संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| चतुर्थः पाद:| सूत्र १० चतुर्थः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५-१६ सूत्र १७ सूत्र १८-१९ सूत्र २० सूत्र २१-२२ चतुर्थः पाद: - सूत्र १० ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १० Translation - भाषांतर चक्षुरादिवत्तु तत्सहशिष्टयादिभ्य: ॥१०॥स्यादेतत् । प्राणोऽपि तर्हि जीववदस्मिञ्शरीरे स्वातन्त्र्यं प्राप्नोति ।श्रेष्ठत्याद्रुणबावोपगमाच तं प्रति वागादीनामिन्द्रियाणाम् ।तथा हयनेकविधा विभूति: प्राणस्य श्राव्यते । सुप्तेषु वागादिषु प्राण एको हि जागर्ति प्राण एका मृत्युनाऽनाप्त: प्राण: संवर्गो वागादीन्संवृङक्ते प्राण इतरान्प्राणान्नक्षति मातेव पुत्रानिति ।तस्मात्प्राणस्यापि जीववत्स्वातन्त्र्यप्रसङ्ग: ।तं परिहरति ।चक्षुरादिवत्तु तत्सहशिष्टयादिभ्य: ॥तुशब्द: प्राणस्य जीववत्स्वातन्त्र्यं व्यावर्तयति ।यथा चक्षुरादीनि राजप्रकृतिवज्जीवस्य कर्तृत्वं भोक्तृत्वं च प्रत्युपकरणानि न स्वतन्त्राणि तथा मुख्योऽपि प्राणो राजमन्त्रिवज्जीवस्य सर्वांर्थकरत्वेनोपकरणभूतो न स्वतन्त्र: । कुत: ।तत्सहशिष्टयादिभ्य: । तैश्चक्षुरादिभि: सहैव प्राण: शिष्यते प्राणंसत्रासादिषु ।समानधर्मणां च सहशासनं युक्तं बृहद्रथन्तरादिवत् ।आदिशब्देन संदतत्वाचेतनतवादीन्प्राणस्य स्वातन्त्र्यनिराकरणहंतून्दर्शयति ॥१०॥ N/A References : N/A Last Updated : December 12, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP