संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नारायणीय| भाग १ नारायणीय भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ नारायणीय - भाग १ "नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते. Tags : epicnarayan bhattapoemकाव्यनारायणभट्टनारायणीयमहाकाव्यसंस्कृत भाग १ Translation - भाषांतर १-१-१-१ सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां१-१-१-२ निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानं ।१-१-१-३ अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्त्वं१-१-१-४ तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानां ॥१-१-२-१ एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्१-१-२-२ तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयं ।१-१-२-३ एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै१-१-२-४ निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥१-१-३-१ सत्त्वं यत्तत्पुराभ्यामपरिकलनतो मिर्मलं तेन तावद्१-१-३-२ भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यं ।१-१-३-३ तत्स्वच्छत्वाद्यदच्छादितपरसुखचिद्जर्भनिर्भासरूपं१-१-३-४ तस्मिन्धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥१-१-४-१ निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे१-१-४-२ निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।१-१-४-३ कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा१-१-४-४ कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन्! ॥१-१-५-१ निर्व्यापारोऽपि निष्कारणमज! भजसे यत्क्रियामीक्षणाख्यां१-१-५-२ तेनैवोदेति लीना प्रकृतिरसतिकल्पापि कल्पादिकाले ।१-१-५-३ तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं१-१-५-४ स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ! वैकुण्टःअ! रूपं ॥१-१-६-१ तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं१-१-६-२ लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारं ।१-१-६-३ लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दोहमन्तः१-१-६-४ सिञ्चत्सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ! ॥१-१-७-१ कष्ता ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजामित्येवं१-१-७-२ पूर्वमालोचितमजित! मया नैवमद्याभिजाने ।१-१-७-३ नो चेज्जीवाः कथं वा सधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं१-१-७-४ नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥१-१-८-१ नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान्१-१-८-२ कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च ।१-१-८-३ इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे! त्वं१-१-८-४ क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयं ॥१-१-९-१ कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-१-१-९-२ दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वं ।१-१-९-३ त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्त्वं१-१-९-४ चात्मारां एवेत्यतुलगुणगणाधार! शौरे! नमस्ते ॥१-१-१०-१ एश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां१-१-१०-२ तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतं ।१-१-१०-३ अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता१-१-१०-४ तद्वातागारवासिन्! मुरहर! भगवच्छब्दमुख्याश्रयोऽसि ॥१-२-१-१ सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं१-२-१-२ कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटं ।१-२-१-३ गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं१-२-१-४ त्वद्रूपं वनमाल्यहीरपटलश्रीवत्सदीप्रं भजे ॥१-२-२-१ केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कितश्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहां ।१-२-२-२ काञ्चित्काञ्चिनकाञ्चिलाच्छितलसत्पीताम्बरालम्बिनीमालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदं ॥१-२-३-१ यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्१-२-३-२ कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।१-२-३-३ सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽप्याश्चर्यं१-२-३-४ भुवने न कस्य कुतुकं पुष्णाति विष्णो! विभो! ॥१-२-४-१ तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी१-२-४-२ सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।१-२-४-३ तेनास्या बत कष्टमच्युत्! विभो! त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥१-२-५-१ लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरेत्१-२-५-२ यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते! ।१-२-५-३ ये त्वद्ध्य्नगुणानुकीर्तनरसासक्ता हि भक्ता जनास्१-२-५-४ तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥१-२-६-१ एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं१-२-६-२ त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वतां ।१-२-६-३ सद्यः प्रेरयते मतिं मदयते र्ॐआञ्चयत्य्ङ्गकं१-२-६-४ व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥१-२-७-१ एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत्१-२-७-२ कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते ।१-२-७-३ सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका१-२-७-४ भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लम्! ॥१-२-८-१ निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं१-२-८-२ तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः ।१-२-८-३ तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो!१-२-८-४ त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ॥१-२-९-१ अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला १-२-९-२ बोधे भक्तिपथेऽथवाप्युविततामायान्ति किं तावता ।१-२-९-३ क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुनश्१-२-९-४ चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥१-२-१०-१ त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं१-२-१०-२ सिध्यन्ति विमलप्रषोधपदवीमक्लेशतस्तन्वती ।१-२-१०-३ सद्यः सिद्धिकरी जयत्ययि विभो! सैवास्तु मे त्वत्पद-१-२-१०-४ प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर! ॥१-३-१-१ पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः१-३-१-२ स्मरन्तो रूपं ते वरद! कठयन्तो गुणकठाः ।१-३-१-३ चरन्तो ये भक्तास्त्वपि खलु रमन्ते परममु-१-३-१-४ नहं धन्यान्मन्ये समधिगतसर्वाभिलषितान् ॥१-३-२-१ गदक्लिष्टं कष्टं तव चरणसेवारसभरे-१-३-२-२ऽप्यनासक्तं चित्तं भवति बत विष्णो! कुरु दयां ।१-३-२-३ भवत्पादाम्भोजस्मरणरसिको नामनिवहा-१-३-२-४ नहं गायंगायं कुहचन विवत्स्यामि विजने ॥१-३-३-१ कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां१-३-३-२ मदीयक्लेशौघप्रशमनदशा नाम कियती ।१-३-३-३ न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता१-३-३-४ भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥१-३-४-१ मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो१-३-४-२ भवत्पादाम्भोजस्मरणविरुजो नारद्मुखाः ।१-३-४-३ चरन्तीश्! स्वैरं सततपरिनिर्भातपरचित्-१-३-४-४ सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरं ॥१-३-५-१ भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये-१-३-५-२ दशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।१-३-५-३ न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो१-३-५-४ भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलं ॥१-३-६-१ भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात्१-३-६-२ मिमप्यारूढा चेदखिलपरितापप्रशमनी ।१-३-६-३ पूनश्चान्ते स्वान्ते विमलपरि बोधोदयमिलन्१-३-६-४ महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरं ॥१-३-७-१ विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं१-३-७-२ भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ ।१-३-७-३ भवन्मूर्त्यालोके नयनमथ ते पादतुलसी-१-३-७-४ परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥१-३-८-१ प्रभूताधिव्याधिप्रसभवलिते मामकहृदि १-३-८-२ त्वदीयं तद्रूपं परमरसचिद्रूपमुदियात् ।१-३-८-३ उदञ्चद्र्ॐआञ्चो गलितबहुहर्षाश्रूनिवहो१-३-८-४ यथा विस्मर्यासं दुरुपशमपीडापरिभवन् ॥१-३-९-१ मरुद्गेहाधीश्! त्वयि खलु पराञ्चोऽपि सुखिनो१-३-९-२ भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदं ।१-३-९-३ अकीर्तिस्ते मा भूद्वरद! गदभारं प्रशमयन्१-३-९-४ भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन! ॥१-३-१०-१ किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदियादहं१-३-१०-२ तावद्देव! प्रहितविविधार्तप्रलपितः ।१-३-१०-३ पुरः क्लृप्ते पादे वरद! तव नेष्यामि दिवसान्१-३-१०-४ यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP