संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|चतुर्थः पादः| सूत्र ६ चतुर्थः पादः सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७-८ सूत्र ९-११ सूत्र १२-१५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९-२१ सूत्र २२ चतुर्थः पाद: - सूत्र ६ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ६ Translation - भाषांतर चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमि: ॥६॥चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमि: ॥यद्यप्यपहतपाप्मत्वादयो भेदेनैव धर्मा निर्दिस्यन्ते तथापि शब्दविकल्पजा एवैते ।पाप्मादिनिवृत्तिमात्रं हि तत्र गम्यते ।चैतन्यमेव त्वस्यात्मन: स्वरूपमिति तन्मावेण स्वरूपेणाभिनिष्पतिर्युक्ता ।तथा च श्रुति: एवं वा अरेऽयमात्माऽनन्तरोऽबाहय: कृत्स्न: प्रज्ञानघन एवेत्येवंजातीयकाऽनुगृहीता भविष्यति ।सत्यकामत्वादयस्तु यद्यपि वस्तुस्वरूपेणैव धर्मा उच्यन्ते सत्या: कामा अस्येति ।तथाऽप्युपाधिसंबन्धाधीनत्वात्तेषां न चैतन्यवत्स्वरूपत्वसंभव: ।अनेकाकारत्वप्रतिषेधात् । प्रतिषिद्धं हि ब्रम्हाणोऽनेकाकारत्वं न स्थानतोऽपि परस्योभयलिङ्गमित्यत्र ।अत एव चजक्षणादिसंकीर्तनमपि दु;खाभावमात्राभिप्रायं स्तुत्यर्थमात्मरतिरित्यादिवत् ।न हि मुख्यान्येव रतिक्रीडांइथुनान्यात्मनिमित्तानि शक्यन्ते वर्णयितुं द्वितीयविषयत्वात्तेषाम् ।तस्मान्निरस्ताशेषप्रपञ्चेन प्रसन्नेनाव्यपदेश्येन बोधात्मनाऽभिनिष्पद्यत इत्यौडुलोमिराचार्यो मन्यते ॥६॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP