विधीः - आदित्यहृदयस्तोत्रम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान, पूजा, संध्या, देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


अथ आदित्यहृदयस्तोत्रम्

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो द्दष्ट्वा युद्धाय समुपस्थितम् ॥१॥
देवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपागम्याव्रवीद्राममगस्त्यो भगवांस्तदा ॥२॥
राम राम महावाहो श्रृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥३॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जपावहं जपन्नित्यमक्षयं परमं शिवम् ॥४॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥५॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥६॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: ।
एष देवासुरगणांल्लोकान् पाति गभस्तिभि: ॥७॥
एष ब्रह्मा च विष्णुश्च शिव: स्कन्ध: प्रजापति: ।
महेन्द्रो धनद: कालो यम: सोमो ह्यपापति: ॥८॥
पितरो वसव: साध्या अश्विनौ मरुतो मनु: ।
वायुर्वह्नि: प्रजा: प्राण ऋतुकर्ता प्रभाकर: ॥९॥
आदित्य: सविता सूर्य: खग: पूषा: गभस्तिमान् ।
सुर्वणसद्दशो भानुर्हिरण्यरेता दिवाकर: ॥१०॥
हरिदश्व: सहस्रार्चि: सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डर्कोऽशुमान् ॥११॥
हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: ।
अग्निगर्भोऽदिते: पुत्र: शङ्ख: शिशिरनाशन: ॥१२॥
व्योमनाथस्तमोभेदी ऋग्यजु: सामपारग: ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गम: ॥१३॥
आतपी मण्डली मृत्यु: पिङ्गल: सर्वतापन: ।
कविर्विश्वो महातेजारक्त: सर्वभवोद्भव: ॥१४॥
नक्षत्रग्रहताराणामधिपो विश्वभावन: ।
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥१५॥
नम: पूर्वाय गिरये पश्चिमायाद्रवे नम: ।
ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥१६॥
जयाय जयभद्राय हर्यश्वाय नमो नम: ।
नमो नम: सहस्रांशो आदित्याय नमो नम: ॥१७॥
नम: उग्राय वीराय सारङ्गाय नमो नम: ।
नम: पद्यप्रवोधाय प्रचण्डाय नमोऽस्तु ते ॥१८॥
ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥१९॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥२०॥
तप्तचामीकराभाय हरये विश्वकर्मणे ।
नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१॥
नाशयत्येष वै भूतं तमेव सृजति प्रभु: ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥२२॥
एप सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: ।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥२३॥
देवाश्च क्रतवश्चैष क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभु: ॥२४॥
एवमापत्सु कृच्छेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुष: कश्चिन्नावसीदति राघव ॥२५॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यति ॥२६॥
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥२७॥
एतच्छुत्वा महातेजा नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतो राघव: प्रयतात्मवान् ॥२८॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥२९॥
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत् ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥३०॥
अथरविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्तरेति ॥३१॥

इति वाल्मीकीयरामायणोक्तं आदित्यहृदयस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP