संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नारायणीय| भाग २ नारायणीय भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ नारायणीय - भाग २ "नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते. Tags : epicnarayan bhattapoemकाव्यनारायणभट्टनारायणीयमहाकाव्यसंस्कृत भाग २ Translation - भाषांतर २-४-१-१ कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया ।२-४-१-२ स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयां ॥२-४-२-१ भ्रह्मचर्यदृढतादिभिर्यमैराप्ल्वादिनियमैश्च पाविताः ।२-४-२-२ कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥२-४-३-१ तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः ।२-४-३-२ इन्द्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखाः ॥२-४-४-१ अस्फुटे वपुषि प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः ।२-४-४-२ तेन भक्तिरसमन्तराद्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः ॥२-४-५-१ विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् ।२-४-५-२ अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥२-४-६-१ ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनां ।२-४-६-२ सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमयि! तेऽविभासते ॥२-४-७-१ तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक! ।२-४-७-२ आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकं ॥२-४-८-१ इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः ।२-४-८-२ मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥२-४-९-१ त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा ।ö२-४-९-२ योगवश्यमनिलं षडाश्रयैरुन्नयत्यज! सुषुम्णया शनैः ॥२-४-१०-१ लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः ।२-४-१०-२ ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥२-४-११-१ अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः ।२-४-११-२ प्रापितो रविपदं भवत्परो मोदवान्ध्रुवपदान्तमीयते ॥२-४-१२-१ आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते ।२-४-१२-२ ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥२-४-१३-१ तत्र वा तव पदेऽथवा वसन्प्राकृतप्रलय एति मुक्ततां ।२-४-१३-२ स्वेच्छया खलु पुरापि मुच्यते संचिभिद्य जगदण्डमोजसा ॥२-४-१४-१ तस्य च क्षितिपय्ॐअहोनिलद्य्ॐअहत्प्रकृतिसप्तकावृती ।२-४-१४-२ तत्तदात्मकतया विशन्सुखी याति ते पदमनावृतं विभो! ॥२-४-१५-१ अर्चिरादिगतिमीदृशीं व्रजन्विच्युतिं न भजते जगत्पते! ।२-४-१५-२ सच्चिदीत्मक! भवद्गुणोदयानुच्चरन्तमनिलेश! पाहि मां ॥२-५-१-१ व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये२-५-१-२ मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयं ।२-५-१-३ नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थिति-२-५-१-४ स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥२-५-२-१ कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो!२-५-२-२ चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः ।२-५-२-३ तेषां नैव वदन्त्यसत्त्वमयि भोः! शक्त्यात्मना तिष्ठताम्२-५-२-४ नो चेत्किं गगनप्रसुनसदृशां भूयो भवेत्सम्भवः ॥२-५-३-१ एवञ्च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां२-५-३-२ बिभ्राणे त्वयि चुक्षुमे त्रिभुवनीभावाय माया स्वयं ।२-५-३-३ मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च२-५-३-४ प्रादुर्भूय गुणान्विकास्य विदधुस्तस्याः सहायक्रियां ॥२-५-४-१ मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान्२-५-४-२ भेदैस्तां प्रतिबिम्बतो विविशिवान्जीवोऽपि नैवापरः ।२-५-४-३ कालादिप्रतिबोधिताथ भवता सञ्चोदिता च स्वयं२-५-४-४ माया सा खलु बुद्धितत्त्वमसृजद्योऽसौ महानुच्यते ॥२-५-५-१ तत्रासौ त्रिगुणात्मकोऽपि च महान्सत्त्वप्रधानः स्वयं२-५-५-२ जीवेऽस्मिन्खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः ।२-५-५-३ चक्रेऽ स्मिन्सविकल्पबोधकमहन्तत्त्वं महान्खल्वसु२-५-५-४ संपुष्टं त्रिगुणैस्तमोतिबहुलं विष्णो! भवत्प्रेरणात् ॥२-५-६-१ सोऽहं च त्रिगुणक्रमात्त्रिविधतामासाद्यवैकारिको२-५-६-२ भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना ।२-५-६-३ देवानिद्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो२-५-६-४ वह्नीन्द्राच्युतमित्रकान्विधुविधिश्रीरुद्रशारीरकान् ॥२-५-७-१ भूमन्! मानसबुद्ध्यहङ्कृतिमिलच्चित्ताख्यवृत्त्यन्वितं२-५-७-२ तच्चान्तः करणं विभो! तव बलात्सत्त्वांशेवासृजत् ।२-५-७-३ जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन-२-५-७-४ स्तन्मात्रं नभसो मरुत्पुरपते! शब्दोऽजनि त्वद्बलात् ॥२-५-८-१ शब्दाद्व्याम ततः ससर्जिथ विभो! स्पर्शं ततो मारुतं२-५-८-२ तस्माद्रूपमतो महोऽथच रसं तोयं गन्धं महीं ।२-५-८-३ एवं माधव! पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं२-५-८-४ भूतग्राममिमं त्वमेव भगवन्! प्राकाशयस्तामसात् ॥२-५-९-१ एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ्२-५-९-२ नो शेकुर्भुवनाण्डनिर्मितिविधादेवैरमीभिस्तदा ।२-५-९-३ त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशं-२-५-९-४ श्चेष्टाशक्तिमुदीर्य तानि बटयन्हैरण्यमण्डं व्यधाः ॥२-५-१०-१ अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत्सहस्रं समा२-५-१०-२ निर्बिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयं ।२-५-१०-३ साहस्रैः करपादमूर्धनीवहैर्निश्शेषजीवात्मको२-५-१०-४ निर्भातोऽसि मरुत्पुराधिप! स मां त्रायस्व सर्वामयात् ॥२-६-१-१ एवं चतुर्दशजगन्मयतां गतस्य२-६-१-२ पातालमीश! तव पादतलं वदन्ति ।२-६-१-३ पादोर्ध्वदेशमपि देव! रसातलं त२-६-१-४ गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥२-६-२-१ जङ्घे तलातलमथो सुतलं च जान्२-६-२-२ किञ्चोरुभागयुगलं वितलातेले द्वे ।२-६-२-३ क्षोणीतलं जघनमम्बरमङ्ग! नाभिर्-२-६-२-४ वक्षश्च शक्रनिलयस्तव चक्रेपाणे! ॥२-६-३-१ ग्रीवा महस्तव मुखं च जनस्तपस्तु२-६-३-२ फालं शिरस्तव समस्तमयस्य सत्यं ।२-६-३-३ एवं जगन्मयन्तयो! जगदाश्रीतैर-२-६-३-४ प्यन्यैर्निबद्धवपुषे भगवन्! नमस्ते ॥२-६-४-१ त्वद्ब्रह्मरन्ध्रपदमीश्वर! विश्वकन्द-२-६-४-२ च्छन्दांसि केशष्! धनास्तव केशपाशाः ।२-६-४-३ उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं२-६-४-४ पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥२-६-५-१ निश्शेषविश्वरचना च कटाक्षमोक्षः२-६-५-२ कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे ।२-६-५-३ लोभत्रपे च भगवन्नधरोत्तरोष्ठौ२-६-५-४ तारागणाश्च रदनाः शमनश्च दंष्ट्रा ॥२-६-६-१ माया विलासहसितं श्वसितं समीरो२-६-६-२ जिह्वा जलं वचनमीश्! शकुन्तपङ्क्तिः ।२-६-६-३ सिद्धादयः स्वरगणा मुखरन्ध्रमग्निर्२-६-६-४ देवा भुजाः स्तनयुगं तव धर्मदेवः ॥२-६-७-१ पृष्ठं त्वधर्मैह देव! मनः सुधांशु-२-६-७-२ रव्यक्तमेव हृदयाम्बुजमम्नुजाक्ष! ।२-६-७-३ कुक्षिः समुद्रनिवहा वसनं तु सन्ध्ये२-६-७-४ शेफः प्रजापतिरसौ वृष्णौ च मित्रः ॥२-६-८-१ श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते२-६-८-२ हस्त्य्ष्ट्रसैन्धवमुखा गमनं तु कालः ।२-६-८-३ विप्रादिवर्णभवनं वदनाब्जबाहु-२-६-८-४ चारूरुयुग्मचरणंकरुणाम्बुधे! ते ॥२-६-९-१ संसारचक्रमायि चक्रधर! क्रियास्ते२-६-९-२ वीर्यं महासुरगणोऽस्थिकुलानि शैलाः ।२-६-९-३ नाड्यः सरित्समुदयास्तरवश्च र्ॐअ२-६-९-४ जीयादिदं वपुरनिर्वचनीयमीश्! ॥२-६-१०-१ ईदृग्जगन्मयवपुस्तव कर्मभाजां२-६-१०-२ कर्मावसानसमये स्मरणीयमाहुः ।२-६-१०-३ तस्यान्तरात्मवपुषे विमलात्मने ते २-६-१०-४ वातालयाधिप! नमोऽस्तु निरुन्धि रोगान् ॥ २-६-१०-५ एवं देव! चतुर्दशात्मकजगद्रूपेण जातः पुनस्२-६-१०-६ तस्योधर्वं खलु सत्यलोकनिकलये जातोऽसि धाता स्वयं ।२-६-१०-७ यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं२-६-१०-८ योऽभूत्स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥२-७-२-१ सोऽयं विश्वविसर्गदत्तहृदयः संपश्यमानः स्वयं२-७-२-२ बोधं खल्वनवाप्य विश्वविषयं हि चिन्ताकुलस्तस्थिवान् ।२-७-२-३ तावत्त्वं जगतां पते! तप तपेत्येवं हि वैहायसीं२-७-२-४ वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणां ॥२-७-३-१ कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले२-७-३-२ दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता ।२-७-३-३ दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधितस्२-७-३-४ तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतं ॥२-७-४-१ माया यत्र कदापि नो विकुरुते भाते जगद्भ्यते बहिः२-७-४-२ शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः ।२-७-४-३ सान्द्रानन्दझरी च यत्र परमज्योतिः प्रकाशात्मके२-७-४-४ तत्ते धाम विभावितं विजयते वैकुण्ठरूपं विभो! ॥२-७-५-१ यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो२-७-५-२ नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः ।२-७-५-३ भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्यो जनास्२-७-५-४ तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥२-७-६-१ नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया२-७-६-२ विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा ।२-७-६-३ त्वत्पादाम्बुजसौरमैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते२-७-६-४ यस्मिन्विस्मयनीयदिव्यविभवा तत्ते ओअदं देहि मे ॥२-७-७-१ तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं२-७-७-२ भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृति ।२-७-७-३ श्रीवत्साङ्कितमात्तकौस्तुभणिच्छायारुणं कारणं२-७-७-४ विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो! भातु मे ॥२-७-८-१ कालाम्भोदकलायक्ॐअलरुची चक्रेण चक्रं दिशा-२-७-८-२ मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननं ।२-७-८-३ राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं२-७-८-४ स्रष्टुस्तुष्टिकरं वपुस्तव विभो! मद्रोगमुद्वासयेत् ॥२-७-९-१ दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे२-७-९-२ हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् ।२-७-९-३ जानास्येव मनीषितं मम विभो! ज्ञानं तदापादय२-७-९-४ द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥२-७-१०-१ आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन्२-७-१०-२ बोधस्ते भविता न सर्गविधिभिर्बन्दोऽपि सञ्जायते ।२-७-१०-३ इत्याभाष्य गिरं प्रतोष्य्त नितरां तच्चित्तगूढः स्वयं२-७-१०-४ सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघतां ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP