संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|प्रथमो गुच्छः| हंसावलीकथा प्रथमो गुच्छः कुञ्जराख्यायिका ललितलोचनालापकथा मन्त्रगुप्ताख्यायिका विनयवत्याख्यायिका श्रुतधिसमागमः पारावताक्षशापः संसारचक्रम् हंसावलीकथा भीमपराक्रमसमागमः गुणाकरसमागमः दानपारमिता शीलपारमिता क्षान्तिपारमिता धैर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता विनीतमत्याख्यायिका भगवत्याः स्तोत्रम् भूनन्दाख्यायिका श्रीदर्शनाख्यायिका भीमभटाख्यायिका हंसावलीकथा क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत हंसावलीकथा Translation - भाषांतर मृगाङ्कदत्तः श्रुत्वेति चित्रं श्रुतधिना सह । विस्मयं परमं भेजे धृतिं वीरो बबन्ध च ॥२४४॥स गच्छन्नर्मदां प्राप फेनहासविलासिनीम् । माद्यद्विहङ्गवाचालमेखलां नर्मदायिनीम् ॥२४५॥ ददर्श तत्र सलिले युवानं शबराधिपम् । स्थानव्यग्रमहाग्राहैर्गृहीतं कुञ्जरोपमैः ॥२४६॥ मृगाङ्कदत्तस्तद्दृष्ट्वा ग्राहं छित्त्वा महासिना । वीरो मायाबटुं नाम शबरेन्द्रममोचयत् ॥२४७॥ ततः संजातसौहार्दस्तेनानीतो निजालयम् । प्रणम्य पूजितो दूराच्चण्डालैः शबराधिपैः ॥२४८॥ तथा दुर्गपिशाचाद्यैः साक्षाच्छक्र इवागतः । मायाबटुगृहे प्रीतः किंचित्कालमुवास सः ॥२४९॥ तत्र पर्जन्यनिर्घोषप्रनृत्तेषु शिखण्डिषु । शबरेन्द्रप्रतीहारश्चण्डकेतुरभाषत ॥२५०॥ गृहे मम मयूरोऽस्ति योऽस्तं भानौ गते सदा । अनपेक्षितपर्जन्यो नृत्यतीन्द्रायुधच्छविः ॥२५१॥ इत्युक्त्वा शबरेन्द्रेण द्युतकेलिकलापिनम् । न चिरादानयामीति चण्डकेतुरभाषत ॥२५२॥ ततः सूर्येऽस्तमायाते वृतासु तिमिरैर्घनैः । भिल्लपल्लीषु मायूरपिच्छकच्छादनैरिव ॥२५३॥ नद्धासु दिक्षु सर्वासु कौञ्जरैरिव चर्मभिः । आकाशे शबरीकेशयात्रासंकाशशोचिषि ॥२५४॥ एको मृगाङ्कदत्तोऽथ व्रजन्केनापि ताडितः । स्कन्धे स्कन्धे सतिमिरे तत्कोपाविदमभ्यधात् ॥२५५॥ अरे दर्षोद्धतः कोऽयं मत्कोपाग्निपतङ्गकः । श्रुत्वेत्याह प्रतीहारश्चण्डकेतुरलक्षितः ॥२५६॥ चौरोऽहं नापराधो मे चन्द्रस्यैष व्यतिक्रमः । यदालोकं विनालोकः सन्नेत्रोऽप्यन्धतां गतः ॥२५७॥ दैवस्य वातिचारोऽयं येन त्रैलोक्यचक्षुषः । तस्यापि भानोर्विहिताः संपदां परिवृत्तयः ॥२५८॥ मृगाङ्कदत्तः श्रुत्वेति चौरोऽहमितिवादिनम् । तमवादीदमहपि स्तेन एव परस्वहृत् ॥२५९॥ इति तावत्परिज्ञाय मिथः सौहार्दमाश्रितौ ।सस्रतुः पथि तौ श्यामातमःसंवीतविग्रहौ ॥२६०॥ मायाबटोः प्रतीहारः स हि प्रच्छन्नकामुकः । सदा तन्महिषीं रात्रौ भजते गूढरागिणीम् ॥२६१॥ ततो मृगाङ्कदत्तेन स तेनानुगतः क्षणात् । स चण्डकेतुरविशद्विलेनान्तःपुरोदरम् ॥२६२॥ मायाबटुप्रियां तत्र स मञ्जुमतिकाभिधाम् । प्राप्य लेभे स्मररसात्तदालिङ्गननिर्वृतिम् ॥२६३॥ अलक्षितो बिलच्छिन्द्रन्यस्तनेत्रो ददर्श तम् । मृगाङ्कदत्तो दुःशीलां तां च मायाबटोर्वधूम् ॥२६४॥ ईर्ष्याविवादे स तया प्रतीहारो विरोधितः । चकर्ष शस्त्रं रागो हि खलानां कलहोदयः ॥२६५॥ रतोत्सवे प्रस्तुतेऽपि संजाते शस्त्रसंभ्रमे । छिन्ना निवारणे तत्र दास्याः करतलाङ्गुलिः ॥२६६॥ ततः क्रुद्धः स निर्गत्य निजवेश्म व्रजन्निति । मृगाङ्कदत्तमज्ञात्वा चण्डकेतुरभाषत ॥२६७॥ तूर्णमेह्येहि गच्छावः खिन्नौ दीर्घप्रजागरात् । निद्रां प्राप्त्वा निजगृहं विश्रब्धो यास्यसि प्रिय ॥२६८॥ इत्युक्त्वा तेन नीतोऽहं स्वगृहं द्रोहचेतसा । दृष्टमच्चरितो वध्यो ममायमिति निश्चयात् ॥२६९॥ मृगाङ्कदत्तस्तद्गेहं प्रविश्यालक्षितो निशि । प्रदिष्टस्तेन निद्रार्थं शून्यमन्दिरमाविशत् ॥२७०॥ प्रतीहारगृहे तत्र स्थितो दीपांशुमालिनि । केलीशिखण्डिनं दूराद्ददर्श रुचिरच्छविम् ॥२७१॥ सुस्निग्धालोकिनस्तस्य बन्धोरिव गलस्थितम् । स गाढबन्धनं सूत्रं कृपयैव व्यमोचयत् ॥२७२॥ कण्ठसूत्रे व्यपगते सोऽभूद्भीमपराक्रमः । मृगाङ्कदत्तस्तं दृष्ट्वा हृष्टः पप्रच्छ विस्मयात् ॥२७३॥ सखे हर्षसुधासिन्धुसंभ्रमः किमयं कुतः । वृत्तं वा कथ्यतां सर्वं स एवास्मि यतः स्फुटम् ॥२७४॥ श्रुत्वेति तं परित्यज्य प्राह भीमपराक्रमः । अप्यहं नागशापेन प्रविष्टो विकटाटवीम् ॥२७५॥ दर्भसूचीचितां घोरां दावाग्निप्लुष्टपादपाम् । उद्धूततप्तसंसिक्तां संज्ञातमृगतृष्णिकाम् ॥२७६॥ खिद्यद्वराहमहिषां ताम्यत्तप्तभुजङ्गमाम् । शुष्यत्कुरङ्गशशकां तृष्यच्छिखिकुलाकुलाम् ॥२७७॥ तत्र भ्रान्तं चिरं श्रान्तं मूले शाल्मलिशाखिनः । प्राणत्यागे कृतोद्योगं मां वृद्धपथिकोऽब्रवीत् ॥२७८॥ परिम्लानमुखच्छायो भद्र किं परितप्यसे । संसारदुःखसरणिर्वैक्लव्येन न लङ्घ्यते ॥२७९॥ इत्युक्त्वा मत्कथां श्रुत्वा पुनराह महाद्युतिः । वृद्धपान्थो न शोकेन वीराणां स्पृश्यते मनः ॥२८०॥ अवश्यं हि भवत्येव जीवतां संगमः पुनः । धैर्यं श्रय विपत्स्फारजलधेः सेतुरेव त त् ॥२८१॥ कोशलायामभूद्भूपो विभूतेः प्रथमाकरः । तारापतिकराकारचरितो विमलाकरः ॥२८२॥ कमलाकरनामाभूत्कमलाकमलाकरः । तनयस्तस्य राजश्रीविलासमणिदर्पणः ॥२८३॥ साङ्गोऽयमपरोऽनङ्गः सोऽङ्गनापाङ्गसंगतिः । इत्यूचुर्यस्य यात्रासु तरुण्यो रूपविस्मिताः ॥२८४॥ बन्दिमागधसूतेभ्यो वितरन्मणिकह्ग्कणान् । पठितां बन्धिवर्येण शुश्रावार्यां स विस्मितः ॥२८५॥ कुवलयभूषणममलं गुणनिलयं कविसहस्रनिर्घुष्टम् । हंसावलिः क्क रमते कान्तं कमलाकरं मुक्त्वा ॥२८६॥ तात्पर्याद्गदितां श्रुत्वा स मनोरथसिद्धिना । किमेतदिति पप्रच्छ तं रहः कौतुकाकुलः ॥२८७॥ सोऽब्रवीदस्ति नगरी विदिशा नाम विश्रुता । आवर्तमानया लक्ष्म्या विदिशेव तमाश्रिता ॥२८८॥ मेघमालीति विख्यातस्तस्यामस्ति महीपतिः । ( यत्कीर्त्या विहिता..........नामङ्कालिङ्गननिर्वृतिः ) ॥२८९॥ तस्य ह्म्सावली नाम तनयास्ति शुचिस्मिता । मुक्तावलीव कामस्य विस्तीर्णगुणगुम्फिता ॥२९०॥ सुमुखी पल्लवकरी स्तनस्तबकशालिनी । सचन्द्रपारिजातेव लहरी क्षीरवारिधेः ॥२९१॥ मन्मथायोपनीतेव वेधसा त्रिजगज्जये । ( नवलावण्यनिर्माणहस्तोपायनपुत्रिका ) ॥२९२॥ यदृच्छया गतो रम्यां स कदाचित्पुरीमहम् । न्यवसं दर्दुराख्यस्य नाट्याचार्यस्य वेश्मनि ॥२९३॥ अत्रान्तरे राजसुता नर्तकेन सुशिक्षिता । पितुः पुरो नृत्यतीति प्रवादो नगरेऽभवत् ॥२९४॥ ततोऽहं कौतुकाविष्टो नाट्याचार्यसमाश्रयात् । अविशं सार्जवं गर्जन्मुरजं नाट्यमण्डलम् ॥२९५॥ मूर्च्छद्वीणासमालापतालच्छन्नकलाविधौ । संप्रवृत्ते ध्रुवं गाने वरयात्राविधायिनी ॥२९६॥ अत्रान्तरे विश्वसृजा राज्ञे दत्ता जगज्जये । नवलावण्यनिष्प्राणहस्तोपायनपुत्रिका ॥२९७॥ विवेश सत्त्वसंपन्ना सुधाभिनयशालिनी । ततो हंसावली हेलाविकीर्णकुसुमाञ्जलिः ॥२९८॥ मूर्तेव कौशिकी वृत्तिर्नाट्यस्येवाधिदेवता । सामात्यस्य पितुस्तत्र चक्रे कमपि विस्मयम् ॥२९९॥ विलासललितं तस्या विबभौ वदनाम्बुजम् । नान्दीश्रवणसंतोषाच्चन्द्रः साक्षादिवागतः ॥३००॥ सा बालानिललोलेव पेशला कल्पवल्लरी । संसारसरसालोकैर्भावामृतफलं ददौ ॥३०१॥ बालचूताङ्कुरस्वादकलकोकिलनिःस्वना । सा पपाठ विपञ्चीव पञ्चमानुगतस्वरा ॥३०२॥ जयाति स नाभिसरोरुहमधुपटलैर्निवसिताकारः । शौरिः श्रीमुखचन्द्रे यत्कान्तिर्लाञ्छनच्छाया ॥३०३॥ इति ब्रुवाणा वक्त्राब्जसौरभाहृतषट्पदैः ।सा बभौ प्रेक्षकोद्भूतसाधुवादाक्षरैरिव ॥३०४॥ ततो दिनान्ते तनयानाट्यदर्शननिर्वृते । अन्तःपुरं गते राज्ञि वृते सामाजिकोत्सवे ॥३०५॥ अचिन्तयमहं देव कन्येयं मृगलोचना । कमलाकरदेवस्य योग्यैवेति मुहुर्मुहुः ॥३०६॥ ततः कृतप्रवेशोऽहं युक्त्या राजनिकेतनम् । कन्यान्तःपुरचित्रे त्वत्तुल्याकारमलीलिखम् ॥३०७॥ विहितोन्मादवेषोऽथ वयस्यो मम दर्दुरः ।चित्रस्थं प्रकटीकर्तुं त्वां तुष्टाव मुहुर्मुहुः ॥३०८॥ नामाभिजनमाकर्ण्य त्वदीयं तेन वर्णितम् । त्वदाकारैकविन्यस्तलोचना साभवच्चिरम् ॥३०९॥ ततो भवावतारेण स्मरेण रुचिरद्युतिः । सा बभूव वसन्तेन लतेवोत्कलिकाकुला ॥३१०॥ प्रतिपञ्चन्द्रलेखेव ततः सा चारुहासिनी । मनोभवानलज्वालाकुलिता तनुतां ययौ ॥३११॥ क्षीणा ज्वरापदेशेन बिभ्रती स्मरविक्रियाम् । द्रष्टुं पित्राभ्यनुज्ञाता श्रेयसे श्रीपतिः स्वयम् ॥३१२॥ ततो दर्दुरकेणाहं विहितो ज्ञात््कथः । कृतप्रवेशस्तेनैव युक्त्या तं देशमाविशम् ॥३१३॥ तत्र हंसावली दृष्टा मया विराहनिःसहा हंसावलीव नलिनीदलशय्याकृतस्थितिः ॥३१४॥ दृष्ट्वा तां विष्णुनिलये राजपुत्रीं स्मरातुराम् । अपठं स्तुतिमभ्येत्य शौरीं तन्न्यस्तलोचनः ॥३१५॥ जय कमलाकरलालितचरणसमाक्रान्तविश्व विश्वात्मन् । प्रकटसुदर्शनकान्ते पुरुषोत्तम पुण्डरीकाक्ष ॥३१६॥ इति प्रिया तामश्लिष्टां सा श्रुत्वा भगवत्स्तुतिम् । पुनः पुनः पठेत्याह सा श्रुत्वा भगवत्स्तुतिम् ॥३१७॥ प्रत्यभिज्ञाय सा मह्यं ददौ चीनांशुकद्वयम् । तत्पल्लवे तया न्यस्ता गाथैषा रक्तचन्दनैः ॥३१८॥ सेवेयं तत्करन्यस्ता दृश्यतेंऽशुकपल्लवे । गाथा पुष्पशरस्येव दीक्षामन्त्राक्षमालिका ॥३१९॥ श्रुत्वेति राजतनयः सहसा मनसा दधौ । तामेव मन्मथाक्रान्तो दिव्यं हि नयनं मनः ॥३२०॥ कदाचिदथ पित्रासौ दिग्जयाय महाभुजः । आदिष्टो निर्ययावब्धिवेलाविश्रान्तसैनिकः ॥३२१॥ तत्तुरङ्गखुरोद्धूतसान्द्रधूलिकदम्बकैः । दिग्वारणाः क्षणं तस्थुस्तदाघातसमुत्सुकाः ॥३२२॥ स राजतनयां ध्यायन्प्रययौ विजयोन्मुखः । संस्मरन्राजकदलीं मीलिताक्ष इव द्विपः ॥३२३॥ अङ्गराजं रणे जित्वा कुलभूतिं महाबलम् । जीवग्राहं गृहीतस्वं प्राहिणोन्नगरीं पितुः ॥३२४॥ भग्नासु शत्रुसेनासु समरे प्रतिबिम्बितम् । खङ्गन्तर्निजमेवैकं सोऽपश्यत्संमुखं मुखम् ॥३२५॥ क्षिप्त्वा यशो दिगन्तेषु सह भिन्नेभमौक्तिकैः । कपोलपत्ररहिताः स चक्रे शत्रुयोषितः ॥३२६॥ विदिशां शनकैः प्राप्य तस्थौ वेत्रवतीतटे । नर्तयन्गजगर्जाभिरुद्यानशिखिमण्डली ॥३२७॥ तत्र दूतेन भूषालं ययाचे मेघमालिनम् । हंसावलीं स्मरावासनिजमानसवासिनीम् ॥३२८॥ ततः स्वयं समभ्येत्य मेघमाली प्रणम्य तम् । उवाच कृतकृत्योऽहं त्वदाज्ञाकारणादिति ॥३२९॥ निर्दिष्टा विश्णुनैवैषा मत्सुता तव वल्लभा । तत्करस्पृष्टशिरसां देहिनां शाम्यति ज्वरः ॥३३०॥ वितीर्णा तनया तुभ्यं वत्स हंसावली मया । प्रातः क्षपायां भविता युष्मत्परिणयोत्सवः ॥३३१॥ इत्युक्त्वा विदिशाधीशः प्रविश्यान्तःपुरं निजम् । चक्रे विदितवृत्तान्तां तनयां वल्लभां तथा ॥३३२॥ हंसावली चित्रगतं ध्यायन्ती कमलाकरम् । स एवान्योऽथवा कश्चिदिति दोलाकुलाभवत् ॥३३३॥सा दिदेश सखीं स्वैरं कान्तां कनकमञ्जरीम् । दृष्ट्वा राजसुतं तूर्णमेहीत्याहितसंशया ॥३३४॥ बद्धकूटजटाजूटा ततः कनकमञ्जरी । कृष्णाजिनोत्तरासङ्गपीदितोच्चकुचस्थली ॥३३५॥ राहुग्रस्तस्य शीतांसोरिव प्रव्रजिता द्युतिः । द्रष्टुं तपस्विनीवेषा प्रययौ कमलाकरम् ॥३३६॥ रत्नोपायनहस्ता सा कान्तं दृष्ट्वा नृपात्मजम् । बभूव मन्मथाविष्टा तेन संभाविता क्षणात् ॥३३७॥ सा विस्मृतसखीस्नेहा तं निर्वर्ण्य स्मरोपम म् । तस्थौ तदुन्मुखा कस्य सिद्धये तरुणी सखी ॥३३८॥ ततो हंसावलीमेत्य साब्रवीन्मन्मथाहता । उन्मत्तोऽसौ नृपसुतो दृष्टो मन्त्रिवृतो मया ॥३३९॥ भूतच्छायाभिभूतेन तेन ते नोचितः सखि । चूतवल्ल्या इवासङ्गः कीटशुष्केण शाखिना ॥३४०॥ इति राजसुता श्रुत्वा न सोऽयमिति चेतसा । निश्चित्योद्वाहविमुखी बभूव भृशदुःखिता ॥३४१॥ सखि त्वं मम वेषेण पाणिग्रहमहोत्सवे । भजैनं नहि मे चित्तमन्यत्र कमलाकरात् ॥३४२॥ इति हंसावलीवाक्यं श्रुत्वा कनकमञ्जरी । उवाच तद्वशास्मीति सानन्दकृतसंवृतिम् ॥३४३॥ स्थातव्यं नगरोपान्ते कूटशाल्मकिकोटरे । त्वया वृत्तविवाहाहं त्वां समेष्याम्यलक्षिता ॥३४४॥ हंसावलीमिति स्वैरमुक्त्वा कनकमञ्जरी । तदाभरणवासोभिस्तद्वेषां विदधे तनुम् ॥३४५॥ कृत्वा विदितवृत्तान्ता सखिद्रोहे निजाकृतिम् । हास्यशोककरी नाम विवाहवसुधां ययौ ॥३४६॥ ततो महोत्सवव्यग्रसमग्रजनमण्डले । हंसावली गूढवेषा प्रायात्तं शुष्कशाखिनम् ॥३४७॥ तत्कोटरं समालोक्य भीषणं मृदुमानसा । लताजालान्तरे तस्थौ बाला बकुलशाखिनः ॥३४८॥ ततः कोलाहलोत्तालव्यालोलजनसंकुले । तां कूटकन्यकां प्राप्य प्रययौ कमलाकरः ॥३४९॥ स व्रजन्विजयस्तत्र यात्रायात इव स्मरः । शाल्मलेः सविधं प्राप्य गर्जद्गजघटाकुलः ॥३५०॥ सहसा तत्र कृतकोद्दामत्रासाकुलेक्षणा । त्रायस्वेत्याह तं कम्पलोला कनकमञ्जरी ॥३५१॥ किमेतदिति तेनोक्ता सावदद्देव शाल्मलेः । अस्यान्तरे स्थिता स्वप्ने मया दृष्टा निशाचरी ॥३५२॥ तया वित्रासितः कोऽपि ब्राह्मणो मामभाषत । नादग्ध्वा शाल्मलिं तेऽद्य श्रेयोऽस्तीति कृपाकुलः ॥३५३॥ आर्यपुत्रोऽधुना सर्वं जानातीति तयोदितः । शाल्मलिं सेवकैस्तूर्णं राजसूनुरदाहयत् ॥३५४॥ दह्यमानं समालोक्य ज्वालालीढनभस्तलम् । हा सख्या वञ्चितास्मीति प्राह हंसावली मुहुः ॥३५५॥ अहोऽनुरूपलोभेन सखी मां मुग्धमानसीम् । दग्धुमभ्युद्यता पापा निःशङ्कसुखकाङ्क्षिणी ॥३५६॥ अयं रतिपतेस्तुल्यः प्रत्यक्षं पुरुषोत्तमः । नाधन्यया मया प्राप्तो दैव वा केन लङ्घ्यते ॥३५७॥ अहो कान्तिरहो लक्ष्मीरहो यौवनसंपदः । अहो नु राजपुत्रस्य नेत्रसंवरणं तनुः ॥३५८॥ अयं स चित्रलिखितः श्रीमान्पद्मदलेक्षणः । मन्मानसकृतावासो विलासरससारसः ॥३५९॥ विप्रलब्धास्मि दैवेन प्रविशामि हुताशनम् । प्रियाप्राप्तिनिराशेन किं शरीरेण लोपिना ॥३६०॥ इति संचिन्त्य शनकैः स्मृत्वा भगवतो वचः । प्रतीकाराय सख्याश्च नात्यजत्सा निजां तनुम् ॥३६१॥ कोशलामथ संप्राप्य प्रहृष्टः कमलाकरः । अन्तःपुरं नृपो गत्वा रेमे वल्लभया सह ॥३६२॥ तां मनोरथसिद्धिश्च दृष्ट्वा कनकमञ्जरीम् । हा वञ्चितो राजपुत्रश्चिन्तयित्वेत्यगाद्गृहम् ॥३६३॥ तत्र चिन्तापरो बन्दी तदन्वेष्टुं समुद्यतः । मात्रा निवारितो राजरहस्यं निर्दहेदिति ॥३६४॥ ततो हंसावली लोके दर्शनाशङ्किनी शनैः । विवेश निशि निःशेषशोकशालामिवाटवीम् ॥३६५॥ चिन्तामिव सनिर्वेदां खलसेवामिवापराम् । जीवन्तीमिव विच्छायां दुर्दशामिव तापिनीम् ॥३६६॥ वेश्यामिव महातृष्णां चितामिव भयंकरीम् । मायामिव व्यस्तमानां डाकिनीमिव दुःसहाम् ॥३६७॥ राक्षसीभिः शतघ्नीभिर्निस्त्रिंशैः पिशिताशिभिः । शरजालैश्च निचितां युद्धभूमिमिवोत्कटाम् ॥३६८॥ घोरां प्रविश्य तां तन्वी बभ्राम तरलेक्षणा । हा तातेत्याशु ललितं विलपन्ती मुमोह सा ॥३६९॥ शनैः समाश्वास्य मनः पवनाकुलितालका । ददर्श शबरीं क्षीणां विरहार्तामिवाङ्गनाम् ॥३७०॥ अथोदिते भगवति व्योमश्रीपतिकौस्तुभे । भास्करे चन्द्रविरहक्लान्ते कुमुदिनीगणे ॥३७१॥ शनैर्व्रजन्ती शोकार्ता सा बाला तरुसुन्दरम् । द्वितीयं काननं भेजे मञ्जुकूजद्विहङ्गम म् ॥३७२॥ अत्रान्तरे वसन्तर्तुविशदाः कुमुदश्रियः । विषादाः प्रोषितस्त्रीणां वनान्तेषु चकासिरे ॥३७३॥ व्याकोशिकिंशुकाशोकपलाशैर्विबभुर्दिशः । स्मरप्लोषरुषा स्फूर्जज्ज्वालाजालैरिवोद्गतैः ॥३७४॥ बभुर्विरहिणीशोकतप्तनिःश्वाससोदराः । चूतचम्पककिञ्जल्कपिञ्जरा दक्षिणानिलाः ॥३७५॥ ततो हंसावली तत्र पूर्णपङ्कजिनीतटे । जले तीरलतापुष्पैर्नारायणमपूजयत् ॥३७६॥ अत्रान्तरे ज्वरार्तोऽभूत्स्वपुरे कमलाकरः । तज्ज्ञात्वाचिन्तयत्सर्वं खिन्ना कनकमञ्जरी ॥३७७॥ अहो परीक्षाकालोऽयं प्राप्तो मे कूटयोषितः । हंसावली ज्वरहरेत्येष वादो ह विश्रुतः ॥३७८॥ आहूता किं विधास्यामि भर्तुर्ज्वरनिवर्तने । बुद्ध्याशोककरी तावत्कादाचिद्भेदिनी भवेत् ॥३७९॥ सख्या द्रोहकराः सर्वा भवन्त्येव यथा ह्यहम् । पुरा भद्रशिवा नाम योगिन्युपदिदेश यत् ॥३८०॥ शून्ये लिङ्गालये कृष्णच्छागासृक्पिशातार्चनैः । वीरो नरोपहारेण भवति ज्वरहा ततः ॥३८१॥ तस्मात्तदेव कृत्वाद्य हत्वाशोककरीं सखीम् । ज्वरं च भेदशङ्कां च तुल्यमुन्मूलयाम्यहम् ॥३८२॥ इति निश्चित्यमनसा कृत्वा शोककरीं रहः । कार्ये विदितवृत्तान्तामुपहारकथां विना ॥३८३॥ द्वारपालान्समाज्ञाप्य राज्ञो रक्षाबलिक्रमे । यान्ति चायान्ति या नार्यो विध्या मोच्या न ता इति ॥३८४॥ गत्वा सखीं समादाय शून्ये लिङ्गनिकेतने । कृत्वा यथोदितं सर्वं खङ्गाग्रेण जघान ताम् ॥३८५॥ अभ्याहता यथा तारं त्रायस्वेति कृतारवा । जवाद्विवेश शरणं सा राजद्वाररक्षिणः ॥३८६॥ मुक्तकेशीं खङ्गहतां तस्याः पश्चात्समागताम् । राक्षसीति निजघ्नुस्ते ततः कनकमञ्जरीम् ॥३८७॥ अथाशोककरी तेभ्यस्तद्वृत्तान्तं न्यवेदयत् । विप्रलब्धः परिणये प्राग्यथा कमलाकरः ॥३८८॥ राजपुत्रोऽथ विज्ञाय तस्याः कपटचेष्टितम् । गृहाद्बन्दिनमानाय्य शुशोच मुषितो यथा ॥३८९॥ क्क सा हंसावली याता ममापुण्यघनोच्चयैः । अहो विधातुराश्चर्यं श्रमो निष्फलतां गतः ॥३९०॥ अहो नु दग्ध्वा तां बालां वह्नौ कुसुमकोमलाम् । मन्ये संतापमतुलं न त्यक्ष्यति युगैरपि ॥३९१॥ हा हंसावलि मच्चित्तचन्द्रिके क्कासि देहि मे । वाचमित्यश्रुलुलितं विललाप नृपात्मजः ॥३९२॥ ततस्तमवदद्बन्दी देव मा विक्लवो भव । अवश्यं विष्णुना दिष्टां तां प्राप्स्यसि सुलोचनाम् ॥३९३॥ अविषादेन मोहस्य धैर्येण व्यसनस्य च । नयेन च प्रमादस्य मूलादुन्मूलनं क्षम म् ॥३९४॥ धीमतां सत्वशीलानां कृतिनां व्यवसायिनाम् । पुनः प्ररोहमायाति त्रुटितोऽपि मनोरथः ॥३९५॥ श्रुत्वेत्युचितमाख्यातं स मनोरथसिद्धिना । सह तेनैव दयितां विचेतुं प्रययौ स्वयम् ॥३९६॥ भ्रान्त्वा महीमविज्ञातो दैवात्तत्प्राय काननम् । अवश्यंभाविनो भावा यत्सत्यं मार्गदर्शिनः ॥३९७॥ तत्र फुल्ललताजाले लीनालिकुलसंकुले । स्त्रियं पुष्पसरस्येव सोऽपश्यत्स्तबकस्तनीम् ॥३९८॥ सेयं हंसावलीत्यारात्तां मनोरथसिद्धिना । दयितां पुण्डरीकाक्षपूजापरिकरोद्यताम् ॥३९९॥ लावण्यपुण्यसरितं सिद्धिं रतिपतेरिव । यक्ष्मक्षयाय चन्द्रस्य सव्रतामिव रोहिणीम् ॥४००॥ अलकालिकुलां लीलावल्लरीं पाणिपल्लवाम् । पेशलामचिरावाप्तविप्रयोगविपल्लवाम् ॥४०१॥ तां वीक्ष्य हर्षपीयूषवर्षिणीं निर्वृतोऽभवत् । चिरान्मनोरथन्यस्तः कस्य लाभो हि नोत्सवे ॥४०२॥ सापि तन्मन्मथाशङ्काचकितायतलोचना । हृष्टा बन्दिगिरा ज्ञात्वा प्रियं लज्जानताभवत् ॥४०३॥ ततो निवेद्य संहृष्टौ विप्रलम्भकथां मिथः । तौ बन्दिना समं क्षिप्रं जग्मतुः कोशलां पुरीम् ॥४०४॥ मेघमालिनमाहूय विदिशाधिपतिं ततः । कृत्वा परिणयं भेजे तां कान्तां कमलाकरः ॥४०५॥ इत्येवं जीवतां तात भवन्ति शुभसंपदः । अवाप्स्यस्यचिरादेव वयस्यां मा कृशो भव ॥४०६॥ इति हंसावलीकथा ॥८॥ N/A References : N/A Last Updated : October 21, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP