संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|प्रथमः पादः| सूत्र ८-११ प्रथमः पादः सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८-११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७-१८ सूत्र १९ प्रथमः पादः - सूत्र ८-११ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ८-११ Translation - भाषांतर ध्यानाच्च ॥८॥ध्यानाच्च ॥ अपि च ध्यायत्यर्थ एष यत्समानप्रत्ययप्रवाहकरणम् ।ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितद्दष्टिष्वेकविषयाक्षिप्तचित्तेषूपचर्यमाणो दृश्यते ध्यायति बको भ्यायति प्रोषितबन्धुरिति ।आसीनश्चनायासो भवति ।तस्मादप्यासीनकमापासनम् ॥८॥अचलत्वं चापेक्ष्य ॥९॥अचलत्वं चापेक्ष्य ॥अपि च ध्यायतीव पृथिवीत्यत्र पृथिव्यादिष्वचलत्वमेवापेक्ष्य व्यायतिवादो भवति तच्च लिङ्गमुपासनस्यासीनकर्मत्वे ॥९॥स्मरन्ति च ॥१०॥स्मरन्ति च ॥स्मरन्त्यपि च शिष्टा उपासनाङ्गत्वेनासनं शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन इत्यादिना ।अत एव पद्मकादीनामासनविशेषाणामुपदेशो योगशास्त्रे ॥१०॥यत्रैकाग्रता तत्राविशेषात् ॥११॥यत्रैकाग्रता तत्राविशेषात् ॥दिग्देसकालेषु संशय: किमस्ति कश्चिन्नियमो नास्ति बेति ।प्रायेण वैदिकेष्वारम्भेषु इद्गादिनियमदर्शनात्स्यादिहापि कश्चिन्नियम ति यस्य मतिस्तं प्रत्याह ।दिग्देसकालेष्वर्थलक्षण एव नियम: ।यत्रैवास्य दिशि देशे काले वा मनस: सौकर्येणैकाग्रता भवति तत्रैवोपासीत प्राचीदिक्पूर्वांहवप्राचीनप्रवणादिवद्विशेषाश्रवणात् ।एकाग्रताया इष्टाया: सर्वत्राविशेषात् ।ननु विशेषम्पि केचिदामनन्ति समे शुचौ शर्करावन्हिवालुकाविवर्जिते शब्दजलाश्रयादिभि: ।मनोऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजएदिति यथेति । उच्यते ।सत्यमस्त्येवंजातीपको नियम: ।सति त्वेतस्मिंस्तद्नतेषु विशेषेष्वनियम ति व्रुहद्भूतवाऽऽचार्थं आचष्टे ।मनोऽनुकूल ति चिअषाश्रुतिर्यत्रकाग्रता तत्रैवेत्येतद्देव दर्शयति ॥११॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP