संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|उच्चावचप्रवाहवीचयः| सुभाषित २०४१ - २०६० उच्चावचप्रवाहवीचयः उच्चावचप्रवाहवीचयः सुभाषित २००१ - २०२० सुभाषित २०२१ - २०४० सुभाषित २०४१ - २०६० सुभाषित २०६१ - २०८० सुभाषित २०८१ - २१०० सुभाषित २१०१ - २१२० सुभाषित २१२१ - २१४० सुभाषित २१४१ - २१६० सुभाषित २१६१ - २१८० सुभाषित २१८१ - २२०० सुभाषित २२०१ - २२२० सुभाषित २२२१ - २२४० सुभाषित २२४१ - २२६० सुभाषित २२६१ - २२८० सुभाषित २२८१ - २३०० सुभाषित २३०१ - २३२० सुभाषित २३२१ - २३४० सुभाषित २३४१ - २३६० सुभाषित २३६१ - २३८० उच्चावचप्रवाहवीचयः - सुभाषित २०४१ - २०६० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २०४१ - २०६० Translation - भाषांतर ९. अटवीप्रत्यासन्नसरांसि कोकिलवधूलीलासुहृदिच्छदच्छायालिप्तककुम्भि कोरकहसद्वीरुन्धि विन्ध्याटवी ।अन्तर्दत्तमनोजरुञ्जि रुचिरक्ष्मारुंहि भृङ्गाकुलत्त्वङ्नद्धाम्पि लतागृहाणि दधती कांचिन्मुचं यच्छति ॥२०४१॥मधोः ।मिथः क्रीडत्कोडावलिविलसितोत्खाततटिनीतटी क्षुब्धोद्गर्जद्गजगहनगर्भेयमटवी ।गुहाभिर्व्याघ्राणां जरदजगरग्राससरुषांघटत्कारं घोरं प्रतिरववहाभिर्द्रढयति ॥२०४२॥कस्यचित।सर्पश्वासमरुत्तरङ्गतरलाः क्वापि क्वचिच्छ्वापदस्फारोद्गीर्णगिरो निरन्तरतमस्तारुण्यमग्नाः क्वचित।क्वापि क्रूरकृशानुदुर्मुखकथाशेषीकृतक्ष्मारुहश्चेतः सम्प्रति कम्पयन्ति परितो गम्भीरभीमा भुवः ॥२०४३॥जलचन्द्रस्य ।क्षुण्णक्ष्मारुहवीथयो विदलितग्रावोपलग्रन्थयःसिंहस्वीकृतमत्तवारणवधूबद्धार्तकोलाहलाः ।एताः पल्लवयन्ति चेतसि भयं भल्लूकहिक्कारवैर्आतङ्कात्पतयालुबालहरिणीगर्भाबिला भूमयः ॥२०४४॥तस्यैव ।इह महिषविषाणव्यस्तपाषाणपीठस्खलनसुलभरोहिद्गर्भिणीभ्रूणहत्याः ।कुहरविहरमाणप्रौढभल्लूकहिक्काचयचकितकिरातस्रस्तशस्त्रा वनान्ताः ॥२०४५॥मुरारेः । (आर्५.२०)१०. नदीभान्त्येताः शैवलिन्यो वनमहिषखुरक्षुण्णपाठीनपृष्ठग्रासव्यग्रोद्रवृन्दप्रविरलचरणन्यासमुद्राङ्कपङ्काः ।निःशङ्कोद्भ्रान्तकङ्कत्रसदुरगवधूसम्भ्रमोत्फालमूर्च्छद्भेकार्तस्वानदीर्घीकृतरवविरसत्कीचकग्रन्थिरन्ध्राः ॥२०४६॥कस्यचित।व्यक्तव्याघ्रपदाङ्कपङ्क्तिनिचितोन्मुद्रार्द्रपङ्कोदरास्तोयोत्तीर्णनिवृत्तनक्रजठरक्षुण्णस्थलीबालुकाः ।सान्द्रस्थूलनलोपरोधविषमाः शङ्क्यावताराः पुरःसंत्रासं जनयन्ति कुञ्जसरितः काचाभह्नीलोदकाः ॥२०४७॥कस्यचित्(सु.र. २८१)अन्तर्मग्नकरेणवः कलभकव्यारुग्णकन्दाङ्कुरैः सामोदाः परितः प्रमत्तमहिषश्वासोल्लसद्वीचयः ।संमोदं जनयन्ति शैलसरितः सुच्छायकच्छस्थलीसीमानो जलसेकशीतलशिलानिद्राणरोहिद्गणाः ॥२०४८॥जलचन्द्रस्य । जलरयदलत्कूलोत्सङ्गाः प्रलम्बिलतागृहस्तिमितगतिभिर्वेणीबन्धैर्विशृङ्खलवीचयः ।स्थपुटितशिलासोपानेषु प्रकामतरङ्गिताः शिखरिसरितो नेत्रानन्दं किरन्ति समन्ततः ॥२०४९॥तस्यैव ।वीचीसंक्रमदन्तुराः कलरवैर्वाचालिताः सारसैर्आनन्दं जनयन्ति पूरगरिमोत्तानीभवद्बालुकाः ।भ्रान्तागन्तुकराजहंसपरिषत्पादाङ्कमुद्राभृतः प्रस्थक्ष्मारुहतल्पसुप्तकुरराः स्रोतस्वतीभूमयः ॥२०५०॥११. विशेषनदीकूजद्भिर्वनकुक्कुभिर्मदकलं वाचालतीरद्रुमाबिभ्राणा विकचाब्जकेशररजःपिङ्गास्तरङ्गावलीः ।स्रोतःक्ष्माविपाण्डुसैकतसुखासीना रसत्सारसाधन्येयं तमसा नदी हरति मे दृष्टापि मार्गश्रमम् ॥२०५१॥एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशःसंत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः ।लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरितत्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ॥२०५२॥कस्यापि (सु.र. १६५६)मज्जन्मातङ्गहस्तच्युतमदमदिरामोदमत्तालिजालंस्नानैः सिद्धाङ्गनानां कुचयुगविलसत्कुङ्कुमासङ्गपिङ्गम् ।सायं प्रातर्मुनीनां कुशकुसुमचयच्छन्नतीरस्थलीकंपायाद्वो नर्मदाम्भः करिकरमकराक्लान्तरंहस्तरङ्गम् ॥२०५३॥छित्तपस्य ।इयं सा कालिन्दी कुवलयदलस्निग्धमधुरामदान्धव्याकूजतरलजलरङ्कुप्रणयिनी ।पुरा यस्यास्तीरे सरभससतृष्णं मुरभिदोगताः प्रायो गोपीनिधुवनविनोदेन दिवसाः ॥२०५४॥ शरणस्य । (पद्या. ३४३, दशरथस्य)इदं तत्कालिन्दीपुलिनमिह कंसासुरभिदोयशः शृण्वद्वक्त्रस्खलितकवलं गोकुलमभूत।भ्रमद्वेणुक्वाणश्रवणमसृणोत्तारमधुरस्वराभिर्गोपीभिर्दिशि दिशि समुद्घूर्णमनिशम् ॥२०५५॥ केशटस्य । (पद्या. ३४५, मोटकस्य)१२. तडागः अविरतमधुपानागारमिन्दिन्दिराणां अभिसरणनिकुञ्जं राजहंसीकुलस्य ।प्रविततबहुशालं सद्म पद्मालयाया वितरति रतिमक्ष्णोरेष लीलातडागः ॥२०५६॥श्रीमल्लक्ष्मणसेनदेवस्य ।वीचीसमीरधुतकाञ्चनपुण्डरीकपर्यस्तकेशरपरागपिशङ्गिताम्भः ।अच्छोदमैक्षत स देवपुरन्ध्रिपादलाक्षारुणीकृतशिलातलतीरलेखम् ॥२०५७॥रत्नाकरस्य ।मदतरलमरालप्रेयसीचञ्चकोटिक्रकचविदलितानि व्यक्तमिन्दीवराणि ।निविडयति तडागे यत्र लीलावतीनांकुवलयदलदामश्यामलो दृष्टिपातः ॥२०५८॥जलचन्द्रस्य ।लुठद्वीचीमौलिः परिपतति पूर्वं चरणयोर्अथोरू गृह्णाति स्पृशति जघनाभोगमभितः ।करौ धत्ते मध्यं कलयति समाश्लिष्यति कुचाकचानप्यादत्ते प्रिय इव तडागो मृगदृशाम् ॥२०५९॥गोवर्धनस्य ।एतन्मानिनि मानसं सुरसरो निर्लूनहेमाम्बुजंपार्वत्या प्रियपूजनार्थममुतो गङ्गासरिन्निर्गता ।अस्माच्चित्रशिखण्डिभिश्च परमे पर्वण्युपादीयतेस्नानोत्तीर्णवृषाङ्कभस्मरजसां सङ्गात्पवित्रं पयः ॥२०६०॥राजशेखरस्य । (बा.रा. १०.३५) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP