उच्चावचप्रवाहवीचयः - सुभाषित २१२१ - २१४०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
२५. कविः
त्रैलोक्यमुदरे विष्णोस्तादृगेव व्यवस्थितम् ।
तादृगन्यादृगप्यस्ति हृदये तु महाकवेः ॥२१२१॥
वसुकल्पस्य ।
यन्नेत्रैस्त्रिभिरीक्षते न गिरिशो नाष्टाभिरप्यब्जभूः
सक्न्दो द्वादशभिस्तथा न मघवा चक्षुःसहस्रेण यत।
संभूयापि जगत्त्रयस्य नयनैर्द्रष्टुं न यत्पार्यते
प्रत्याहृत्य दृशौ समाहितधियः पश्यन्ति तत्पण्डिताः ॥२१२२॥
शालिकनाथस्य । (सु.र. १२४९)
उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं
सदा पान्थः पूषा गगनपरिमाणं कलयति ।
इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः
सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥२१२३॥
राजशेखरस्य । (बा.रा. १.८, स्व३२२, सा.द. उन्देर्७.४, सु.र. १२२३)
निधानं विद्यानां कुलगृहमपारस्य यशसः
कला सम्पद्रत्नव्रततिविटपानां सुरतरुः ।
शुचि क्षौणीन्द्राणां सुचरितकथादर्पणतलं
प्रकृत्या गम्भीरः कविरिति हि शब्दो विजयते ॥२१२४॥
कस्यचित।
॥२१२५॥ नास्त्यत्र श्लोकः ।
२६. नानाकवयः
बाणः सृष्टिमपूर्ववस्तुविषयामेकोऽत्र निर्व्यूढवान्
निष्णातः कविकुञ्जरेन्द्रचरिते मार्गे गिरां वा गुरुः ।
वेधा विन्ध्यपुलिन्दपामरवधूभूगोलझञ्झानिल
प्रायेऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः ॥२१२६॥
भवानन्दस्य । (सु.र. १६९९)
अस्तंगतभारविरवि कालवशात्कालिदासविधुविधुरम् ।
निर्वाणबाणदीपं जगदिदमद्योति रत्नेन ॥२१२७॥
भोजदेवस्य । (सु.र. १७०६)
बाणः प्राणिति केशटः स्फुटमसौ जागर्ति योगेश्वरः
प्रत्युज्जीवति राजशेखरगिरां सौरभ्यमुन्मीलति ।
येनायं कलिकालपुष्पधनुषो देवस्य शिक्षावशाद्
आकल्पं वसुकल्प एव वचसि प्रागल्भ्यमभ्यस्यति ॥२१२८॥
वसुकल्पस्य ।
उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा
यश्चीर्णः कमलायुधेन सुचिरं येनागमत्केशटः ।
यः श्रीवाक्पतिराजपादरजसां संपर्कपूतश्चिरं
दिष्ट्या श्लाघ्यगुणस्य कस्यचिदसौ मार्गः समुन्मीलति ॥२१२९॥
अभिनन्दस्य । (सु.र. १७३३)
सुबन्धौ भक्तिर्नः क इह रघुकारे न रमते
धृतिर्दाक्षीपुत्रे हरति हरिचन्द्रोऽपि हृदयम् ।
विशुद्धोक्तिः शूरः प्रकृतिमधुरा भावविगिरस्
तथाप्यन्तर्मोदं कमपि भवभूतिर्वितनुते ॥२१३०॥
कस्यचित। (सु.र. १६९८)
२७. प्रत्येककविः
विकचकुमुदक्रीडक्रीडन्मधुव्रतझाङ्कृतीर्
मदकलकुहूकण्ठोत्कण्ठाविपञ्चितपञ्चमाम् ।
अभिनववधूप्रेमालापादपि श्रुतिसंमदं
विदधति कवेर्दङ्कस्यैताः सुधामधुरा गिरः ॥२१३१॥
दङ्कस्य ।
प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने
प्रसत्तौ गाम्भीर्ये रसवति च काव्यार्थरचने ।
अगम्यायामन्यैर्दिशि परिणतैरर्थवचसोर्
मतं चेदस्माकं कविरमरसिंहो विजयते ॥२१३२॥
शालिकनाथस्य । (सु.र. १७२४)
पातु कर्णरसायनं रचयितुं वाचः सतां संमता
व्युत्पत्तिं परमामवाप्तुमवधिं लब्धुं रसस्रोतसः ।
भोक्तुं स्वादु फलं च जीविततरोर्यद्यस्ति ते कौतुकं
तद्भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दनीः ॥२१३३॥
शङ्करवर्मणः । (बा.रा. १.१७, वि.शा.भ. १.१७, सु.र. १७००)
धिग्धिक्तान्समयान्परिश्रमरुजो वक्तुं गिरो नीरसा
यत्रामूर्निपतन्ति वल्लणगुणोत्खातामृतप्रीतयः ।
रोम्णां नृत्यभुवो विलोचनपयःपूराब्धिचन्द्रोदयाः
साहित्यप्रतिगण्डगर्वगलनं ग्लानिक्रियाहेतवः ॥२१३४॥
वल्लणस्य । (सु.र. १७०३)
देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः ।
आब्धर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीर्ताम्
आपातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ॥२१३५॥
मुरारेः । (Kउवल्, प्. ५८; सु.र. १७०१)
२८. मनस्विकविः
विन्यस्ता विकचप्रसूनघटनाचार्येण कण्ठोचिता
मालेयं भुजगभ्रमेण भवता जन्मान्ध किं धूयते ।
एतस्याः क्षतिरस्तु नाम कियती संवीतहासोद्गमास्
त्वामन्योन्यकरार्पणप्रणयिनः पश्यन्ति विश्वे जनाः ॥२१३६॥
जलचन्द्रस्य ।
अवधेहि क्षणमेहि भ्रातर्भावज्ञ भावय गिरं नः ।
चरमे चकास्ति चेतसि मूकस्वप्नोपमो भावः ॥२१३७॥
गोसोकस्य ।
स्तम्भावधेहि निमिषं पठामि सूक्तीः स्वचित्तनिर्वृत्तये ।
मा बुध्यस्व न तावद्वागुल्काभिः कदर्थयसि ॥२१३८॥
वल्लणस्य ।
श्रीमद्भिर्द्रविणव्ययव्यतिकरक्लेशादवज्ञायसे
द्वेषान्भःपरिपूर्णकर्णकुहरैर्नाकर्ण्यसे सूरिभिः ।
इत्थं व्यर्थितवाञ्छितेषु हि मुधैवास्मासु किं खिद्यसे
मातः काव्यसुधे कथं क्व भवतीमुन्मुद्रयामो वयम् ॥२१३९॥
तस्यैव ।
अर्वाचीनवचः प्रपञ्चसुखिनां दुःशिक्षितानां पुरो
गम्भीरं कविपुङ्गवस्य किमहो सर्वस्वमुद्धाट्यते ।
व्यर्थं कर्दमगन्धगौरवहृतग्रामीणगोष्ठीमुखे
कोऽयं नाम सचेतनोऽस्ति य इह प्रस्तौति कस्तूरिकाम् ॥२१४०॥
तस्यैव ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP