विधुरविजयनामधेयं सप्तमं स्तोत्रम्
श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली
त्वय्यानन्दसरस्वति
समरसतामेत्य नाथ मम चेतः ।
परिहरतु सकृदियन्तं
भेदाधीनं महानर्थम् ॥१॥
एतन्मम न त्विदमिति
रागद्वेषादिनिगडदृढमूले ।
नाथ भवन्मयतैक्य -
प्रत्ययपरशुः पतत्वन्तः ॥२॥
गलतु विकल्पकलङ्कावली
समुल्लसतु हृदि निरर्गलता ।
भगवन्नानन्दरस -
प्लुतास्तु मे चिन्मयी मूर्तिः ॥३॥
रागादिमयभवाण्डक -
लुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः ।
आप्यायय्तु रसैर्मां
प्रवृद्धपक्षो यथा भवामि खगः ॥४॥
त्वच्चरणभावनामृत -
रससारास्वादनैपुणं लभताम् ।
चित्तमिदं निःशेषित -
विषयविषासङ्गवासनावधि मे ॥५॥
त्वद्भक्तितपनदीधिति -
संस्पर्शवशान्ममैष दूरतरम् ।
चेतोमणिर्विमुञ्चतु
रागादिक - तप्तवह्निकणान् ॥६॥
तस्मिन्पदे भवन्तं
सततमुपश्लोकयेयमत्युच्चैः ।
हरिहर्यश्वचिरिञ्चा
अपि यत्र बहिः प्रतीक्षन्ते ॥७॥
भक्तिमदजनितविभ्रम -
वशेन पश्येयविकलं करणैः ।
शिवमयमखिलं लोकं
क्रियाश्च पूजामयि सकलाः ॥८॥
मामकमनोगृहीत -
त्वद्भक्तिकुलाङ्गनाणिमादिसुतान् ।
सूत्वा सुबद्धमूला
ममेति बुद्धिं दृढीकुरुताम् ॥९॥
सातवां स्तोत्र समाप्त
N/A
References : N/A
Last Updated : April 19, 2017
TOP