चतुर्थः पाद: - सूत्र २०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥२०॥

संज्ञामुर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥
सत्प्रक्रियायां तेजोऽबन्नानां सृष्टिमभिधायोपदिश्यते ।
सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ।
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति ।
तत्र संशय: किं जीवकर्तृकमिदं नामरूपव्याकरणमाहोस्वित्परमेश्वरकर्तृकमिति ।
तत्र प्राप्तं तावज्जीवकर्तृकमेवेदं नामरूपव्याकरणमिति ।
कुत: । अनेन जीवेनात्मनेति विशेषणात् ।
यथा लोके चारेणाहं परसैन्यमनुप्रविश्य सङ्कलयार्मात्येवंजातीयके प्रयोगे चारकर्तृकमेव सत्सैन्यसङ्कलनं हेतुकर्तृत्वाद्नाजात्मन्यध्यारोपयति  संङ्कलयानीत्युत्तमपुरुषप्रयोगेण ।
एवं जीवकर्तृकमेव सन्नामरूपव्याकरणं हेतुकर्तृकत्वाद्देवतात्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण ।
अपि च छित्थडवित्थादिधुनामसु घटशराविदिषु च रुपेषु जीवस्यैव व्याकर्तूत्वं द्दष्टम् ।
तस्माज्जीवकर्मृकमेवेदं नामरूपव्याकरणमित्येवं प्रात्तेऽभिधत्ते ।
संज्ञामूर्तिक्लृप्तिस्त्विति ।
तुशब्देन पक्षंव्यावर्तयति ।
संज्ञामूर्तिक्लृतिरिति नामरूपव्याक्रियेतत् ।
त्रिवत्कुर्वत इति परमेश्वरं लक्षयति त्रिवत्करणे तस्य निरपवादकर्तृत्वनिर्देशात् ।
येयं संज्ञाक्लप्तिर्मूर्तिब्लृप्तिश्चाग्निरादित्यश्चन्द्रमा विद्युदिति तथा कुशकाशपलाशादिषु पशुमृगमनुष्यादिषु च प्रत्याकृति प्रतिव्यक्ति चनिकप्रकारा सा खल परमेश्वरस्यैव तेजोऽबन्नानां निर्मातु: कृतिर्भवितुमर्हति ।
कुत: । उपदेशात् ।
तथा हि सेय़ं देवतैक्षत इत्युपक्रम्य व्याकरवाणीत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रम्हाणो व्याकर्तृत्वमिहोपदिश्यते ।
ननु जीवेनेति विशेषणाज्जीवकर्तृकत्वं व्याकरणस्याध्यवंसितम् ।
नैतदेवम् ।
जीवेनेत्येतदनुप्रब्रिश्येत्यनेन संबध्यत आनन्तर्यान्न व्पाकरवाणीत्यनेन ।
तेन हि संबन्धे व्याकरवाणीत्ययं देवताविषय उत्तमपुरुषप औपचारिक: कल्प्येत ।
न च गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेष्वनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्मि ।
येष्वपि चास्ति सामर्थ्यं तेष्वपि परमेश्वरायत्तमेव तत् ।
न च जीवोनाम परमेश्चराहत्यन्तभिन्नश्चार इव राज्ञ आत्मनेति विशेषणात् ।
उषाधिमात्रनिबन्धनत्वाच्च जीवभावस्य ।
तेन तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति ।
परमेश्वर एव च नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्त: ।
आकाशो ह वै नाम नामरूपयोर्निर्वहितेत्यादिश्रुतिभ्य: ।
तस्मात्परमेश्वरस्यैव त्रिवृत्क्रुर्वत: कर्म नामरूपयोर्व्याकरणम् ।
त्रिवृत्करणपूर्वकमेवेदमिह नामरूपव्याकरणं विवक्ष्यते ।
प्रत्येकं नामरूपव्याकरणस्य तेजोऽबन्नोत्पत्तिवचनेनैवोक्तत्वात् ।
तच्च त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयति यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येत्यादिना ।
तत्राग्निरितीदं रूपं व्याक्रियते ।
सति च रूपव्याकरणे विषयप्रतिलम्भादग्निरितीदं नाम व्याक्रियते ।
एवमेवादित्यचन्द्रविद्युत्स्वपि द्रष्टवम् ।
अनेन चाग्न्याद्युदाहरणेन भ्ॐआम्बसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति ।
उपक्रमोपसंहारयो: साधारणत्वात् ।
तथाहयविशेषेणैवोपक्रम: ।
इमास्तिस्नोदेवतास्रिव्रुत्रिवृदेकैका भवतीति ।
अविशेषेणैव चोपसंहारो यदु रोह्तमिवाभूदिति तेजसस्तद्रूपमित्येवमादिर्यदविज्ञातमिवाभूदित्येतासामेव देवतानां समास इत्येवमन्त: ॥२०॥

तासां तिसणां देवतानां बहिस्रवृत्कृतानां सतीनामध्यात्ममपरं त्रिवृत्करणमुक्तमिमास्तिस्रो देवता: पुरुषं प्राप्य त्रिवृत्रिवृदेकैका भवतीति ।
अदिदानीमाचार्यो यथाश्रुत्यैवोपदर्शयत्याशङकितं कंचिद्दोषं परिहरिष्यन् ॥
भूमेस्त्रिवृत्कृताया: पुरुषेणोपभुज्यमानाया मांसादि कार्यं यथाशब्दं निष्पद्यते ।
तथा हि श्रुति: ।
अन्नमशितं त्रेधा विधीयते तस्य य: स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मन इति ।
त्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेणाद्यत इत्यभिप्राय: ।
तस्याश्च स्थविष्ठं रूप परीषभावेन बहिर्निर्गच्छति ।
मध्यममध्यात्मं मांसं वर्धयति ।

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP