विधीः - चाक्षुषोपनिषद्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान, पूजा, संध्या, देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


अथ चाक्षुषोपनिषद्
ॐ यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् ।
विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विपावहै ।
ॐ शान्ति: शान्ति: शान्ति: ।
आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य मम चक्षूरोगनिवृत्तये जन्मान्तरितकृतपापयातयामत्वदोषपरिहारद्वारा अन्धत्वविनाशार्थं दूरद्दष्टिप्राप्तये श्रीसूर्यनारायणप्रीत्यर्थम् उदकाभिमन्त्रणप्राशनपूर्वकं पाठं ( पाठान् ) करिष्ये ।
ॐ अथ ह साङ्कृतिर्भगवानादित्यलोकं जगाम । तमादित्यं नत्वा चाक्षुष्मतीविद्यया तमस्तुवत् ।
ॐ अथातश्चाक्षुषीं पठितां सिद्धां विद्यां चक्षूरोगहरां व्याख्यास्यामो यया चक्षूरोगा: सर्वतो नश्यन्ति चक्षुषो दीप्तिर्भवतीति ।
ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्यऋषिर्गायत्री छन्द: श्रीसूर्यो देवता चक्षूरोगनिवृत्तये पाठे (जपे) विनियोग: ।
ॐ चक्षुश्च चक्षुश्च चक्षुस्तेज: स्थिरो भव । मां पाहि मां पाहि । त्वरितं चक्षूरोगानू शमय शमय । मम जातरूपं तेजो दर्शय दर्शय ।
यथाऽहम् अन्धो न स्यां तथा कल्पय कल्पय । कल्याणं कुरु कुरु । यानि यानि मम पूर्वजन्मोपार्जितानि चक्षु:-प्रतिरोधकदुष्कृतानि तानि सर्वाणि निर्मूलय निर्मूलय ।
ॐ नम: चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नम: कल्याणकरायामृताय । ॐ नम: श्रीसूर्याय । ॐ नमो भगवते श्रीसूर्यायाक्षितेजसे नम: । ॐ खेचराय नम: । ॐ महासेनाय नम: । ॐ महते नम: । ॐ तमसे नम: । ॐ रजसे नम: । ॐ सत्त्वाय नम: । ॐ असतो मा सद्‌गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवाञ्छुचिरूप: । हंसो भगवाञ्छुचिरूप: ।
ॐ विश्वरूपं धृणिं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपन्तम् सहस्ररश्मि: शतधा वर्तमान: पुरुष: प्रजानामुदयत्येष सूर्य: ॥
ॐ नमो भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोऽवाहिनि वाहिनि स्वाहेति । एवं चाक्षुष्मतीविद्यया स्तुत: श्रीसूर्यनारायण: सुप्रीतोऽब्रवीत् । य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवित । न तस्य कुलेऽन्धो भवति । अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वाऽथ विद्यासिद्धिर्भवति । य एवं वेद स महान् भवतीति ।
ॐ वय: सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमाना: ।
अप ध्वान्तमूर्णु हि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥

ॐ पुण्डरीकाक्षाय नम: । ॐ पुष्करेक्षणाय नम: ।
ॐ अमलेक्षणाय नम: । ॐ कमलेक्षणाय नम: ।
ॐ विश्वरूपाय नम: । ॐ महाविष्णवे नम: ।
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मविद्विषावहै ।
ॐ शान्ति: शान्ति: शान्ति:

इति चाक्षुषोपनिषत् समाप्त ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP