संस्कृत सूची|संस्कृत स्तोत्र साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|उच्चावचप्रवाहवीचयः| सुभाषित २२४१ - २२६० उच्चावचप्रवाहवीचयः उच्चावचप्रवाहवीचयः सुभाषित २००१ - २०२० सुभाषित २०२१ - २०४० सुभाषित २०४१ - २०६० सुभाषित २०६१ - २०८० सुभाषित २०८१ - २१०० सुभाषित २१०१ - २१२० सुभाषित २१२१ - २१४० सुभाषित २१४१ - २१६० सुभाषित २१६१ - २१८० सुभाषित २१८१ - २२०० सुभाषित २२०१ - २२२० सुभाषित २२२१ - २२४० सुभाषित २२४१ - २२६० सुभाषित २२६१ - २२८० सुभाषित २२८१ - २३०० सुभाषित २३०१ - २३२० सुभाषित २३२१ - २३४० सुभाषित २३४१ - २३६० सुभाषित २३६१ - २३८० उच्चावचप्रवाहवीचयः - सुभाषित २२४१ - २२६० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २२४१ - २२६० Translation - भाषांतर ४९. तद्गृहिणी अद्याशनं शिशुजनस्य बलेन जातं श्वो वा कथं नु भवितेति विचिन्तयन्ती ।इत्यश्रुपातमलिनीकृतगण्डदेशा नेच्छेद्दरिद्रगृहिणी रजनीविरामम् ॥२२४१॥ कस्यचित। (सु.र. १३११)यावद्दुःखकुटुम्बिनीकरतलस्पर्शात्समालोकतेतत्तत्क्षुद्रकणादिरक्षणधिया घोरं घने वर्षति ।तावज्जीर्णकुटीरकोटरविशत्सौदामिनीदीपितंदृष्ट्वा तूलकजालमाबिलजलाकीर्णं मुहुर्मूर्च्छति ॥२२४२॥योगेश्वरस्य ।कुम्भीसंचिततण्डुलाः प्रतिदिनं नीताः क्षयं मूषिकैर्वास्तुष्वेव पिशङ्गितोदरतलाः शीर्यन्ति वार्ताकवः ।जीर्णं जालकमारनालपिठरीगर्भे च काकारवंदीनायाः पथिकस्त्रियाः प्रियतमप्रत्यागमाकाङ्क्षया ॥२२४३॥नीलस्य ।वैराग्यैकसमुन्नता तनुतनुः शीर्णाम्बरं बिभ्रतीक्षुत्क्षामेक्षणकुक्षिभिश्च शिशुभिर्भोक्तुं समभ्यर्थिता ।दीना दुःस्थकुटुम्बिनी प्रविगलद्बाष्पाम्बुधौताननाप्य्एकं तण्डुलमानकं दिनशतं नेतुं समाकाङ्क्षति ॥२२४४॥वीरस्य ।सक्तूञ् शोचति संप्लुतान्प्रतिकरोत्याक्रन्दतो बालकान्प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति ।दत्त्वा मूर्ध्नि विशीर्णशूर्पशकलं जीर्णे गृहे व्याकुलाकिं तद्यन्न करोति दुःस्थगृहिणी देवे भृशं वर्षति ॥२२४५॥लङ्गदत्तस्य । (सु.र. १३१२, योगेश्वरस्य; स्व३२०१)५०. तद्गृहं चलत्काष्ठं गलत्कुड्यमुत्तानतृणसंचयम् ।गण्डूपदार्थिमण्डूककीर्णं जीर्णं गृहं मम ॥२२४६॥कस्यचित।हस्तप्राप्यतृणोज्झिताः प्रतिपयोवृत्तिस्खलद्भित्तयोदूरालम्बितदारुदन्तुरमुखाः पर्यन्तवल्लीवृत्ताः ।वस्त्राभावविलीनसत्रपवधूर्दत्तार्गला निर्गिरस्त्यजन्ते चिरशून्यविभ्रमभृतो भिक्षाचरैर्मृद्गृहाः ॥२२४७॥कस्यचित।पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं नाथ ।विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥२२४८॥कस्यचित। (सु.र. १६४४, Sआह्.द्. ७.२०, १०.१३)धूमेन रिक्तमपि निर्भरबाष्पकारिदूरीकृतानलमपि प्रतिपन्नतापम् ।दैन्यातिशून्यमपि भूषितबन्धुवर्गं आश्चर्यमेव खलु खेदकरं गृहं नः ॥२२४९॥जलचन्द्रस्य ।उत्सन्नच्छदिरुच्छ्वसद्वृति गलद्भित्ति स्खलन्मण्डलिभ्राम्यत्कुण्डलि हिण्डदाखु खुरलिप्रक्रीडिभेकावलि ।पञ्चच्चर्मचटौघपक्षतिपुटप्रारब्धभांभांकृतिश्रीमत्सेनकुलावतंस भवतः शत्रोरिवास्मद्गृहम् ॥२२५०॥ सोह्नोकस्य ।५१. जराएकगर्भोषिताः स्निग्धा मूर्ध्ना सत्कृत्य धारिताः ।केशा अपि विरज्यन्ते जरया किमुताङ्गनाः ॥२२५१॥ श्रीव्यासपादानाम् । (सु.र. १५२५)केशाः पाकमुपागत्âः शिथिलतामङ्गेऽप्यनङ्गो गतः सर्वाङ्गं बलिवेष्टितं प्रियतमा सभ्यं जनत्वं गता ।ये वान्ये गुणशालिनोऽपि सुहृदस्ते चापि याता दिवंतन्मां मुञ्च घनागमं व्रज वनं चेतः कुतः स्थीयते ॥तरणिकस्य ।केशाः काशनिभाः कपालफलके त्वग्भिस्तरङ्गायितंकाचेनोचिततारकेण खचिते पर्यश्रुणी लोचने ।अङ्गानामवसादितापि च गिरां कम्पस्तथाप्येष मेमोहः स्नेहमयो न मुञ्चति मनः कस्मै समावेद्यताम् ॥२२५३॥सुव्रतस्य ।शौर्याभिमानवनदावशिखे सुबद्धप्रस्थानवृत्तिमतिविभ्रममूलबन्धो ।मृत्योः पुरःसरबलध्वजवैजयन्तिमातर्जरे सततमस्तु नम भवत्यै ॥२२५४॥धर्मपालस्य ।दिग्विभ्रमं दशनखण्डनमङ्गभङ्गंकेशग्रहं रतिविधौ मदनादरं च ।श्वासप्रकम्पजडभावसुघूर्णितानि धत्ते जरा प्रणयिनीव मयोपगूढा ॥२२५५॥कस्यचित।५२. वृद्धःस्वस्ति सुखेभ्यः संप्रति सलिलाञ्जलिरेष मन्मथकथायाः ।ता अपि मामतिवयसं तरलदृशः सरलमीक्षन्ते ॥२२५६॥शतानन्दस्य । (स्व३३९५, सु.र. १५२२)आक्रान्तं वलिभिः प्रसह्य पलितैरत्यन्तमास्कन्दितं वार्धक्यं श्लथसंधिबन्धनतया निःस्थाम निर्धाम च ।एतन्मे वपुरस्थिकेवलजरत्कङ्कालमालोकय स्थूलशिराकरालपरुषत्वङ्मात्रपात्रीकृतम् ॥२२५७॥ दङ्कस्य ।गलितं यौवनमधुना वनमधुना सेवनीयमस्माकम् ।स्फुरदुरुहारमणीनां हारमणीनां गतः कालः ॥२२५८॥कस्यचित।स्थूलप्रावरणोऽतिवृत्तकथनः कासाश्रुलालाविलोभुग्नाङ्घ्रित्रिकपृष्ठजानुजघनो मुग्धोऽतिथीन्वारयन।शृण्वन्धृष्टवधूवचांसि धनुषा संत्रासयन्वायसान्आशापाशनिबद्धजीवविहगो वृद्धो गृहे ग्लायति ॥२२५९॥कस्यचित। (Sस्२.२९)विकासयति लोचने स्पृशति पाणिना कुञ्चितेविदूरमवलोकयत्यतिसमीपसंस्थं पुनः ।बहिर्व्रजति सातपे स्मरति नेत्रवृत्तेः पुरा जराप्रमुखसंस्थितः समवलोकयन्पुस्तकम् ॥२२६०॥कस्यचित। (सु.र. ११७९) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP