संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|उच्चावचप्रवाहवीचयः| सुभाषित २०६१ - २०८० उच्चावचप्रवाहवीचयः उच्चावचप्रवाहवीचयः सुभाषित २००१ - २०२० सुभाषित २०२१ - २०४० सुभाषित २०४१ - २०६० सुभाषित २०६१ - २०८० सुभाषित २०८१ - २१०० सुभाषित २१०१ - २१२० सुभाषित २१२१ - २१४० सुभाषित २१४१ - २१६० सुभाषित २१६१ - २१८० सुभाषित २१८१ - २२०० सुभाषित २२०१ - २२२० सुभाषित २२२१ - २२४० सुभाषित २२४१ - २२६० सुभाषित २२६१ - २२८० सुभाषित २२८१ - २३०० सुभाषित २३०१ - २३२० सुभाषित २३२१ - २३४० सुभाषित २३४१ - २३६० सुभाषित २३६१ - २३८० उच्चावचप्रवाहवीचयः - सुभाषित २०६१ - २०८० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २०६१ - २०८० Translation - भाषांतर १३. प्रशस्त तडागः भ्राम्यद्भृङ्गालिदोलाविदलितकुमुदामोदमेदस्विवातोद्वेल्लत्कल्लोलमालाचलकमलकराकूतहूताध्वनीनाः ।पाथोनाथोपहासोल्लसितरदाकारविस्फारफेनास्तेनाख्यन्यन्त दन्तद्युतिविशदयशो हंसनीडास्तडागाः ॥२०६१॥भट्टनारायणस्य ।तेनाखानि जलावगाहनरसव्यासक्तपौराङ्गनापर्यस्यत्कवरीविकीर्णकुसुमस्मेरोर्मिमालं सरः ।यस्मिन्नच्छतया निधाय नयने मर्त्यैः सकौतूहलंलक्ष्यन्ते भुजगाधिराजनगरी वामभ्रुवां विभ्रमाः ॥२०६२॥उमापतिधरस्य । (स्व१०६.१)उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूरक्रोडक्रीडद्विजालीगरुदुदितमरुत्स्फालवाचालवीचिः ।एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमालीव्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः ॥२०६३॥कविपण्डितश्रीहर्षस्य । (ण्च्१२.१०१, सूक्तिमुक्तावलि १०६.३)तडागास्ते नानानिलचपलपद्माकरलसद्रसक्षोदामोदाकुलमधुकरालीकवलिताः ।कृतास्तोयक्रीडाकुलकुवलयाक्षीकुचतटत्रुटद्वीचीवेल्लत्कुररकुलकोलाहलजुषः ॥२०६४॥विश्वेश्वरस्य ।अथायतनसंनिधौ भगवतो भवानीपतेर्मनोहरमचीखनद्भुवनभूषणं भूपतिः ।विगाहनकुतूहलोत्तरलपौरसीमन्तिनीपयोधरभरत्रुटद्विकटवीचिमुद्रं सरः ॥२०६५॥वसुकल्पस्य ।१४. चक्रवाकःतीरात्तीरमुपैति रौति करुणं चिन्तां समालम्बतेकान्तां ध्यायति निश्चलेन मनसा योगीव युक्तेक्षणः ।स्वच्चायामवलोक्य कूजति पुनः कान्तेति हृष्टः खगोधन्यास्ते खलु ये विमुक्तविषयाः कष्टं परं सङ्गिनाम् ॥२०६६॥कस्यचित।लीलाम्भोरुहकाननेन विशति ध्वान्तोत्कराशङ्कयास्वक्रीडोच्छलिताश्च वारिकणिकास्ताराभ्रमात्पश्यति ।सत्रासं मुहुरीक्षते च चकितो हंसं हिमांशुभ्रमान्न स्वास्थ्यं भजते दिवापि विरहाशङ्की रथाङ्गाह्वयः ॥२०६७॥धर्मपालस्य ।मित्रे क्वापि गते सरोरुहवने बद्धानने क्लाम्यतिक्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टान्पुरः सारसान।चक्राह्वाण वियोगिना विसलता नोत्खण्डिता नोज्झितावक्त्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥२०६८॥युवसेनस्य ।एह्यालिङ्ग त्वरयति मनो दुर्बला वासरश्रीर्आश्लिष्टासि क्षपय रजनीमेकिका चक्रवाकि ।नान्यासक्तो न खलु कुपितो नानुरागच्युतो वादैवाधीनः सपदि भवतीमस्वतन्त्रस्त्यजामि ॥२०६९॥भानोः ।भङ्क्त्वा भीतो न भुङ्क्ते कुटिलविसलताकोटिमिन्दोर्वितर्कात्ताराकारास्तृषार्तो न पिबति पयसां विप्रुषः पत्रसंस्थाः ।छायाम्भोरुहाणामलिकुलशबलां वेत्ति सन्ध्यामसन्ध्यांकान्ताविच्छेदभीरुर्दिनमपि रजनीं मन्यते चक्रवाकः ॥२०७०॥रजकसरस्वत्याः ।१५. चक्रवाकी आवेपते भ्रमति सर्पति मोहमेतिकान्तं विलोकयति कूजति दीनदीनम् ।अस्तं हि भानुमति गच्छति चक्रवाकीहा जीवितेऽपि मरणं प्रियविप्रयोगः ॥२०७१॥कस्यचित। (स्व१९१४)न कुरु काकुरुतैर्विकलं शुचोजहिहि पालय बालकुटुम्बकम् ।सखि रथाङ्गकुटुम्बिनि तद्विधेव्यतिकरे किमिदं परिभाव्यते ॥२०७२॥गोसोकस्य ।पक्षावुत्क्षिपति क्षितौ निपतति क्रोडे नखैरुल्लिखत्य्उद्बाष्पेण च चक्षुषा सहचरं ध्यात्वा मुहुर्वीक्षते ।चक्राह्वा दिवसावसानसमये तत्तत्करोत्याकुला येनालोहितमण्डलोऽपि कृपया यात्येष नास्तं रविः ॥२०७३॥साहसाङ्कस्य ॥ (स्व१९२१)एकेनार्कं हुतवहशिखापाटलेनास्तसंस्थंपश्यत्यक्ष्णा सजललुलितेनापरेण स्वकान्तम् ।अह्नश्छेदे दयितविरहा शङ्किनी चक्रवाकीद्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥२०७४॥ मधोः । (स.क.आ. ५.४९५; द.रू. उन्देर्४.३४) सूर्ये चास्तमुपागते कमलिनीपण्डे च निद्रालसेचक्री कान्तवियोगदुःसहशिखिज्वालावलीताडिता ।प्रत्युत्कूजति मूर्च्छति श्वसिति च व्याघूर्णने ताम्यतिभ्राम्यत्युद्वमति क्षमामिव निजप्राणान्मुहुर्निन्दति ॥२०७५॥१६. दिशःअमरयुवतिगीतोद्ग्रीवसारङ्गशृङ्गोल्लिखितशशिसुधाम्भःशाद्वलारामरम्याम् ।सुरपतिगजगण्डस्रंसिदानाम्बुधारा प्रसवसुरभिमाशां वासवीयां नमामि ॥२०७६॥ उमापतिधरस्य ।सेयं मेकलमेखलानिलदलद्वीचीनदन्नर्मदाकेषां नाम न लोचनश्रवणयोर्दिग्दक्षिणा प्रीणनम् ।काञ्चीपत्तनकामिनीनयनयोरावर्जिता विभ्रमैर्अध्वन्याः क इवापरे मुनिरतोऽगस्त्योऽपि नावर्तते ॥२०७७॥आचार्यगोपीकस्य ।वेलाशैलशयालुमांसलशिलाशालूकमज्जत्पयोवाहव्यूहवराहविभ्रमवती प्रीणाति दिग्वारुणी ।अस्यां कुड्मलयन्करान्परिहरन्नाशास्त्यजन्पद्मिनीर्विभ्रत्काञ्चनरागमम्बरमणिः सर्वात्मना लीयते ॥२०७८॥तस्यैव ।अस्तु स्वस्त्ययनाय दिग्धनपते कैलासशैलाश्रयश्रीकण्ठाभरणेन्दुविभ्रमदिवानक्तंभ्रमत्कौमुदी ।यत्रालं नलकूबराभिसरणारम्भाय रम्भास्फुरत्पाण्डिम्नैव तनोस्तनोति विरहव्यग्रापि वेशग्रहम् ॥२०७९॥ जयदेवस्य ।प्राचीमभ्रेभकुम्भस्तनकलसलसन्मौलिकामिन्द्रपद्मींश्रीखण्डक्षोदलेखा दरखचितमुखीं काककान्तामवाचीम् ।सन्ध्यासिन्दूरमुग्धामुदकपरिवृढप्रेयसीं च प्रतीचींवन्दे यक्षेन्द्रजायां तरलसुरसरित्तारहारामुदीचीम् ॥२०८०॥जलचन्द्रस्य । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP