विधीः - शिवपूजनविधि:

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान, पूजा, संध्या, देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


शिवपूजनविधि:

शिवपूजनकर्ता स्नान-सन्ध्योपासनादि नित्यकर्म से निवृत्त होकर पवित्र स्थान में पूजन-सामग्री को अपने सम्मुख रख के कुशा आदि के पवित्र आसन पर बैठें । पश्चात् ॐ केशवाय नम: । ॐ नारायणाय नम: । ॐ माधवाय नम: । इस प्रकार तीन बार आचमन करके फिर तींन बार प्राणायाम करें । अनन्तर इस प्रकार विनियोग करें---
ॐ अपवित्र: पवित्रो वेत्यस्य वामदेव ऋषिर्विष्णुर्देवता गायत्री छन्द: हृदि पवित्रकरणे विनियोग: ।
पश्चात् निम्नलिखित मन्त्र को पढ कर पूजन-सामग्री के ऊपर और अषने ऊपर जल छिडकें---
ॐ अपवित्र: पवित्रो वा सर्वावस्थाङ्गेतोऽपि वा ।
य: स्मरेत्पुण्डरीकाक्षं स बाह्माभ्यन्तर: शुचि: ॥
पश्चात् इस प्रकार विनियोग करें---
ॐ पृथिवीति मन्त्रस्य मेरूपृष्ठ ऋषि: सुतलं छन्द: कूर्मो देवता आसने विनियोग: ।
पश्चात् निम्नलिखित मन्त्र का उच्चारण कर आसन पर जल छिडकें---
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
पश्चात् हाथ में अक्षत एवं पुष्प लेकर गणेश जी का ध्यान कर “ॐ आनो भद्रा:०” इत्यादि मङ्गल मन्त्रों को पढें । अनन्तर हाथ में जल, अक्षत लेकर सङ्कल्प करें ।

सङ्कल्प:
ॐ विष्णुर्विष्णुर्विष्णु: श्रीमद्‌भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणोऽह्नि द्वितीयपरार्द्धे श्रिश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टार्विशतितमे कलियुगे कतिप्रथमचरणे जम्बूद्वीपे भरतखण्छे भारतवर्षे आर्यावर्तैकदेशान्तर्गते अमुकक्षेत्रे विकमशके बौद्धावतारे षष्ठयब्दानां मध्ये अमुकसंबत्सरे अमुकायने अमुकऋतौ महामाङ्गल्यप्रद‌भासोत्तमे मासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते सूर्ये अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथाराशिस्थानस्थितेषु सत्सु एवं ग्रहगुणगणविशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्र: अनुकशर्मा अमुकवर्मा, अमुकगुप्त: सपत्नीकोऽहं ममाऽऽत्मन: कायिक-वाचिक-मानसिक-सांसर्गिक-चतुर्विधपापक्षयपूर्वकं आध्यात्मिक-आधिदैविक-आधिभौतिक-त्रिविधतापनिवृत्त्यर्थम्, आयुरारोग्यैश्वर्यांदिवृद्धयर्थम्, श्रुति-स्मृति-पुराणोक्तफलप्राप्तिपूर्वक च धर्मार्थकाममोक्ष-चतुर्विधपुरुषार्थसिद्धिद्वारा श्रीसाम्बसदाशिवप्रीतये नार्मदशिवलिङ्गोपरि अमुकलिङ्गोपरि यथोपचारै: षडङ्गन्यासपूर्वक शिवपूजनं दुग्धधारया जलधारया वा एकादशब्राह्मणद्वारा अमुकसंख्याकब्राह्मणद्वारा सकृद्‌रुद्रावर्तनेन रुद्रैकादशिन्या वा महारुद्रेण अभिषेकाख्यं कर्म करिष्ये । तदङ्गत्वेन नन्दीश्वरादिपूजनं नन्दीश्वांवीरभद्रं-स्वामिकार्तिकं-कुबेरं-कीर्तिमुखं च करिष्ये । तत्रादौ निर्विध्नतासिद्‌ध्यर्थं गणेशाम्बिकयो: पूजनं च करिष्ये ।”

इस प्रकार सङ्कल्प करने के बाद षडङ्गन्यास करें ।

षडङ्गन्यास:
मनो जूतिरिति मन्त्रस्य बृहस्पतिऋषि: बृहतीछन्द: बृहस्पतिर्देवता हृदयन्यासे विनियोग: ।

ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनो त्वरिष्ट्टं व्वज्ञर्ठ० समिमं दधातु । व्विश्वे देवास ऽइह मा दयन्तामों३ प्रतिष्ठ्ठ ॥
ॐ हृदयाय नम: ॥१॥

अबोद्‌ध्यग्निरिति मन्त्रस्य बुधगविष्ठिरा ऋषि: अग्निर्देवता त्रिष्टुप् छन्द: शिरोन्यासे विनियोग: ।
ॐ अबोद्‌ध्यग्नि: समिधा जनानां प्रति धेनुमिवा यतीमुषासम् ॥
वह्णा ऽइव प्प्रवया मुज्जिहाना: प्प्रभानव: सिस्त्रते नाकमच्छ ॥
ॐ शिरसे स्वाहा ॥२॥
मूर्द्धानमिति मन्त्रस्य भरद्वाज ऋषि: अग्निर्देवता त्रिष्टुप छन्द: शिखान्यासे विनियोग: ।
ॐ मूर्द्धानं दिवो ऽअरतिं पृथिव्या व्वैश्वानरमृत ऽआजातमग्निम् ।
कविर्ठ० सम्म्राजमतिथिं जनानामासन्ना पात्त्रं जनयन्त देवा: ॥
ॐ शिखायै वषट् ॥३॥
मर्माणि त इति मन्त्रस्य अप्रतिरथ ऋषि: मर्माणि देवता विराट्‌छन्द: कवचन्यासे विनियोग: ।
ॐ मर्म्माणि ते व्वर्मणा च्छादयामि सोमस्त्वा राजाऽमृतेनानु वस्ताम् ।
उरोर्व्वरीयो व्वरुणस्ते कृणोतु जयन्तं त्वा नु देवा मदन्तु ॥
ॐ कवचाय हुम् ॥४॥
विश्वतश्चक्षुरिति मन्त्रस्य विश्वकर्मा भौवन ऋषि: विश्वकर्मा देवता त्रिष्टुपछन्द; नेत्रन्यासे विनियोग: ।
ॐ व्विश्वतश्च्चक्षुरुत विश्वतोमुखो व्विश्श्वतोबाहुरुत विश्वतस्प्पात् ।
सं बाहुब्भ्यां धमति सम्पतत्त्रैर्द्यावाभूमी जनयन्देव ऽएक: ॥
ॐ नेत्रत्रयाय वौषट् ॥५॥
मा नस्तोके इति मन्त्रस्य परमेष्ठी ऋषि: एको रुद्रो देवता जगती. छन्द: अस्त्रन्यासे विनियोग: ।
ॐ मा न स्तोके तनये मा न ऽआयुषि मा नो गोषु मा नो ऽअश्श्वेषु रीरिष ।
मा नो व्वीरान् रुद्र भामिनो व्वधीर्हविष्म्मन्त: सदमित्त्वा हवामहे ।
ॐ अस्त्राय फट् ॥६॥

देवतान्यास:
ॐ मा नो महान्तमुत मा नो ऽअर्ब्भकं मा न ऽउक्षन्तमुत मा न ऽउक्षितम् ।
मा नो व्वधी: पितरं मोत मातरं मा न: प्रियास्तन्वो रुद्र रीरिष: ॥

गणपति-पूजनम्
ॐ गणानां त्वा गणपतिर्ठ० हबामहे प्रियाणां त्वा प्रियपतिर्ठ० हवामहे निधीनां त्वा निधिपतिर्ठ० हवामहे व्वसो मम ।
आहमजानि गर्ब्भधमा त्वमजासि गर्ब्भधम् ॥

इस प्रकार षोडशोपचार अथवा यथोपचार से गणेशजी का पूजन करके नीचे लिखी प्रार्थना करें---

ॐ नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्व्रातेभ्यो व्व्रातपतिभ्यश्श्व वो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्विरूपेभ्यो व्विश्वरूपेभ्यश्व वो नम: ॥

अम्बिका-पूजनम्
ॐ अम्बेऽअम्बिके‍ऽम्बालिके न मा नयति कश्वन ।
ससस्त्यश्वक: सुभद्‌द्रिकां काम्पीलवासिनीम् ॥

इस प्रकार यथोपचार से अम्बिका का पूजन करके नीचे लिखी प्रार्थना करें---

हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥

नन्दीश्वर-पूजनम्
ॐ आशु: शिशानो व्वृषभो न भीमो घनाघन: क्षोभणश्चर्षणीनाम् ।
सङ्क्रन्दनोऽनिमिषऽएकवीर: शतर्ठ० सेना ऽअजयत्साकमिन्द्र: ॥

इस प्रकार यथोपचार से नन्दीश्वर का पूजन करके नीचे लिख प्रार्थना करें---

ॐ प्रैतु व्वाजी कनिक्क्रदन्नानदद्रासभ: पत्त्वा ।
भरन्नग्निं पुरीष्यं मा पाद्यायुष: पुरा ।

बीरभद्र-पूजनम्
ॐ भद्‌द्रं कर्ण्णेभि: श्रृणुयाम देवा भद्‌द्रं पश्येमाक्षभिर्षजत्त्रा: ।
स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहितं वदायु: ॥

इस प्रकार यथोपचार से वीरभद्र का पूजन करके नीचे लिखी प्रार्थना करें---

ॐ भद्‌द्रो नो ऽअग्निराहुतो भद्‌द्रा राति: सुभग भद्‌द्रो ऽअध्वर: । भद्‌द्रा ऽउत प्रशस्तय: ॥

स्वामिकार्तिक-पूजनम्
ॐ वदक्क्रन्द: प्प्रथमं जायमान ऽउद्यन्त्समुद्‌द्रादुत वा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहु ऽउपस्तुत्यं महि जातं ते ऽअर्व्वन् ॥

इस प्रकार यथोपचार से स्वामिकार्तिक का पूजन करके नीचे लिखी प्रार्थना करें---

ॐ वत्त्र बाणा: सम्पतन्ति कुमारा व्विशिखा ऽइव ।
तन्न ऽइन्द्रो बृहस्पतिरदिति: शर्म्म वच्छतु व्विश्वाहा शर्म्म वच्छतु ॥

कुबेर-पूजनम्
ॐ कुविदङ्ग ववमन्तो ववं चिद्यथा दान्त्यनुपूर्व्वं व्वियूय ।
इहेहैषां कृणुहि भोजनानि वे बर्हिषो नम ऽउक्तिं वजन्ति ॥

इस प्रकार यथोपचार से कुबेर का पूजन करके नीचे लिखी प्रार्थंना करें---

ॐ व्वयर्ठ० सोम व्व्रते तव मनस्तनूषु बिभ्रत: ।
प्रजावन्त: सचेमहि ॥

कीर्तिमुख-पूजनम्
ॐ असवे स्वाहा व्वसवे स्वाहा व्विभुवे स्वाहा व्विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहाभिभुवे स्वाहाधिपतये स्वाहा शूषाय स्वाहा सर्ठ० सर्प्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा दिवा पतये स्वाहा ॥

इस प्रकार यथोपचार से कीर्तिमुख का पूजन करके नीचे लिखी प्रार्थना करें---

ॐ ओजश्व मे सहश्च म ऽआत्मा च मे तनूश्च मे शर्म्म च मे व्वर्म्म च मेऽङ्गानि च मेऽस्थीनि च मे परू षि च मे शरीराणि च म ऽआयुश्च मे जरा च मे वज्ञेन कल्पन्ताम् ॥

शि की जलहरी में यदि सर्प का आकार बना हो तो प्रथम सर्प का पूजन करके, पश्चात् शिव का पूजन करें ।

सर्प का पूजन निम्नलिखित मन्त्र से करें---

ॐ नमोऽस्तु सर्पेभ्यो वे के च पृथिवीमनु ।
वे ऽअन्तरिक्षे वे दिवि तेभ्य: सर्पेभ्यो नम: ॥

पश्चात् शिव का पूजन इस प्रकार श्रद्धा-भक्ति से करें---

ध्यानम्
ध्यायेन्नित्यं महेशं राजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं बसानं
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

श्रीभगवते साम्बसदाशिवाय नम: साम्बशिवं ध्यायामि ।

आवाहन
ॐ नमस्ते रुद्‌द्र मन्यव ऽउतो त ऽइषवे नम: ।
बाहुब्भ्यामुत ते नम: ॥
त्रिपुरान्तकरं देवं चूढाचन्दमहाद्यूतिम् ।
गजचर्मपरीधानं शिवमावाहयाम्यहम् ॥

श्रीभगवते साम्बसदाशिवाय नम: । आवाहनं समर्पयामि । आवाहनार्थे पुष्पं समर्पयामि ।

आसन
ॐ वा ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।
तया नस्तन्वा शन्त मया गिरिशन्ताभि चाकशीहि ॥
बिश्वेश्वर महादेव महेशान परात्पर ।
मया समर्पितं रम्यमासनं ग्रतिगृह्यताम् ॥

श्रीभगबते साम्बसदाशिवाय नम: । आसनं समर्पयामि । आसनार्थे अक्षतान् समर्पयामि ।

पाद्य
ॐ वामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्त्र तां कुरु मा हिर्ठ० सी: पुरुषं जगत् ॥
गङ्गोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम् ।
पादप्रक्षालनार्थाय दत्तं ते प्रतिगृह्यताम् ॥
श्रीभगवते साम्बसदाशिवाय नम: पाद्यं समर्पयामि ।

अर्ध्य
ॐ शिवेन व्वचसा त्त्वा गिरिशाच्छा व्वदामसि ।
वथा न: सर्व्वमिज्जगदयक्ष्मर्ठ० सुमना ऽअसत् ॥
नमस्ते देव देवेश नमस्ते करुणाम्बुधे ।
करुणां कुरु मे देव गृहाणार्ध्यं नमोऽस्तु ते ॥
श्रीभगवते साम्बसदाशिवाय नम: अर्ध्यं समर्पयामि ।

आचमन
ॐ अद्‌ध्यवोचदधिवक्ता प्प्रथमो दैव्यो भिषक् ।
अहींश्श्च सर्व्वां जम्भयन्त्सर्व्वाश्श्व वातु धान्यो धराची: परासुव ॥
सर्वतीर्थसमायुक्तं सुगन्धिं निर्मलं जलम् ।
आचम्यतां मया दत्तं गृहीत्वा परमेश्वर ॥

श्रीभगवते साम्बसदाशिवाय नम: आचमनीयं जलं समर्पयामि ।

मधुपर्क
ॐ यन्मधुनो मधव्यं परमर्ठ० रूपमन्नाद्यम् ।
तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानि ॥
आज्यं दधि मधु श्रेष्ठं पात्रयुग्मसमन्वितम् ।
मधुपर्कं गृहाण त्वं प्रसन्नो भव शङ्कर ॥

श्रीभगवते साम्बसदाशिवाय नम: मधुपर्कं समर्पयामि ।

स्नान
ॐ असौ वस्ताम्म्रो ऽअरुण ऽउत बब्भ्रु: सुमङ्गल: ।
वे चैबर्ठ० रुद्‌द्रा ऽअभितो दिक्षु श्श्रिता: सहस्त्रशोऽवैषा, हेड ऽईमहे ॥
गङ्गा-सरस्वती-रेवा-पयोष्णी-नर्मदाजलै: ।
स्नापितोऽसि मया देव तत: शान्तिं प्रयच्छ मे ॥

श्रीभगवते साम्बसदाशिवाय नम: स्नानीयं जलं समर्पयामि ।

पयःस्नान
ॐ पय: पृथिव्यां पय ऽओषधीषु पयो दिव्यन्तरिक्षे पयो धा: ।
पयस्वती: प्प्रदिश: सन्तु मह्यम् ॥
कामधेनुसमुद्‌भूतं सर्वेषां जीवनं परम् ।
पावकं यज्ञहेतुश्च पय: स्नानार्थमर्पितम् ॥

श्रीभगवते साम्बसदाशिवाय नम: पय:स्नानं समर्पयामि ।
पय:स्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

दधिस्नान
ॐ दधिक्राब्णो ऽअकारिषं जिष्णोरश्वस्य व्वाजिन: ।
सुरभि नो मुखा करत् प्रण ऽआयू षि तारिषत् ॥
पयसस्तु समुद्‌भुतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥

श्रीभगवते साम्बसदाशिवाय नम: दधिस्नानं समर्पयामि ।
दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

घृतस्नान
ॐ घृतं मिमिक्षे घृतमस्य वोनिर्घृते श्रितो घृतम्बस्य धाम ।
अनुष्वधमा वह मादयस्व स्वाहाकृतं व्वृषभ व्वक्षि हव्यम् ॥
नवनीतसमुत्पन्नं सर्वसन्तोषकारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥

श्रीभगवते साम्बसदाशिवाय नम: घृतस्नानं समर्पयामि ।
घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

मधुस्नान
ॐ मधु व्बाता ऽऋतायते मधु क्षरन्ति सिन्धव: । माद्‌ध्वीर्न्न: सन्त्वोषधी: ॥
मधु नक्तमुतोषसो मधुमत्पार्थिवर्ठ० रज: । मधु द्यौरस्तु न: पिता ॥
मधुमान्नो व्वनस्पतिर्म्मधुमाँ२ऽ अस्तु सूर्व्व: । माद्‌ध्वीर्ग्गावो भवन्तु न: ॥
दिव्यै: पुष्पी: समुद्‌भूतं सर्वगुणसमन्वितम् । मधुरं मधुनामाढयं स्नानार्थं प्रतिगृह्यताम् ॥

श्रीभगवते साम्बसदाशिवाय नम: मधुस्नानं समर्पयामि ।
मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

शर्करास्नान
ॐ अपा रसमुद्वयसर्ठ० सूर्व्वे सन्तर्ठ० समाहितम् ।
आप रसस्य वो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्त्वा जुष्ट्टं गृह्णाम्येष ते वोनिरिन्द्रायत्त्वा जुष्ट्टतमम् ॥
इक्षुसारसमुद्‌भूता शर्करा पुष्टिकारिका ।
मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् ॥

श्रीभगवते साम्बसदाशिवाय नम: शर्करास्नानं समर्पयामि ।
शर्करास्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

पञ्चामृतस्नान
ॐ पञ्च नद्य: सरस्वतीमपि यन्ति सस्त्रोतस: ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु ।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥

श्रीभगवते साम्बसदाशिवाय नम: पञ्चामृतस्नानं समर्पयामि ।

शुद्धोदकस्नान
ॐ शुद्धवाल:  सर्व्वशुद्धवालो मणिवालस्त ऽआश्विना: ।
श्येत: श्येताक्षोऽरुणस्ते रुद्‌द्राय पशुपतये कर्ण्णा वामा ऽअवलिप्ता रौद्‌द्रा नभोरूषा: पार्ज्जन्या: ॥
गङ्गा गोदावरी रेवा पयोष्णी यमुना तथा ।
सरस्वती तीर्थंजातं स्नानार्थं प्रतिगृह्यताम् ॥

श्रीभगवते साम्बसदाशिवाय नम: शुद्धोदकस्नानं समर्पयामि ।
शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।

महाभिषेकस्नान
पश्चात् शिव की मूर्ति पर नमस्ते० (१-१६) इस रुद्रसूक्त से जलधारा द्वारा अभिषेक करें ।

गन्धोदकस्नान
ॐ त्वां गन्धर्व्वा ऽअखनँस्त्वामिन्द्रस्त्वां बृहस्पति: ।
त्वामोषधे सोमो राजा व्विद्वान्यक्ष्मादमुच्यत ॥
मलयाचलसम्भूतं चन्दनागुरुसम्भवम् ।
चन्दनं देव देवेश स्नानार्थं प्रतिगृह्यताम् ॥

श्रीभगवते साम्बसदाशिवाय नम: गन्धोदकस्नान समर्पयामि ।
गन्धोदकस्नानान्ते शुद्धोदकस्नानं समर्पयामि आचमनीयं जलं समर्पयामि ।

विजयास्नान
ॐ व्विज्ज्यं धनु: कपर्द्दिनो व्विशल्यो वाणवाँ२ ऽउत ।
अनेशन्नस्य वा ऽइषव ऽआभुरस्य निषङ्गधि: ।
शिवप्रीतिकरं रन्यं दिव्यभावसमन्वितम् ।
विजयाख्यं च स्नानार्थं भक्त्या दत्तं प्रगृह्यताम् ॥

श्रीभगवते साम्बसदाशिवाय नम: बिजयां समर्पयामि ।
विजयासमर्पणान्ते शुद्धोदकस्नानं समर्पयामि ।

वस्त्र
ॐ असौ वोऽवसर्प्पति नीलग्ग्रीवो व्विलोहित: ।
उतैनं गोपा ऽअद्दश्श्रनद्दश्श्रन्नुदहार्व्व: स द्दष्ट्टो मृडयाति न: ॥
शीतवातोष्णसन्त्राणं लज्जाया रक्षणं परम्
देहालङ्करणं वस्त्रमत: शान्तिं प्रयच्छ मे ॥

श्रीभगवते साम्बसदाशिवाय नम:  वस्त्रं समर्पयामि ।

उपवस्त्र
ॐ सुजातो ज्ज्योतिषा सह शर्म्म व्वरूथ मा सदत्स्व: ।
व्वासो ऽअग्ने व्विश्वरूपर्ठ० संव्ययस्व व्विभावसो ॥
उपवस्त्रं प्रयच्छामि देवाय परमात्मने ।
भक्त्या समर्पितं देव प्रसीद परमेश्वर ॥

श्रीभगवते साम्बसदाशिवाय नम: उपवस्त्रं समर्पयामि ।

यञ्चोपवीत
ॐ नमोऽस्तु नीलग्ग्रीवाय सहस्राक्षाय मीहुषे ।
अथो वे ऽअस्य सत्त्वानोऽहन्तेब्भ्योऽकरं नम: ॥
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया द्त्तं गृहाण परमेश्वर ॥

श्रीभगवते साम्बसदाशिवाय नम: यज्ञोपवीतं समर्पयामि ।
यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।

गन्ध (चन्दन)
ॐ प्रमुञ्च धन्न्वनस्त्वमुभयोरार्त्न्योर्ज्य्याम् ।
वाश्च ते हस्त ऽइषव: परा ता भगवो व्वप ॥
श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥

श्रीभगवते साम्बसदाशिवाय नम: गन्धं समर्पयामि ।

भस्म
ॐ प्रसद्य भस्मना वोनिमपश्च पृथिवीमग्ने ।
सर्ठ० सृज्ज्यमातृभिष्ट्‌वं ज्ज्योतिष्मान् पुनरासद: ॥
सर्वपापहरं भस्म दिव्यज्योतिस्समप्रभम् ।
सर्वक्षेमकरं पुण्यं गृहाण परमेश्वर ॥

श्रीभगवते साम्बसदाशिवाय नम: भस्म समर्पयामि ।

अक्षत
ॐ अक्षन्नमीमदन्त ह्यव प्प्रिया ऽअधूषत ।
अस्तोषत स्वभानवो व्विप्प्रा नविष्ठ्ठया मती वोजान्विन्द्रते हरी ॥
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ता: सुशोभिता: ।
मया निवेदिता भक्या गृहाण परमेश्वर ॥

श्रीभगवते साम्बसदाशिवाय नम: अक्षतान् समर्पयामि ।

पुष्पमाला
ॐ ओषधी: प्रति मोदध्वं पुष्पवती: प्रसूवरी ।
अश्वा ऽइव सजित्त्वरीर्व्वीरुध: पारयिश्ण्व: ॥
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाऽऽनीतानि पुष्पाणि गृहाण परमेश्वर ॥

श्रीभगवते साम्बसदाशिवाय नम: पुष्पमालां समर्पयामि ।

बिल्वपत्र
ॐ नमो बिल्मिने च कवचिने च नमो व्वर्म्मिणे च व्वरूथिने च नम: श्श्रुताय च श्श्रुतसेनाय च नमो दुन्दुब्भ्याय चाहनन्याय च ॥
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम् ।
त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥१॥
काशीवासनिवासी च कालभैरवदर्शनम् ।
कोटिकन्यामहादानं बिल्वपत्रं शिवार्पणम् ॥२॥
दर्शनं बिल्वपत्रस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंकाशं बिल्वपत्रं शिवार्पणम् ॥३॥
अखण्डैर्बिल्वपत्रैश्च पूजयेच्छिवशङ्करम् ।
कोटिकन्यामहादानं बिल्वपत्रं शिवार्पणम् ॥४॥
गृहाण बिल्वपत्राणि सपुष्पाणि महेश्वर: ।
सुगन्धीनि भवानीश शिव त्वं कुसुमप्रिय: ॥५॥
त्रिशाखैर्बिल्वपत्रैश्च अच्छिद्रै: कोमलै: शुभै: ।
तव पूजा करिष्यामि गृहाण परमेश्वर ॥६॥
श्रीवृक्षामृतसम्भूतं शङ्करस्य सदा प्रियम् ।
पवित्रं ते प्रयच्छामि बिल्वपत्रं सुरेश्वरम् ॥७॥
त्रिशाखैर्बिल्वपत्रैश्च कोमलैश्चातिसुन्दरै: ।
त्वां पूजयामि विश्वेश प्रसन्नो भव सर्वदा ॥८॥
अमृतोद्भवश्रीवृक्षं शङ्करस्य सदा प्रियम् ।
तत्ते शम्भो प्रयच्छामि बिल्वपत्रं सुरेश्वर ॥९॥

श्रीभगवते साम्बसदाशिवाय नम: एकादश बिल्वपत्राणि समर्पयामि ।

दूर्वा
ॐ काण्डात् काण्डात्प्ररोहन्ती परुष: परुषस्परि ।
एवा नो दूर्व्वे प्प्रतनु सहस्त्रेण शतेन च ॥
दूर्वाङ्कुरान् सुहरितानमृतान मङ्गलप्रदान्‌ ।
आनीतांस्तव पूजार्थं गृहाण परमेश्वर ॥

श्रीभगवते साम्बसदाशिवाय नम: एकादश दूर्वाङ्कुरान् समर्पयामि ।

शमी
ॐ अग्नेस्तनूरसि व्वाचो व्विसर्ज्जनं देववीतये त्त्वा गृह्णामि बृहद्‌ग्रावासि व्वानस्पत्य: स ऽइदं देवेब्भ्यो हवि: शमीष्व सुशमि शमीष्व । हविष्कृदेहि हविष्कृदेहि ॥
अमङ्गलानां च शमनीं शमनीं दुष्कृतस्य च ।
दुःस्वप्ननाशिनीं धन्यां प्रपद्येऽहं शमीं शुभाम् ॥

श्रीभगवते साम्बसदाशिवाय नम: शमीपत्राणि समर्पयामि ।

तुलसी-मञ्जरी
ॐ शिवो भव प्प्रजाब्भ्यो मानुषीब्भ्यस्त्वमङ्गिर: ।
मा द्यावापृथिवी ऽअभिशोचीर्म्मान्तरिक्षं मा व्वनस्पतीन् ॥
मिलत्परिमलामोदभृङ्गसङ्गीतसंस्तुताम् ।
तुलसीमञ्जरीं मञ्जु अञ्जसा स्वीकुरु प्रभो ॥

श्रीसाम्बसदाशिवाय नम: तुलसीमञ्जरीं समर्पयामि ।

आभूषण
ॐ वुवं तमिन्द्रापर्व्वता पुरोयुधा वो न: पृतन्यादप तन्तमिद्धतं व्वज्रेण तन्तमिद्धतम् ।
दूरे चत्ताय छन्त्सद् गहनं वदिनक्षत् ॥
वज्र-माणिक्य-वैदूर्यमुक्ताविद्रुममण्डितम् ।
पुष्परागसमायुक्तं भूषण प्रतिगृह्मताम् ॥

श्रीसाम्बसदाशिवाय नम: आभूषणं समर्पयामि ।

नानापरिमलद्रव्य (अबीर-गुलाब, बुक्का-हरिंद्राचूर्ण)
ॐ अहिरिव भोगै: पवर्षेति वाहुँ ज्याया ज्याया हेतिं परिबाधमान: ।
हस्तध्नो व्विश्वा व्वयुनानि व्विद्वान् पुमान् पुमा, सं परिपातु व्विश्वत: ॥
अबीरं च गुलालं च हरिद्रादिसमन्वितम् ।
नानापरिमलं द्रव्यं ग्रहाण परमेश्वर ॥

श्रीसाम्बसदाशिवाय नम: नानापरिमलद्रव्याणि समर्पयामि ।

सिन्दूर
ॐ सिन्धोरिव प्प्राद्‌ध्वने शुघनासो
व्वातप्प्रमिय: पतयन्ति वह्णा: ।
घृतस्य धारा ऽअरुषो न व्वाजी
काष्ठ्ठा भिन्दन्नूर्म्मिभि: पिन्वमान: ॥
सिन्दूरं शोभनं रक्तं सौभाग्यसुखवर्द्धनम् ।
शुभदं चैव माङ्गल्यं सिन्दूरं प्रतिगृह्यताम् ॥

श्रीसाम्बसदाशिवाय नम: सिन्दूरं समर्पयामि ।

सुगन्धिद्रव्य
ॐ त्र्यम्बकं वजामहे सुगर्न्धि पुष्ट्टिवर्द्धनम् ।
उर्व्वारुकमिव बन्धनान्मृत्योर्मृक्षीयमाऽमृतात् ॥
दिव्यगन्धसमायुक्तं महापरिमलाद्‌भुतम् ।
गन्धद्रव्यमिदं भक्त्या दत्तं स्वीकुरु शङ्कर ॥
श्रीसाम्बसदाशिवाय नम: सुगन्धिद्रव्यं समर्पयामि ।

अङ्गपूजा
गन्ध, अक्षत और पुष्प आदि से भगवान् शिव की इस प्रकार अङ्गपूजा करें---
ॐ ईशानाय नम: पादौ पूजयामि ॥१॥
ॐ शङ्कराय नम: जंघे पूजयामि ॥२॥
ॐ शूलपाणये नम: गुल्फौ पूजयामि ॥३॥
ॐ शम्भवे नम: कटी पूजयामि ॥४॥
ॐ स्वयम्भुवे नम: गुह्यं पूजयामि ॥५॥
ॐ महादेवाय नम: नाभिं पूजयामि ॥६॥
ॐ विश्वकर्त्रे नम: उदरं पूजयामि ॥७॥
ॐ सर्वतोमुखाय नम: पार्श्वे पूजयामि ॥८॥
ॐ स्थाणवे नम: स्तनौ पूजयामि ॥९॥
ॐ नीलकण्ठाय नम: कण्ठं पूजयामि ॥१०॥
ॐ शिवात्मने नम: मुखं पूजयामि ॥११॥
ॐ त्रिनेत्राय नम: नेत्रे पूजयामि ॥१२॥
ॐ नागभूषणाय नम: शिर: पूजयामि ॥१३॥
ॐ देवाधिदेवाय नम: सर्वाङ्गं पूजयामि ॥१४॥

आवरणपूजा
ॐ अघोराय नम: ॥१॥
ॐ पशुपतये नम: ॥२॥
ॐ शिवाय नम: ॥३॥
ॐ विरुपाय नम: ॥४॥
ॐ विश्वरूपाय नम: ॥५॥
ॐ त्र्यम्बकाय नम: ॥६॥
ॐ भैरवाय नम: ॥७॥
ॐ कपर्दिने नम: ॥८॥
ॐ शूलपाणये नम: ॥९॥
ॐ ईशानाय नम: ॥१०॥
ॐ महेशाय नम: ॥११॥

एकादशशक्तिपूजा
ॐ उमायै नम: ॥१॥
ॐ शङ्करप्रियायै नम: ॥२॥
ॐ पार्वत्यै नम: ॥३॥
ॐ गौर्यै नम: ॥४॥
ॐ काल्यै नम: ॥५॥
ॐ कालिन्धै नम: ॥६॥
ॐ कोटर्यै नम: ॥७॥
ॐ विश्वपारिण्यै नम: ॥८॥
ॐ ह्णां नम: ॥९॥
ॐ ह्णीं नम: ॥१०॥
ॐ गङ्गादेव्यै नम: ॥११॥

गणपूजा
ॐ गणपतये नम: ॥१॥
ॐ कार्तिकाय नम: ॥२॥
ॐ पुष्पद्न्ताय नम: ॥३॥
ॐ कपदिंने नम: ॥४॥
ॐ भैरवाय नम: ॥५॥
ॐ शूलपाणये नम: ॥६॥
ॐ ईश्वराय नम: ॥७॥
ॐ दण्डपाणये नम: ॥८॥
ॐ नन्दिने नम: ॥९॥
ॐ महाकालाय नम: ॥१०॥

अष्टमूर्तिपूजा
ॐ भवाय क्षितिमूर्तये नम: ॥१॥
ॐ शर्वाय जलमूर्तये नम: ॥२॥
ॐ रुद्राय अग्निमूर्तये नम: ॥३॥
ॐ उग्राय वायुमूर्तये नम: ॥४॥
ॐ भीमाय आकाशमूर्तये नम: ॥५॥
ॐ पशुपतये यजमानमूर्तने नम: ॥६॥
ॐ महादेवाय सोममूर्तये नम: ॥॥७॥
ॐ ईशानाय सूर्यमूर्तये नम: ॥८॥

एकादश रुद्रपूजा
ॐ अधोराय नम: ॥१॥
ॐ पशुपतये नम: ॥२॥
ॐ शर्ब्राय नम: ॥३॥
ॐ विरूपाक्षाय नम: ॥४॥
ॐ विश्वरूपिणे नम: ॥५॥
ॐ त्र्यम्बकाय नम: ॥६॥
ॐ कपर्दिने नम: ॥७॥
ॐ भैरवाय नम: ॥८॥
ॐ शूलपाणये नम: ॥९॥
ॐ ईशानाथ नम: ॥१०॥
ॐ महेश्वराय नम: ॥११॥

अष्टोत्तरशतशिवनाम-पूजा
(शिव के १०८ नामों से:पुष्प, अक्षत आदि से शिव-पूजन करें)
ॐ अस्य श्रीशिवाष्टोत्तरशतनाममन्त्रस्य नारायणऋषि: अनुष्टुप् छन्द: श्रीसदाशिवो देवता गौरी उमाशक्ति: श्रीसाम्बसदाशिवप्रातये अष्टोत्तरशतनामभि: शिवपूजने विनियोग: ।
शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं
विश्वाधारं स्फटिकसद्दशं शुभ्रवर्णं शुभाड्गम् ।
गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं
वन्दे शम्भुं भवमयहरं सवलोकैकनाथम् ॥
ॐ शिवाय नम: ॥१॥
ॐ महेश्वराय नम: ॥२॥
ॐ शम्भवे नम: ॥३॥
ॐ पिनाकिने नम: ॥४॥
ॐ शशिशेखराय नम: ॥५॥
ॐ वामदेवाय नम: ॥६॥
ॐ विरुपाक्षाय नम: ॥७॥
ॐ कपर्दिने नम: ॥८॥
ॐ नीललोहिताय नम: ॥९॥
ॐ शंकराय नम: ॥१०॥
ॐ शूलपाणये नम: ॥११॥
ॐ खट्‌वाङ्गिने नम: ॥१२॥
ॐ विष्णुवञ्जभाय नम: ॥१३॥
ॐ शिपिविष्टाय नम: ॥१४॥
ॐ अम्विकानाथाय नम: ॥१५॥
ॐ श्रीकण्ठाय नम: ॥१६॥
ॐ भक्तवत्सलाय नम: ॥१७॥
ॐ भवाय नम: ॥१८॥
ॐ शर्वाय नम: ॥१९॥
ॐ त्रिलोकीशाय नम: ॥२०॥
ॐ शितिकण्ठाय नम: ॥२१॥
ॐ शिवाप्रियाय नम: ॥२२॥
ॐ उग्राय नम: ॥२३॥
ॐ कपालिने नम: ॥२४॥
ॐ कामारये नम: ॥२५॥
ॐ अन्धकासुरसूदनाय नम: ॥२६॥
ॐ गंगाधराय नम: ॥२७॥
ॐ ललाटाक्षाय नम: ॥२८॥
ॐ कालकालाय नम: ॥२९॥
ॐ कृपानिधये नम: ॥३०॥
ॐ भीमाय नम: ॥३१॥
ॐ परशुइस्ताय नम: ॥३२॥
ॐ मृगपाणये नम: ॥३३॥
ॐ जटाधराय नम: ॥३४॥
ॐ कैलामवासिने नम: ॥३५॥
ॐ कवचिने नम: ॥३६॥
ॐ कठोराय नम: ॥३७॥
ॐ त्रिपुरान्तकाय नम: ॥३८॥
ॐ वृषाङ्काय नम: ॥३९॥
ॐ वृषभारूढाय नम: ॥४०॥
ॐ भस्मोद्‌धूलितविग्रहाय नम: ॥४१॥
ॐ सामप्रियाय नम: ॥४२॥
ॐ स्वरमयाय नम: ॥४३॥
ॐ त्रिमूर्त्तये नम: ॥४४॥
ॐ अश्विनीश्वराय नम: ॥४५॥
ॐ सर्वज्ञाय नम: ॥४६॥
ॐ परमात्मने नम: ॥४७॥
ॐ सोमसूर्य्याग्निलोचनाय नम: ॥४८॥
ॐ हावषे नम: ॥४९॥
ॐ यज्ञमयाय नम: ॥५०॥
ॐ पञ्चवक्त्राय नम: ॥५१॥
ॐ सदाशिवाय नम: ॥५२॥
ॐ विश्वेश्वराय नम: ॥५३॥
ॐ वीरभद्राय नम: ॥५४॥
ॐ गणनाथाय नम: ॥५५॥
ॐ प्रजापतये नम: ॥५६॥
ॐ हिरण्यरेतसे नम: ॥५७॥
ॐ दुर्द्धर्षाय नम: ॥५८॥
ॐ गिरीशाय नम: ॥५९॥
ॐ गिरिशाय नम: ॥६०॥
ॐ अनधाय नम: ॥६१॥
ॐ भुजङ्गभूषणाय नम: ॥६२॥
ॐ भर्गाय नम: ॥६३॥
ॐ गिरिधन्वने नम: ॥६४॥
ॐ गिरिप्रियाय नम: ॥६५॥
ॐ अष्टमूर्त्तये नम: ॥६६॥
ॐ अनेकात्मने नम: ॥६७॥
ॐ सात्त्विकाय नम: ॥६८॥
ॐ शुभविग्रहाय नम: ॥६९॥
ॐ शाश्वताय नम: ॥७०॥
ॐ खण्डपरशवे नम: ॥७१॥
ॐ अजाय नम: ॥७२॥
ॐ पाशविमोचकाय नम: ॥७३॥
ॐ कृत्तिवाससे नम: ॥७४॥
ॐ पुरारातये नम: ॥७५॥
ॐ भगवते नम: ॥७६॥
ॐ प्रमथाधिपाय नम: ॥७७॥
ॐ मृत्युञ्जजाय नम: ॥७८॥
ॐ सूक्ष्मतनवे नम: ॥७९॥
ॐ जगद्‌त्र्यापिने नम: ॥८०॥
ॐ जगद्‌गुरवे नम: ॥८१॥
ॐ व्योमकेशाय नम: ॥८२॥
ॐ महासेनाय नम: ॥८३॥
ॐ जनकाय नम: ॥८४॥
ॐ चारुविक्रमाय नम: ॥८५॥
ॐ रुद्राय नम: ॥८६॥
ॐ भूतपतये नम: ॥८७॥
ॐ स्थाणवे नम: ॥८८॥
ॐ अहिर्बुध्न्याय नम: ॥८९॥
ॐ दिगम्बराय नम: ॥९०॥
ॐ मृडाय नम: ॥९१॥
ॐ पशुपतये नम: ॥९२॥
ॐ देवाय नम: ॥९३॥
ॐ महादेवाय नम: ॥९४॥
ॐ अव्ययाय नम: ॥९५॥
ॐ हरये नम: ॥९६॥
ॐ पुष्पदन्तभिदे नम: ॥९७॥
ॐ भगनेत्रभिदे नम: ॥९८॥
ॐ अपवर्गप्रदाय नम: ॥९९॥
ॐ अव्यग्राय नम: ॥१००॥
ॐ अव्यक्ताय नम: ॥१०१॥
ॐ अनन्ताय नम: ॥१०२॥
ॐ दक्षाध्वरहराय ॥१०३॥
ॐ सहस्त्राक्षाय नम: ॥१०४॥
ॐ तारकाय नम: ॥१०५॥
ॐ हराय नम: ॥१०६॥
ॐ सहस्त्रपदे नम: ॥१०७॥
ॐ श्रीपरमेश्वराय नम: ॥१०८॥

पञ्चवक्त्रपूजा
ॐ प्रालेयामलबिन्दुकुन्दधवलं गोक्षीरफेनप्रभं
भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् ।
ब्रह्मेन्द्राग्निमरुद्‌गणै: स्तुतिपरैरभ्यर्चितं योगिभिर्वन्देऽहं
सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥
ॐ पश्चिमवक्त्राय नम: ॥१॥

ॐ गौरं कुङ्कुमपिङ्गलं सुतिलकं व्यापाण्डुगण्डस्थलं
भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं
वन्दे पूर्णशशाङ्कमण्डलनिभं वक्त्रं हरस्योत्तरम् ॥
ॐ उत्तरवक्त्राय नम: ॥२॥

ॐ कालभ्रभ्रमराञ्जनाचलनिभं व्यादीप्त पिङ्गेक्षणं
खण्डेन्दुद्यतिमिश्रितोग्रदशनप्रोद्भिन्नदंष्ट्राङ्कुरम् ।
सर्वप्रोतकपालशुक्तिसकलं व्याकीर्णसच्छेखरं
वन्द्रे दक्षिणमीश्वरस्य जटिलं भ्रूभङ्गरौद्रं मुखम् ॥
ॐ दक्षिणवक्त्राय नम: ॥३॥

ॐ संवर्त्ताग्नितडित्प्रतप्तकनकप्रस्पर्धितेजोमयं
गम्भीरस्मितनि:सृतोग्रदशनं प्रोद्‌भासिताम्राधरम् ।
बालेन्दुद्यतिलोलपिङ्गलजटाभारप्रबद्धोरगं
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिन: ॥
ॐ पूर्ववक्त्राय नम: ॥४॥

ॐ व्यक्ताव्यक्तगुणोत्तरं सुवदनं षडविंशतत्त्वाधिकं
तस्मादुत्तरतत्त्वमक्षयमिति ध्येयं सदा योगिभि: ।
वन्दे तामसवर्जितेन मनसा सूक्ष्मातिसूक्ष्मं परं
शान्तं पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥
ॐ ऊर्ध्ववक्त्राय नम: ॥५॥

धूप
ॐ वा ते हेतिर्म्मीदुष्ट्ट महस्ते बभूव ते धनु: ।
तयास्मान्न्विश्श्वतस्त्वमयक्ष्मया परिभुज ॥
वनस्पतिरसोद्‌भूतो गन्धाढयो गन्ध उत्तम: ।
आघ्रेय: सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

श्रीसाम्बसदाशिवाय नम: धूपमाघ्रापयामि ।

दीप
ॐ परि ते धन्न्वनो हेतिरस्म्मान् व्वृणक्तु व्विश्श्वत: ।
अथो व ऽहषुधिरतवारे ऽअस्स्मन्निधेहि तम् ॥
साज्यं च वर्त्तिसंयुक्तं वह्निना योजितं मया ।
दीपं च गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयाद् घोराद्दीपज्योतिर्नमोऽस्तु ते ॥
श्रीसाम्बसदाशिवाय नम: दीप दर्शयामि । हस्तप्रक्षालनम् ।

नैवेद्य
ॐ अवतत्त्य धनुष्टुर्ठ० सहस्त्राक्ष शतेषुधे ।
निशीवर्ष शल्यानां मुखा शिवो न: सुमना भव ॥
नैवेद्यं गृह्यता देव भक्ति मे ह्यवलां कुरु ।
ईप्सितं मे वरं देहि परत्र च परां गतिम् ॥
शर्कंराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारो भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्मताम् ॥

श्रीसाम्बसदाशिवाय नम: नैवेद्यं निवेदयामि ।
नैवेद्यान्ते आचमनीयं जलं समर्पयामि ।

पश्चात् नैवेद्यको पवित्र जलसे अभुक्षण करके गन्ध और पुष्पसे आच्छादित कर दें ।
अनन्तर धेनुमुद्रासे अमृतोकरण करके योनिमुद्रा दिखावें और घण्टा बजा दें ।
पश्चात् प्रासमुद्राको दिखाकर---

ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ समानाय स्वाहा । ॐ उदानाय स्वाहा ।

इत्यादिके द्वारा मुद्राओंका प्रदर्शन करें और बीच-बीचमें आचमनीय जलको समर्पित करें ।
उत्तरापोशनर्थं पुन: नैवेद्य निवेदन करें । हस्तप्रक्षालनार्थ और मुखप्रक्षालनार्थं जल समर्पित करें । पुन: आचमनीय जलको समर्पित करें ।
ऋतुफल
ॐ वा: फलिनीर्व्वा ऽअफला ऽअषुष्पा वाश्च पुष्णिणी: ।
बृहस्पतिप्प्रसूतास्ता नो मुञ्चन्त्वर्ठ० हस: ॥
नानाविधानि दिव्यानि मधुराणि फलानि वै ।
भक्त्यार्पितानि सर्वाणि गृहाण परमेश्वर ॥

श्रीसाम्बसदाशिवाय नम: ऋतुफलानि सपर्पयामि ।

धत्तूरफल
ॐ कार्षिरसि समुद्‌द्रस्य त्त्वा क्षित्त्या ऽउन्नयामि ।
समापो ऽअद्भिरस्मत समोपधीभिरोपधी: ॥
धीरधैयंपरीक्षार्थ धारितं परमेष्ठिना ।
धत्तूरं कण्टकाकीर्णं गृहाण परमेश्वर ॥

श्रीसाम्बसदाशिवाय नम: धत्तूरफलं समर्पयामि ।

ताभ्बूल (सुपारी, इलायची और लवङ्गके सहित)

ॐ नमस्त ऽआयुधायानातताय धृष्णवे ।
उभाव्भामुत ते नमो बाहुब्भ्यां तव धन्न्वने ॥
पूगीफलं महद्दिव्यं नागवल्लोदलैर्युतम् ।
एलादिचूणसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

श्रीसाम्बसदाशिवाय नम: मुखवासार्थे ताम्बूलं समर्पयामि ।

दक्षिणा
ॐ मा नो महान्तमुत मा नो ऽअर्ब्भकं मा न ऽउक्षन्तमुत मा न ऽउक्षितम् ।
मा नो व्वधी: पितरं मोत मातरं मा न: प्प्रियास्तन्वो रुद्‌द्ररीरिष: ॥
दक्षिणा स्वर्णसहिता यथाशक्ति समर्पिता ।
अनन्तफलदामेनां गृहाण परमेश्वर ॥

श्रीसाम्बसदाशिवाय नम: दक्षिणां समर्पयामि ।

आर्ती
ॐ ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ ।
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम् ॥१॥
ॐ इदर्ठ० हवि: प्प्रजननं मे ऽअस्तु दशवीरर्ठ० सर्व्वगणर्ठ० स्वस्तये ।
आत्मसनि प्प्रजासनि पशुसनि लोकसन्यभयसनि ।
अग्नि: प्रजां बहुलां में करोत्त्वन्नं पयो रेतो ऽअस्मासु धत्ता ॥२॥

ॐ आ राञ्रि पार्थिवर्ठ० रज: पितुरप्प्रायि धामभि: ।
दिव: सदा सि बृहती व्वितिष्ठ्ठस ऽआ त्त्वेषं व्वर्त्तते तम: ॥३॥

ॐ अग्निर्द्देवता व्वातो देवता सूर्य्यो देवता चन्द्रमा देवता व्वसवो देवता रुद्‌द्रा देवताऽऽदित्या देवता मरुतो देवता व्विश्वेदेवा देवता बृहस्पतिर्द्देवतेन्द्रो देवता व्वरुणो देवता ॥४॥
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्दे भवं भवानीसाहतं नमामि ।
ॐ जय शिव ओंकारा, जय शिव ओंकारा ।

ब्राह्मा विष्णु सदाशिव अर्द्धङ्गी धारा ॥१॥
ॐ हर हर हर महादेव ॥

एकानन चतुरानन पञ्चानन राजै ।
हंसानन गरुडासन वृषवाहन साजै ॥२॥
ॐ हर हर हर महादेव ॥

दो भुज चारु चतुर्भुज दशभुज अति सोहै ।
तीनों रूप निरखते त्रिभुवन-जन मोहै ॥३॥
ॐ हर हर हर महादेव ॥

अक्षमाला बनमाला रुण्डमाला धारी ।
चन्दन मृगमद चन्दा भाले शुभकारी ॥४॥
ॐ हर हर हर महादेव ॥

श्वेताम्बर पीताम्बर बाघम्बर अंगे ।
सनकादिक गरुडादिक भूतादिक संगे ॥५॥
ॐ हर हर हर महादेव ॥

कर मध्ये सुकमण्डलु चक्र त्रिशूल धरता ।
जगकर्त्ता जगभर्त्ता जगपालनकर्त्ता ॥६॥
ॐ हर हर हर महादेव ॥

ब्रह्मा विष्णु सदाशिव जानत अविवेका ।
प्रणवाक्षरमें शोभित ये तीनों एका ॥७॥
ॐ हर हर हर महादेव ॥

काशीमें विश्वनाथ विराजै नन्दी ब्रह्मचारी ।
नित उठ दर्शन पावै महिमा अति भारी ॥८॥
ॐ हर हर हर महादेव ॥

त्रिगुण स्वामिकी आरति जो कोई नर गावै ।
भनत शिवानन्द स्वामी मनवाञ्छित फल पावै ॥९॥
ॐ हर हर हर महादेव ॥

जय शिव ओंकारा, हो मन भज शिव ओंकारा,
हो मन रट शिव ओंकारा, हो शिव गल रुण्डमाला,
हो शिव ओढत मृगछाला, हो शिव पीते भंग-प्याला,
हो शिव रहते मतवाला, हो शिव पार्वतीप्यारा,
हो शिव ऊपर जलधारा ॥
ब्रह्मा विष्णु सदाशिव अर्द्धङ्गी धारा ॥१०॥
ॐ हर हर हर महादेव ॥

मन्त्रपुष्पाञ्जलि
ॐ मा नस्तोके तनये मा न ऽआयुषि मा नो गोषु मा नो ऽअश्वेषु रीरिष: ।
मा नो व्वीरान् रुद्‌द्र भामिनो व्वधीर्हविष्मन्त: सदमित्त्वा हवामहे ॥

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्म्माणि प्प्रथमान्यासन् ।
ते ह नाकं महिमान: सचन्त यञ्र पूर्व्वे साध्या: सन्ति देवा: ॥

ॐ राजाधिराजाय प्रसह्य साहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान् कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुवेराय वैश्रवणाय महाराजाय नम: ॥

ॐ स्वम्ति । साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं महाराज्यमाधिपत्यमयं समन्तर्यायी स्यात्,  सार्वभौम: सार्वायुष आन्तादापरार्धात्, पृथिव्यै समुद्रपर्यन्ताया एकराडिति ॥

तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन् गृहे ।
आविक्षितस्य कामप्रेविश्वेदेवा: सभासद इति ॥

ॐ व्विश्वतश्चक्षुरुत व्विश्वतो मुखो व्विश्वतो बाहुरुत व्विश्वतस्पात् ।
सम्बाहुब्भ्यां धमति सम्पतञ्रैर्द्यावाभूमी जनयन्देव ऽएक: ॥

श्रीसाम्बसदाशिवाय नम: मन्त्रपुष्पाञ्जलिं समर्पयामि ।

शिवगायत्री

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्र: प्रचोदयात् ॥
मन्दरमालाङ्कुलितालकायै कपालमालाङ्कितशेखराय ।
दिव्याम्बरायै च दिगम्बराय नम: शिवायै च नम: शिवाय ॥

प्रदक्षिणा (शिवको अर्ध प्रदक्षिणा होती है)

ॐ ये तीर्थानि प्प्प्रचरन्ति सृकाहस्ता निषङ्गिण: ।
तोषा सहस्रयोजनेऽव धन्वानि तन्मसि ।

ॐ सप्तास्यासन् परिधयस्त्रि: सप्त समिध: कृता: ।
देवा वद्यज्ञं तन्न्वाना ऽअवध्नन् पुरुषं पशुम् ॥
यानि कोनि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ॥

प्रणाम
ॐ नम: शम्भवाय च मयो भवाय च नम: शङ्कराय च मयस्क्कराय च नम: शिवाय च शिवतराय च ॥
धन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्य शशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयञ्च वरदं वन्दे शिवं शङ्गरम् ॥१॥
वन्दे महेशं सुरसिद्धसेवितं भक्तै: सदा पूजितपादपद्मम् ।
ब्रह्मेन्द्रविष्णुप्रमुखेश्व वन्दितं ध्यायेत्सदा कामदुधं प्रसन्नम् ॥२॥
शान्तं पद्मासनस्थं शशधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्‌गं परशुभयदं दक्षिणाङ्गे वडन्तम्
नागं पाशं च घण्टां डमरूसहितं साङ्कशं वामभागे
नानालङ्कारयुक्त स्फटिकमणिनिभं पार्वताशं नमामि ॥३॥
श्मशानेष्वाक्रोडा स्मरहर पिशाचा: सहचरा-
श्चितभस्माले: स्रगपि नृकरोटोपरिकर: ।
अमङ्गल्यं शीलं तव भवतु नामैकमाखलं
तथापि स्मर्तृणां वरद परमं मङ्गलमसि ॥४॥
त्रिनेत्राय नमस्तुभ्यं उमादेहार्धधारिणे ।
त्रिशूलधारिणे तुभ्यं भूतानां पतये नम: ॥५॥
गङ्गाधर नमस्तुभ्यं वृषध्वज नमोऽस्तु ते ।
आशुतोष नमस्तुभ्यं भूयो भूयो नमो नम: ॥६॥

क्षमा-प्रार्थना
मन्त्रहीनं कियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥१॥
आवाहनं न जानामि न जानामि तवार्चनम् ।
पूजां चैव न जानामि क्षमस्व परमेश्वर ॥२॥
पोपोऽहं पापकर्माऽहं पापात्मा पापसम्भव: ।
त्राहि मां पार्वतीनाथ सर्वपापहरो भव ॥३॥
अपराधसहस्त्राणि कियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥४॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥५॥

पश्चात् निम्नांकित वाक्य कह कर यह पूजन कर्म भगवान्‌को समर्पित करें---
 
अनेन यथाशक्तिकृतेन पूजनेन श्रीसाम्बसदाशिव: प्रीयतां न मम ।

इति शिवपूजनविधि: ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP