संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नारायणीय| भाग ५ नारायणीय भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ नारायणीय - भाग ५ "नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते. Tags : epicnarayan bhattapoemकाव्यनारायणभट्टनारायणीयमहाकाव्यसंस्कृत भाग ५ Translation - भाषांतर ५-२०-१-१ प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः ।५-२०-१-२ त्वां दृष्टवानिष्टदमिष्टमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥५-२०-२-१ अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः ।५-२०-२-२ स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते! ॥५-२०-३-१ नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूरृषभाभिधानः ।५-२०-३-२ अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥५-२०-४-१ त्वयि त्रिलोकीभृति राज्य्भारं निधाय नाभिः सह मेरुदेव्या ।५-२०-४-२ तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥५-२०-५-१ इन्द्रस्त्वदुत्कर्षकृतादमर्षाद्ववर्ष नास्मिन्नजनाभवर्षे ।५-२०-५-२ यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधाः सुवर्षं ॥५-२०-६-१ जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहन्नात्मरताशयोऽपि ।५-२०-६-२ अजीजनत्तत्र शतं तनूजान्येषां क्षितीषो भरतोऽग्रजन्मा ॥५-२०-७-१ नवाभवन्योगिवरा नवान्ये त्वपालयन्भारतवर्षखण्डान् ।५-२०-७-२ सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद्भूसुरभूयमीयुः ॥५-२०-८-१ उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गं ।५-२०-८-२ स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्यां ॥५-२०-९-१ परात्मभूतोऽपि परोपदेशं कुर्वन्भवन्सर्वनिरस्यमानः ।५-२०-९-२ विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥५-२०-१०-१ शयुव्रतं ग्ॐऋगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपं ।५-२०-१०-२ दवाहृताङ्गः कुटकाचले त्वं तापान्ममापाकुरु वातनाथ! ॥५-२१-१-१ मध्योद्भवओ भुव इलावृतनाम्रि वर्षे५-२१-१-२ गौरीप्रधानवनिताजनमात्रभाजि ।५-२१-१-३ शर्वेण मन्त्रनुतिभिः सुमुपास्यमानं५-२१-१-४ सङ्कर्षणात्मकमधीश्वर! सम्श्रये त्वां ॥५-२१-२-१ भद्राश्वनामक इलावृतपूर्ववर्षे५-२१-२-२ भद्रश्रवोभिरृषिभिः परिणूयमानं ।५-२१-२-३ कल्पान्तगूढनिगमोद्धरणप्रवीणं५-२१-२-४ ध्यायामि देव! हयशीर्षतनुं भवन्तं ॥५-२१-३-१ ध्यायामि दक्षिणगते हरिवर्षवर्षे५-२१-३-२ प्राह्लादमुख्यपुरुषैः परिषेव्यमाणं ।५-२१-३-३ उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध-५-२१-३-४ ज्ञानप्रदं नरहरिं भगवन्! भवन्तं ॥५-२१-४-१ वर्षे प्रतीचि ललितात्मनि केतुमाले५-२१-४-२ लीलाविशेषललितस्मितशोभनाङ्गं ।५-२१-४-३ लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं५-२१-४-४ तस्याः प्रियाय धृतकामतनुं भजे त्वां ॥५-२१-५-१ रम्येऽप्युदीचि खलु रम्यकनाम्रि वर्षे५-२१-५-२ तद्वर्षनाथमनुवर्य्सपर्यमाणं ।५-२१-५-३ भक्तैकवत्सलममत्सरहृत्सु भान्तं५-२१-५-४ मत्स्याकृतिं भुवननाथ! भजे भवन्तं ॥५-२१-६-१ वर्षं हिरण्मयसमाह्वयमौत्तराह-५-२१-६-२ मासीनमद्रिधृतिकर्मठकामठाङ्गं ।५-२१-६-३ संसेवते पितृगणप्रवरोऽर्यमायं५-२१-६-४ तं त्वां भजामि भगवन्! परचिन्मयात्मन्! ॥५-२१-७-१ किञ्चोत्तरेषु कुरुषु प्रियया धरण्या५-२१-७-२ संसेवितो महितमन्त्रनुतिप्रभेदैः ।५-२१-७-३ दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा५-२१-७-४ त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते! ॥५-२१-८-१ याम्यां दिशं भजति किम्पुरुषाख्यवर्षे ५-२१-८-२ संसेवितो हनुमता दृढभक्तिभाजा ।५-२१-८-३ सीताभिरामपरमाद्भुतरूपशाली५-२१-८-४ रामात्मकः परिलसन्परिपाहि विष्णो! ॥५-२१-९-१ श्रीनारदेन सह भारतखण्डमुख्यैस्५-२१-९-२ त्वं साङ्ख्ययोगनुतिभिः समुपास्यमानः ।५-२१-९-३ आकल्पकालमिह साधुजनाभिरक्सी५-२१-९-४ नारायणो नरसखः परिपाहि भूमन्! ॥५-२१-१०-१ प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं५-२१-१०-२ द्वीये भजन्ति कुशनामनि वह्निरूपं ।५-२१-१०-३ क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके५-२१-१०-४ त्वां ब्रह्मरूपमयि पुष्करनाम्रि लोकाः ॥५-२१-११-१ सर्वैर्ध्रुवीदिभिरुडुप्रकरैर्ग्रहैश्च५-२१-११-२ पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः ।५-२१-११-३ त्वं शिंशुमारवपुषा महतामुपास्यः५-२१-११-४ सन्ध्यासु रुन्धि नरकं मम सिन्धुशायैन्! ॥५-२१-१२-१ पातालमूलभुवि शेषतनुं भवन्तं५-२१-१२-२ लोलैककुण्डलविराजिसहस्रशीर्षं ।५-२१-१२-३ नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्-५-२१-१२-४ जुष्टं भजे हर गदान्गुरुगेहनाथ! ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP