दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम्
श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली
अहो कोऽपि जयत्येष स्वादुः पूजामहोत्सवः ।
यतोऽमृतरसास्वादमश्रूण्यपि ददत्यलम् ॥१॥
व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः ।
भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते ॥२॥
सर्वदा सर्वभावेषु युगपत्सर्वरूपिणम् ।
त्वामर्चयन्त्यविश्रान्तं ये ममैतेऽधिदेवताः ॥३॥
ध्यानायासतिरस्कारसिद्धस्त्वत्स्पर्शनोत्सवः ।
पूजाविधिरिति ख्यातो भक्तानां स सदास्तु मे ॥४॥
भक्तानां समतासारविषुवत्समयः सदा ।
त्वद्भावरसपीयूषरसेनेषां तदर्चनम् ॥५॥
यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो ।
पूजात्मासौ क्रिया तस्याः कर्तारस्त्वज्जुषः परम् ॥६॥
ब्रह्मादीनामपीशान्ते ते च सौभाग्यभागिनः ।
येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्पूजनोत्सवः ॥७॥
जपतां जुह्वतां स्नातां ध्यायतां न च केवलम् ।
भक्तानां भवदभ्यर्चामहो यावद्यदा तदा ॥८॥
भवत्पूजासुधास्वादसम्भोगसुखिनः सदा ।
इन्द्रादीनामथ ब्रह्ममुख्यानामस्ति कः समः ॥९॥
जगत्क्षोभैकजनके भवत्पूजामहोत्सवे ।
यत्प्राप्यं प्राप्यते किंचिद्भक्ता एव विदन्ति तत् ॥१०॥
त्वद्धाम्नि चिन्मये स्थित्वा षट्त्रिंशत्तत्त्वकर्मभिः ।
कायवाक्चित्तचेष्टाद्यैरर्चये त्वां सदा विभो ॥११॥
भवत्पूजामयासङ्गसम्भोगसुखिनो मम ।
प्रयातु कालः सकलोऽप्यनन्तोऽपीयदर्थये ॥१२॥
भवत्पूजामृतरसाभोगलम्पटता विभो ।
विवर्धतामनुदिनं सदा च फलतां मम ॥१३॥
जगद्विलयसञ्जातसुधैकरसनिर्भरे ।
त्वदब्धौ त्वां महात्मानमर्चन्नासीय सर्वदा ॥१४॥
अशेषवासनाग्रन्थिविच्छेदसरलं सदा ।
मनो निवेद्यते भक्तैः स्वादु पूजाविधौ तव ॥१५॥
अधिष्ठायैव विषयानिमाः करणवृत्तयः ।
भक्तानां प्रेषयन्ति त्वत्पूजार्थममृतासवम् ॥१६॥
भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम् ।
कोऽन्यो निर्वाणहेतुः स्यात्त्वत्पूजामृतमज्जनात् ॥१७॥
सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः ।
त्वत्प्रसादैकसम्प्राप्तिहेतुर्मे नाथ कल्पताम् ॥१८॥
अनुभूयासमीशान प्रतिकर्म क्षणात्क्षणम् ।
भवत्पूजामृतापानमदास्वादमहामुदम् ॥१९॥
दृष्टार्थ एव भक्तानां भवत्पूजामहोद्यमः ।
तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते ॥२०॥
यावन्न लब्धस्त्वत्पूजासुधास्वादमहोत्सवः ।
तावन्नास्वादितो मन्ये लवोऽपि सुखसम्पदः ॥२१॥
भक्तानां विषयान्वेषा भासायासाद्विनैव सा ।
अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते ॥२२॥
न प्राप्यमस्ति भक्तानां नाप्येषामस्ति दुर्लभम् ।
केवलं विचरन्त्येते भवत्पूजामदोन्मदाः ॥२३॥
अहो भक्तिभरोदारचेतसां वरद त्वयि ।
श्लाघ्यः पूजाविधिः कोऽपि यो न याच्ञाकलंकितः ॥२४॥
का न शोभा न को ह्लादः का समृद्धिर्न वापरा ।
को वा न मोक्षः कोऽप्येष महादेवो यदर्च्यते ॥२५॥
अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् ।
भवत्पूजोपयोगाय शरीरमिदमस्तु मे ॥२६॥
त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो ।
भूयासं जगतामीश एकः स्वच्छन्दचेष्टितः ॥२७॥
त्वद्ध्यानदर्शनस्पर्शतृषि केषामपि प्रभो ।
जायते शीतलस्वादु भवत्पूजामहासरः ॥२८॥
यथा त्वमेव जगतः पूजासम्भोगभाजनम् ।
तथेश भक्तिमानेव पूजासम्भोगभाजनम् ॥२९॥
कोऽप्यसौ जयति स्वामिन्भवत्पूजामहोत्सवः ।
षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसन्त्यलम् ॥३०॥
नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा ।
पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि ॥३१॥
पूजारम्भे विभो ध्यात्वा मन्त्राधेयां त्वदात्मताम् ।
स्वात्मन्येव परे भक्ता मान्ति हर्षेण न क्वचित् ॥३२॥
राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे ।
सुधासवेन सकला जगती संविभज्यते ॥३३॥
पूजामृतापानमयो येषां भोगः प्रतिक्षणम् ।
किं देवा उत मुक्तास्ते किं वा केऽप्येव ते जनाः ॥३४॥
पूजोपकरणीभूतविश्वावेशेन गौरवम् ।
अहो किमपि भक्तानां किमप्येव च लाघवम् ॥३५॥
पूजामयाक्षविक्षेपक्षोभादेवामृतोद्गमः ।
भक्तानां क्षीरजलधिक्षोभादिव दिवौकसाम् ॥३६॥
पूजां केचन मन्यन्ते धेनुं कामदुघामिव ।
सुधाधाराधिकरसां धयन्त्यन्तर्मुखाः परे ॥३७॥
भक्तानामक्षविक्षेपोऽप्येष संसारसंमतः ।
उपनीय किमप्यन्तः पुष्णात्यर्चामहोत्सवम् ॥३८॥
भक्तिक्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि ।
चित्रं दैन्याय नो यावद्दीनतायाः परं फलम् ॥३९॥
उपचारपदं पूजा केषांचित्त्वत्पदाप्तये ।
भक्तानां भवदैकात्म्यनिर्वृत्तिप्रसरस्तु सः ॥४०॥
अप्यसम्बद्धरूपार्चा भक्त्युन्मादनिरर्गलैः ।
वितन्यमाना लभते प्रतिष्ठां त्वयि कामपि ॥४१॥
स्वादुभक्तिरसास्वादस्तब्धीभूतमनश्च्युताम् ।
शम्भो त्वमेव ललितः पूजानां किल भाजनम् ॥४२॥
परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च ।
भवत्पूजाविधौ नाथ साधनानि भवन्तु मे ॥४३॥
अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो ।
अहो करणवृन्दस्य कापि लक्ष्मीर्विजृम्भते ॥४४॥
एषा पेशलिमा नाथ तवैव किल दृश्यते ।
विश्वेश्वरोऽपि भृत्यैदर्च्यसे यश्च लभ्यसे ॥४५॥
सदा मूर्त्तादमूर्त्ताद्वा भावाद्यद्वाप्यभावतः ।
उत्थेयान्मे प्रशस्तस्य भवत्पूजामहोत्सवः ॥४६॥
कामक्रोधाभिमानैस्त्वामुपहारीकृतैः सदा ।
येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽसि तत्त्वतः ॥४७॥
जयत्येष भवद्भक्तिभाजां पूजाविधिः परः ।
यस्तृणैः क्रियमाणोऽपि रत्नैरेवोपकल्पते ॥४८॥
सत्रहवां स्तोत्र समाप्त
N/A
References : N/A
Last Updated : April 20, 2017
TOP