चतुर्थः पाद: - सूत्र १९-२१

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


विकारावर्ति च तथा हि स्थितिमाह ॥१९॥

विकारावर्ति च तथा हि स्थितिमाह ॥
विकारावर्त्यपि च नित्यमुक्तं पारमेश्वरं रूपं न केवलं विकारमात्रगोचरं सवितृमण्डलाद्यधिष्ठानम् ।
तथा हयस्य द्विरूपां स्थितिमाहान्नाय: तावानस्य महिमा ततो ज्यायांश्च पूरूष: ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीत्येवमादि: ।
न च तन्निर्विकारं रूफमितरालम्बना: प्राप्नुवन्तीति शक्यं वक्तुमतत्क्रतुत्वात्तेषाम् ।
अतश्च यथैव द्विरूपे परमेश्वरे निर्गुणं रूपमनवाप्य सगुण एवावतिष्ठन्त एवं सगुणेऽपि निरवग्रहमैश्वर्यमनवाप्य सावग्रह एवावतिष्ठन्त इति द्रष्टव्यम् ॥१९॥

दर्शयतश्वैवं प्रत्यक्षानुमाने ॥२०॥

दर्शयतश्वैवं प्रत्यक्षानुमाने ॥
दर्शयतश्च विकारावर्तित्वं परस्य ज्योतिष: श्रुतिस्मृती ।
न तत्र सूर्यो भाति न चन्द्रतारकं नमा विद्युतो भान्ति कुतोऽयमग्निरिति ।
न तद्भासयते सूर्यो न शशाङ्को न पावक इति च ।
तदेवं विकारावर्तित्वं परस्य ज्योतिष: प्रसिद्धमित्यभिप्राय: ॥२०॥

भोगमात्रसाम्यलिङ्गाच्च ॥२१॥

भोगमात्रसाम्यलिङ्गाच्च ॥
इतश्व न निरङ्कुशं विकारालम्बनानामैश्वर्यं यस्माद्बोगमात्रमेवैषामनादिसिद्धेनेश्वनेश्वरेण समानमिति श्रूयते तमाहापो वै खलु मीयन्ते लोकोऽसाविति स यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति तेनो एतस्यै देवतायै सायुज्यं सलोकतांजयतीत्यादिभेदव्यपदेशलिङ्गेभ्य: ॥२१॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP