विधीः - स्नान की विधि

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान, पूजा, संध्या, देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


स्नान की विधि
प्रात: स्मरण करने के बाद शीच (मलत्याग) आदि से निवृत्त होकर दन्तधावन करें । पश्चात् शौच का वस्त्र बदल कर गङ्गा आदि नदी में जाकर स्नान करें ।

सङकल्प:
स्नान करने के लिये इस प्रकार सङकल्प करें---
ॐ विष्णुर्विष्णुर्विष्णु: श्रीमद्भगवतो महापुरुपस्य विष्णोराज्ञया प्रवर्त्तमानस्याद्य श्रीब्रह्मणोऽह्नि द्वितीयपरा्र्द्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भरतखण्डे भारतवर्षे कुमारिकाखण्डे आर्यावर्त्तैकदेशे अमुकक्षेत्रे अमुकनगरे विक्रमशके बौद्धावतारे अमुकनाम्निसम्वत्सरे, अमुकायने, अमुकऋतौ, अमुकमासे, अमुकपक्षे, अमुकतिथौ, अमुकवासरे, अमुकनक्षत्रे, अमुकयोगे, अमुककरणे, अमुकराशिस्थिते चन्द्रे, अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु येथायथाराशिस्थानस्थितेषु सत्सु एवं ग्रहगुणगणविशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्रोत्पन्न:, अमुकशर्माऽहम्,
(अमुकवर्माऽहम् , अमुकगुप्तोऽहम्) मम कायिक-वाचिकमानसिक-सांसर्गिक-ज्ञाताज्ञातसमस्तदोषपरिहारार्थं श्रुति-स्मृतिपुराणोक्तफलप्राप्त्यर्थं श्रीपरमेश्वरप्रीत्यर्थं अमुकनद्यां (तडागे) प्रात:स्नानं करिष्ये ।

प्रात: स्नान का संक्षिप्त सङकल्प
ॐ विष्णुर्विष्णुर्विष्णु:० महामाङगल्यप्रदमासोत्तमे मासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुकगोत्रोत्पन्न: अमुकशर्माऽहं (अमुकवर्माऽहम्, अमुकगुप्तोऽहम्) मम कायिक-वाचिक-मानसिक-सांसर्गिक-सर्वविधपापनिवृत्त्यर्थ श्रुति-स्मृति-पुराणोक्तफलप्राप्त्यर्थं श्रीपरमेश्वरप्रीत्यर्थं अमुकप्रान्ते अमुकनगरे (अमुकग्रामे) अमुकनद्यां (तडागे) प्रातःस्नानं करिष्ये ।

वरुण-प्रार्थना
सङ्कल्प के पश्चात् स्नान करते समय वरुण देवता देवता से स्नानार्थ नीचे लिखी प्रार्थना करें---

अपामधिपतिस्त्वं च तीर्थेषु वसतिस्तव ।
वरुणाय नमस्तुभ्यं स्नानानुज्ञां प्रयच्छ मे ॥

तीर्थों का आवाहन
पुष्कराद्यानि तीर्थानि गङ्गाद्या: सरितस्तथा ।
आगच्छन्तु पवित्राणि स्नानकाले सदा मम ॥१॥
गङगे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधि कुरु ॥२॥
चन्द्रभागे महाभागे शरणागतवत्सले ।
गण्डकी-सरयूयुक्ता समासाद्य पुनीहि माम् ॥३॥
सर्वाणि यानि तीर्थानि पापमोचनहेतव: ।
आयान्तु स्नानकालेऽस्मिन् क्षणं कुर्वन्तु सन्निभम् ॥४॥
कुरुक्षेत्र-गया-गङ्गा-प्रभास-पुष्कराणि च ।
एतानि पुण्यतीर्थानि स्नानकाले भवन्त्विह ॥५॥
त्वं राजा सर्वतीर्थानां त्वमेव जगत: पिता ।
याचितं देहि मे तीर्थं तीर्थराज नमोऽस्तु ते ॥६॥

गङगाजी की प्रार्थना
विष्णुपादाब्जसम्भूते गङगे त्रिपथगामिनि ।
धर्म्मद्रवेति विख्याते पापं मे हर जाह्नवि ॥१॥
श्रद्धया भक्तिसम्पन्नं श्रीमातर्देवि जाह्नवि ।
अमृतेनाम्बुना देवि भागीरथि पुनीहि माम् ॥२॥
गाङगं वारि मनोहारि मुरारिचरणच्युतम् ।
त्रिपुरारि शिरश्चारि पापहारि पुनातु माम् ॥३॥
गङगे मातर्नमस्तुभ्यं गङगे मातर्नमो नम: ।
पावनां पतितानां त्वं पावनानां च पावनी ॥४॥
गङगा गङगेति यो ब्रूयाद् योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥५॥
नमामि गङगे तव पादपङकजं सुरासुरैर्वन्दितदिव्यरूपम् ।
भुक्तिं च मुक्तिं च ददासि नित्यं भावानुसारेण सदा नराणाम् ॥६॥

इस प्रकार तीर्थों का आवाहन और गङगा माता की प्रार्थना कर गङगा आदि नदी को स्पर्श करते हुए प्रणाम करें । पश्चात् नदी में प्रविष्ट होकर नाभि-पर्यन्त जल में जाकर सूर्य की ओर अथवा जल के प्रवाह की ओर मुख करके जल को हिलाकर स्नान करें ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP