रहस्यनिर्देशनाम द्वादशं स्तोत्रम्
श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली
सहकारि न किञ्चिदिष्यते
भवतो न प्रतिबन्धकं दृशि ।
भवतैव हि सर्वमाप्लुतं
कथमद्यापि तथापि नेक्षसे ॥१॥
अपि भावगणादपीन्द्रिय -
प्रचयादप्यवबोधमध्यतः ।
प्रभवन्तमपि स्वतः सदा
परिपश्येयमपोढविश्वकम् ॥२॥
कथं ते जायेरन्कथमपि च ते दर्शनपथं
व्रजेयुः केनापि प्रकृति महताङ्केन खचितः ।
तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः
पदार्थाद्यान्सृष्टिस्त्रवदमृतपूरैर्विकिरसि ॥३॥
साक्षात्कृतभवद्रूपप्रसृताम्रुततर्पिताः ।
उन्मूलिततृषो मत्ता विचरन्ति यथारुचि ॥४॥
न तदा न सदा न चैकदे -
त्यपि सा यत्र न कालधीर्भवेत् ।
तदिदं भवदीयदर्शनं
न च नित्यं न च कथ्यतेऽन्यथा ॥५॥
त्वद्विलोकनसमुत्कचेतसो
योगसिद्धिरियती सदास्तु मे ।
यद्विशेयमभिसन्धिमात्रत -
स्त्वत्सुधासदनमर्चनाय ते ॥६॥
निर्विकल्पभवदीयदर्शन -
प्राप्तिफुल्लमनसां महात्मनाम् ।
उल्लसन्ति विमलानि हेलया
चेष्टितानि च वचांसि च स्फुटम् ॥७॥
भगवन्भवदीयपादयो -
र्निवसन्नन्तर एव निर्भयः ।
भवभूमिषु तासु तास्वहं
प्रभुमर्चेयमनर्गलक्रियः ॥८॥
भवदङ्घ्रिसरोरुहोदरे
परिलीनो गलितापरैषणः ।
अतिमात्रमधूपयोगतः
परितृप्तो विचरेयमिच्छया ॥९॥
यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः ।
तस्याप्यवश्यमुदितं सन्निधानं तवोचितम् ॥१०॥
भगवन्नितरानपेक्षिणा
नितरामेकरसेन चेतसा ।
सुलभं सकलोपशायिनं
प्रभुमातृप्ति पिबेयमस्मि किम् ॥११॥
त्वया निराकृतं सर्वं हेयमेतत्तदेव तु ।
त्वन्मयं समुपादेयमित्ययं सारसंग्रहः ॥१२॥
भवतोऽन्तरचारि - भावजातं
प्रभुवन्मुख्यतयैव पूजितं तत् ।
भवतो बहिरप्य भावमात्रा
कथमीशान भवेत्समर्च्यते वा ॥१३॥
निःशब्दं निर्विकल्पं च निर्व्याक्षेपमथानिशम् ।
क्षोभेऽप्यध्यक्षमी क्षेयं त्र्यक्ष त्वामेव सर्वतः ॥१४॥
प्रकटय निजधाम देव यस्मिं -
स्त्वमसि सदा परमेश्वरीसमेतः ।
प्रभुचरणरजःसमानकक्ष्याः
किमविश्वासपदं भवन्ति भृत्याः ॥१५॥
दर्शनपथमुपयातोऽप्यपसरसि
कुतो ममेश भृत्यस्य ।
क्षणमात्रकमिह न भवसि
कस्य न जन्तोर्दृशोर्विषयः ॥१६॥
ऐक्यसंविदमृताच्छधारया
सन्ततप्रसृतया कदा विभो ।
प्लावनात् परमभेदमानयं -
स्त्वां निजं च वपुराप्नुयां मुदम् ॥१७॥
अहमित्यमुतोऽवरुद्धलोका -
द्भवदीयात्प्रतिपत्तिसारतो मे ।
अणुमात्रकमेव विश्वनिष्ठं
घटतां येन भवेयमर्चिता ते ॥१८॥
अपरिमितरूपमहं
तं तं भावं प्रतिक्षणं पश्यन् ।
त्वमेव विश्वरूपं
निजनाथं साधु पश्येयम् ॥१९॥
भवदङ्गगतं तमेव कस्मा -
न्न मनः पर्यटतीष्टमर्थमर्थम् ।
प्रकृअतिक्षतिरस्ति नो तथास्य
मम चेच्छा परिपूर्यते परैव ॥२०॥
शतशः किल ते तवानुभावा -
द्भगवन्केऽप्यमुनैव चक्षुषा ये ।
अपि हालिकचेष्ट्या चरन्तः
परिपश्यन्ति भवद्वपुः सदाग्रे ॥२१॥
न सा मतिरुदेति या न भवति त्वदिच्छामयी
सदा शुभमथेतरद्भगवतैवमाचार्यते ।
अतोऽस्मि भवदात्मको भुवि यथा तथा सञ्चरन्
स्थितोऽनिशमबाधितत्वदमलाङ्घ्रिपूजोत्सवः ॥२२॥
भवदीयगभीरभाषितेषु
प्रतिभा सम्यगुदेतु मे पुरोऽतः ।
तदनुष्ठितशक्तिरप्यतस्त -
द्भवदर्चाव्यसनं च निर्विरामम् ॥२३॥
व्यवहारपदेऽपि सर्वदा
प्रतिभात्वर्थकलाप एष माम् ।
भवतोऽवयवो यथा न तु
स्वतः एवादरणीयतां गतः ॥२४॥
मनसि स्वरसेन यत्र तत्र
प्रचरत्यप्यहमस्य गोचरेषु ।
प्रसृतोऽप्यविलोल एव युष्म -
त्परिचर्याचतुरः सदा भवेयम् ॥२५॥
भगवन्भवदिच्छयैव दास -
स्तव जातोऽस्मि परस्य नात्र शक्तिः ।
कथमेष तथापि वक्त्रबिम्बं
तव पश्यामि न जातु चित्रमेतत् ॥२६॥
समुत्सुकास्त्वां प्रति ये भवन्तं
प्रत्यर्थरूपादवलोकयन्ति ।
तेषामहो किं त्दुपस्थितं स्यात्
किं साधनं वा फलितं भवेत्तत् ॥२७॥
भावा भावतया सन्तु
भवद्भावेन मे भव ।
तथा न किञ्चिदप्यस्तु
न किञ्चिद्भवतोऽन्यथा ॥२८॥
यन्न किञ्चिदपि तन्न किञ्चिद -
प्यस्तु किञ्चिदपि किञ्चिदेव मे ।
सर्वथा भवतु तावता भवान्
सर्वतो भवति लब्धपूजितः ॥२९॥
बारहवां स्तोत्र समाप्त
N/A
References : N/A
Last Updated : April 19, 2017
TOP