संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली|
सुरसोद्बलाख्यं चतुर्थं स्तोत्रम्

सुरसोद्बलाख्यं चतुर्थं स्तोत्रम्

श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली


चपलमसि यदपि मानस
तत्रापि श्लाघ्यसे यतो भजसे ।
शरणानामपि शरणं
त्रिभुवनगुरुमम्बिकाकान्तम् ॥१॥
उल्लङ्घ्य विविधदैवत -
सोपानक्रममुपेयशिवचरणान् ।
आश्रित्याप्यधरतरां भूमिं
नाद्यापि चित्रमुज्झामि ॥२॥
प्रकटय निजमध्वानं
स्थगयतरामखिललोकचरितानि ।
यावद्भवामि भगवं -
स्तव सपदि सदोदितो दासः ॥३॥
शिव शिव शम्भो शङ्कर
शरणागतवत्सलाशु कुरु करुणाम् ।
तव चरणकमलयुगल -
स्मरणपरस्य हि सम्पदोऽदूरे ॥४॥
तावकाङ्घ्रिकमलासनलीना
ये यथारुचि जगद्रचयन्ति ।
ते विरिञ्चिमधिकारमलेना -
लिप्तमस्ववशमीश हसन्ति ॥५॥
त्वत्प्रकाशवपुषो न विभिन्नं
किंचन प्रभवति प्रतिभातुम् ।
तत्सदैव भगवन् परिलब्धो -
ऽसीश्वर प्रकृतितोऽपि विदूरः ॥६॥
पादपङ्कजरसं तव केचिद्
भेदपर्युषितवृत्तिमुपेताः ।
केचनापि रसयन्ति तु सद्यो
भात मक्षतवपुर्द्वयशून्यम् ॥७॥
नाथ विद्युदिव भाति विभा ते
या कदाचन ममामृतदिग्धा ।
सा यदि स्थिरतरैव भवेत्तत्
पूजितोऽसि विधिवत्किमुतान्यत् ॥८॥
सर्वमस्यपरमास्ति न किंचिद्
वस्त्ववस्तु यदि वेति महत्या ।
प्रज्ञया व्यवसितो‍ऽत्र यथैव
त्वं तथैव भव सुप्रकटो मे ॥९॥
स्वेच्छयै भगवन्निजमार्गे
कारितः पदमहं प्रभुणैव ।
तत्कथं जनवदेव चरामि
त्वत्पदोचितमवैमि न किंचिम् ॥१०॥
कोऽपि देव हृदि तेषु तावको
जृम्भते सुभगभाव उत्तमः ।
त्वत्कथाम्बुदनिनादचातका
येन तेऽपि सुभगीकृताश्चिरम् ॥११॥
त्वज्जुषां त्वयि कयापि लीलया
राग एष परिपोषमागतः ।
तद्वियोगभुवि सङ्कथा तथा
संस्मृतिः फलति संगमोत्सवम् ॥१२॥
यो विचित्ररससेकवर्धितः
शङ्करेति शतशो‍ऽप्युदीरितः ।
शब्द आविशति तिर्यगाशये -
श्वप्ययं नवनवप्रयोजनः ॥१३॥
ते जयन्ति मुखमण्डले भ्रमन्
अस्ति येषु नियतं शिवध्वनिः ।
यः शशीब प्रसृतोऽमृताशयात्
स्वादु संस्रवति चामृतं परम् ॥१४॥
परिसमाप्तमिवोग्रमिदं जगद्
विगलितोऽविरलो मनसो मलः ।
तदपि नास्ति भवत्पुरगोपुरा -
र्गलकवाटविघट्टनमण्वपि ॥१५॥
सततफुल्लभवन्मुखपङ्कजो -
दरविलोकनलालसचेतसः ।
किमपि तत्कुरु नाथ मनागिव
स्फुरसि येन ममाभिमुखस्थितिः ॥१६॥
त्वदविभेदमतेरपरं नु किं
सुखमिहास्ति विभूतिरथापरा ।
तदिह तावकदासजनस्य किं
कुपथमेति मनः परिहृत्य ताम् ॥१७॥
क्षणमपीह न तावकदासतां
प्रति भवेयमहं किल भाजनम् ।
भवदभेदरसासवमादरा -
दविरतं रसयेयमहं न चेत् ॥१८॥
न किल पश्यति सत्यमयं जन -
स्तव वपुर्द्वयदृष्टिमलीमसः ।
तदपि सर्वविदाश्रितवत्सलः
किमिदमारटितं न श्रृणोषि मे ॥१९॥
स्मरसि नाथ कदाचिदपीहितं
विषयसौख्यमथापि मयार्थितम् ।
सततमेव भवद्वपुरीक्षणा -
मृतमभीष्टमलं मम देहि तत ॥२०॥
कुल यदैव शिवाध्वनि तावके
कृतपदोऽस्मि महेश तवेच्छया ।
शुभशतान्युदितानि तदैव मे
किमपरं मृगये भवतः प्रभो ॥२१॥
यत्र सोऽस्तमयमेति विवस्वॉं -
श्चन्द्रमा -प्रभृतिभिः सह सर्वैः ।
कापि सा विजयते शिवरात्रिः
स्वप्रभाप्रसरभास्वररूपा ॥२२॥
अप्युपार्जितमहं त्रिषु लोके -
ष्वाधिपत्यममरेश्वर मन्ये ।
नीरसं तदखिलं भवदङ्घ्रि -
स्पर्शनामृतरसेन विहीनम् ॥२३॥
बत नाथ दृढोऽयमात्मबन्धो
भवदख्यातिमयस्त्वयैव क्लृप्तः ।
यदयं प्रथमानमेव मे त्वा -
मवधीर्य श्लथते न लेशतोऽपि ॥२४॥
महताममरेश पूज्यमानो -
ऽप्यनिशं तिष्ठसि पूजकैकरूपः ।
बहिरन्तरपीह दृश्यमानः
स्फुरसि दृष्ट्टशरीर एव शश्वत् ॥२५॥

चौथा स्तोत्र समाप्त

N/A

References : N/A
Last Updated : April 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP