संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|चतुर्थः पादः| सूत्र ९-११ चतुर्थः पादः सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७-८ सूत्र ९-११ सूत्र १२-१५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९-२१ सूत्र २२ चतुर्थः पाद: - सूत्र ९-११ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ९-११ Translation - भाषांतर अत एव चानन्याधिपति: ॥९॥अत एव चानन्याधिपति: ॥अत एव चावन्ध्यसंकल्पत्वादनन्याधिपतिर्विद्वान्भवति नास्यान्योऽधिपतिर्भवतीत्यर्थ: ।न हि प्राकृतोऽपि संकल्पयन्नन्यस्वामिकस्वमात्मन: सत्यां गतौ संकल्पयति ।श्रुतिश्चैतद्दर्शयदि अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतीति ॥९॥अभावं बादरिराह हयेवम् ॥१०॥अभावं बादरिराह हयेवम् ॥संकल्पादेवास्य पितर: समुत्तिष्ठन्तीत्यादिश्रुतेर्मनस्तावत्संकल्पसाधनं सिद्धम् ।शरीरेन्द्रियाणि पुन: प्राप्तैश्वर्यस्य विदुष: सन्ति न वा सन्तीति समीक्ष्यते ।तत्रा बादरिस्तावदाचार्य: शरीरस्येन्द्रियाणां चाभावं मही यमानस्य विदुषो मन्यते । कस्मात् ।एवं हयाहान्नायो मनसैतान्कामान्पश्यत्रमते य एते ब्रम्हालोक इति ।यदि मसा शरीरेन्द्रियैश्च विहरेन्मनसेति विशेषणं न स्त्यात् ।तस्मादभाव: ।शरीरोन्द्रियाणां मोक्षे ॥१०॥भावं जैमिनिर्विकल्पामननात् ॥११॥भावं जीमिनिर्विकल्पामननात् ॥जैमिनिस्त्वाचार्यो मनोवच्छरीरस्यापि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते ।यत: स एकधा भवति त्रिधा भवतीत्यादिनाऽनेकधाभावविकल्पमामनन्ति ।न हयनेकविधता विना शरीरभेदेनाञ्जसी स्यात् ।यद्यपि निर्गुणायां भूमविद्यायामयमनेकधाभावविकल्प: पठयते तथापि विद्यामानमेवेदं सगुणावस्थायामैश्चर्यं भूमविद्यास्तुतये संकीर्त्यत इत्यत: सगुनविद्याफलभावेनोपतिष्ठत इति ॥११॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP