प्रथमः पादः - सूत्र १७-१८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अतोऽन्याऽपि हयेकेषामुभयो: ॥१७॥

किंविषयं पुनरिदमश्लेपविनाशवचनं किंवि यं वाऽदो विनियोगवचनेमकेषां शाखिनां तस्य पुत्रा दायमुपयन्ति सुह्रद: साधुकृत्यां द्विषन्त: पापकृत्यामिति ।
अत उत्तरं पठति - अतोऽन्याऽपि हयेकेषामुभयो: ॥
अतोऽग्निहोत्रादेर्नि त्यात्कर्मणोऽन्याऽपि हयसि साधुकृत्या या फलमभिसंधाय क्रियते तस्या एष विनियोग उक्त एकेषां शाखिनां सुह्रद: साधुकृत्यामुपयन्तीति ।
तस्या एव चेदमघदश्लेशविनाशनिरूपणमितरस्याप्येवमसंश्लेष इति ।
तथाजातीयकस्य काम्यस्य कर्मणो विद्यां प्रत्यनुपकारकत्वे संप्रतिपत्तिरुभयोरपि जैमिनिबादरायणयोराचार्ययो: ॥१७॥

यदेव विद्ययेति हि ॥१८॥

यदेव विद्ययेति हि ॥
समधिगतमेतदनन्तराधिकरणे नित्यमग्निहोत्रादिकं कर्ममुमुक्षुणा मोक्षप्रयोजनोद्देशेन कृतमुपात्तदुरितक्षयहेतुद्वारेण सत्त्वशुद्धिकारणतां प्रतिपद्यमानं मोक्षप्रयोजनब्रम्हाधिगमनिमित्तत्वेन ब्रम्हाविद्यया सौककार्यं भवतीति ।
तत्राग्निहात्रादिकभौङ्गव्यपाश्रयविद्यासंद्युक्तं केवलं चास्ति ।
य एवं विद्वान्यजति य एवं विद्वाञ्जुहोति य एवं विद्वाञ्शंसति य एवं विद्वान्गायति तस्माद्दवंविदमेव ब्रम्हाणं कुर्वीत नानेवंविदं तेनोभा कुरुतो यश्चैतदेवं वेद यश्च न वेदेत्यादिवचनेभ्यो विद्या संयुक्तमस्ति केवलमप्यस्ति ।
तत्रेदं विचार्यते किं विद्यासंयुक्तमेवाग्निहोत्रादिकं कर्म मुमुक्षोर्विद्याहितुत्वेन तया सहैककार्यंत्वं प्रतिपद्यते न केवलमुत विद्यासंपुक्तंकेवलं चाविशेषेणेति ।
कुत: संशय: तमेतमात्मानं यज्ञेन विविदिषन्तीति यज्ञादीनाम विशषणास्मवेदनाङ्त्वेन श्रवणात् ।
विद्यासंपुक्तस्यचाग्निहोत्रदिर्विशिष्टत्वावगमात् ।
किं तावत्प्राप्त विद्यासंयुक्तमव कर्माग्नहोन्नाद्यात्मविद्याशषत्वं प्रतिपयते न विद्याहीनम् ।
विद्योपेतस्य विशिष्टत्वागमाद्वियावविहनित् ।
यदहरेव जुहोत तदह: पुनर्मृत्युमपजयतेवंविद्वनित्यादिश्रतिभ्य: ।
बुद्धया युक्तो यया पार्थ कर्मत्रन्ध प्रहास्यसि ।
दूरण हयवरं कर्म बुद्धियोगाद्धनञ्ज्येत्यादिस्मृतिभ्यश्वति ।
एवं प्रति प्रतिपद्यत यदेव विद्ययति हि ।
सयमेतत् ।
विद्यासंयुक्त कर्माग्निहोत्रादिके विद्याविहीनात्कर्मणोऽग्नहोत्राद्विशिष्टं विद्वानिव ब्राम्हाणो विद्याविहीनाब्रम्हाणात् ।
तथापि नात्यतमनपेक्ष विद्याविहीनं कर्माग्निहोत्रादकम् ।
कस्मात् ।
तमेतमात्मानं यज्ञेन विविदिषन्तीन्यविशेषेणाग्निहोत्रादर्विद्याहतुत्वंन श्रुतत्वात् ।
ननु विद्यासंयुक्तस्याग्निहोत्रादोविंद्याविहीनाद्विशिष्टत्वावगमाद्विद्याविहीनमग्निहोत्राद्यात्मविद्याहेतुत्वेनानपेक्षप्रेवेति युक्तम् ।
नैतदेवम् ।
विद्यासहायस्याग्निह त्रदिर्वियानिमित्तेन सानर्ध्यातिशायन योगाशत्मज्ञानं प्रति कश्चित्कारणत्वातिशयो भविष्यति न तथा विद्याविहनिस्येति युक्तं कल्पयितुम् ।
न तु यज्ञेन विविदिवन्तीत्यत्राविशेषेणात्मज्ञानाङ्गत्वेन श्रुतस्याग्निहोत्रादेरनङ्गत्वं शक्यमभ्युपगन्तुम ।
तथा हि श्रुति: यदेव विद्यया करोति श्रद्धयोपनिपदा तदेव वीर्यवत्तरं भवतीति विद्यासंयुक्तस्य कर्मणोऽग्निहोत्रादेर्वीर्यवतरत्वाभिधानेन स्वकार्यं प्रति कंचिदतिशयं व्रुवाणा विद्याविहीनस्य तस्यैव तत्प्रयोजनं प्रति वीर्यवत्त्वं दर्शयति \
कर्मणश्च वीर्यवत्त्वं तद्यत्त्वप्रयोजनसाधनसहत्वम् ।
तस्माद्विद्यासंयुक्त नित्यमग्निहोत्रादि विद्याविहीनं चोभयमपि मुमुक्षुणा मोक्षप्रयोजनोदेशनंह जन्मनि जन्मान्तरे च प्राग्ज्ञानोत्पत्ते: कुतं यत्तद्यथातामध्ये ब्रम्हाधिगमप्रतिबन्धकारणोपात्तदुरितक्षयहेतुद्वारेण ब्रम्हाधिगमकारणत्वं प्रतिपद्यमानं श्रवणमननश्रद्धातात्पर्याद्यन्तरङ्गकारणापेक्षं ब्रम्हाविद्यया सहैककार्यं भवतीति स्थितम् ॥१८॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP