॥८६०॥ तस्योच्चचार कल्पान्तविभ्रमो रणदुन्दुभिः । यत्कम्पाप्तौरनारीणां चक्रन्दुरिव मेखलाः ॥८६१॥ ततः ससैन्यः समरभटो युद्धाय निर्ययौ । कुर्वन्खङ्गप्रभाजालैर्नभो नीलाभ्रविम म् ॥८६२॥क्षिप्रं निपेतुर्वीरेषु स्वर्गसोपानमालिकाः । लक्ष्मीकटाक्षशबलाः करवालपरम्पराः ॥८६३॥ वैरवह्नौ रणमुखे तेषां सुभटयज्वनाम् । विस्फारचापक्रेङ्कारमन्त्रा रेजुः करिस्वरैः ॥८६४॥ चक्रुः शिरांसि शूराणां पतितानि महीतले । जयश्रियो रक्तपङ्के पादन्यासोपलभ्रम म् ॥८६५॥ ततो भीमभटोऽभ्येत्य स्वयं समरशालिनः । रिपोश्चकर्त खङ्गेन शिरो व्याकुलकुण्डलम् ॥८६६॥ बिभ्राणस्तच्छिरो रेजे खङ्गाग्रे क्षिप्रसंकटम् । दर्शयन्निव वीराणां निजवीर्यतरोः फलम् ॥८६७॥ निपातितेऽथ समरभटे भटशतानुगे । लेभे भीमभटो राज्यं राजमानः सुहृज्जनैः ॥८६८॥ मनोरमां प्रणम्याथ प्रहृष्टां तत्र मातरम् । प्रददौ शङ्खदत्ताय लाटराज्यमुदारधीः ॥८६९॥ स्वयं स्थितः स राढायां पञ्चगौडमहीपतिः । दिशो भीमभटः सर्वा जित्वा साम्रज्यमाप्तवान् ॥८७०॥ ततः कदाचिदैश्वर्यविलासोद्यानकौमुदीम् । हंसावलीं सेव्यमाने तस्मिन्मधुमदाकुले ॥८७१॥ यदृच्छया समभ्यायादुत्तङ्कस्तेजसां निधिः । यद्गिरा सर्पसत्रेऽभूद्भुजङ्गानां कुलक्षयः ॥८७२॥ स्वदर्शनविलम्बेन राज्ञः कोपमुपागतः । मदद्विपो भवत्वाशु तं शशाप स्मरालयम् ॥८७३॥ ततः प्रसादितो यत्नान्मुनिर्भीटभटेन तम् । उवाच राजन्विपिने समाश्वास्य फलाम्बुभिः ॥८७४॥ मृगाङ्कदत्तसचिवं यदा त्वं तोषयिष्यसि । त्वत्कथां च निशम्यैव चक्षुश्मान्स भविष्यति ॥८७५॥ प्रचण्डशक्तिरुत्तीर्य नागशापमहोदधिम् । आराधितस्त्वया भक्त्या पूर्वं चन्द्रार्धशेखरः । अतस्तवैषा शापान्ते राजन्गन्धर्वराजता ॥८७६॥ उत्क्वेत्यदर्शनं याते मुनीन्द्रे सोऽभवद्गजः । सोऽहमेवेह कालेन त्वया पुण्यैः समागतः ॥८७७॥ कथयित्वेति नागेन्द्रो गन्धर्वः सहसाभवत् । प्रचण्डशक्तिस्तद्वृत्तं श्रुत्वाभूच्च सुलोचनः ॥८७८॥ मृगाङ्कदत्तस्तच्छ्रुत्वा विलोक्य च महाद्भुतम् । प्रचण्डशक्तिमालिङ्ग्य प्रीतिं प्राप सहानुगः ॥८७९॥ तां शशाङ्कवतीं कान्तामचिरात्समवाप्स्यसि । मृगाङ्कदत्तमवदद्गन्धर्वं प्रणयादिति ॥८८०॥ स्मृतमात्रः समेष्यामीत्युक्त्वा तस्मिंस्तिरोहिते । ध्यायन्मृगाङ्कदत्तोऽभूदानन्दामृतनिर्झरः ॥८८१॥ प्राग्जन्मपूजितमहेश्वरदिष्टदिव्य - गन्धर्वभावसुभगेन विधाय तेन । सख्यं स पञ्च सचिवान्समवाप्य हृष्टः शेषाप्तये विपुलसत्त्वसखः प्रतस्थे ॥८८२॥ प्रचण्डशाक्तिसमागमः । भीमभटाख्यायिका ॥२१॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP