संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नारायणीय| भाग ८ नारायणीय भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ नारायणीय - भाग ८ "नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते. Tags : epicnarayan bhattapoemकाव्यनारायणभट्टनारायणीयमहाकाव्यसंस्कृत भाग ८ Translation - भाषांतर ८-२६-१-१ इन्द्रद्यूम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मी चन्दनाद्रौ कदीचित् ।८-२६-१-२ त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामं ॥८-२६-२-१ कुम्भोद्भूतः संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति ।८-२६-२-२ शप्त्वाथैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यं ॥८-२६-३-१ दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रोडञ्छैले यूथपोऽयं वशाभिः ।८-२६-३-२ सर्वान्जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥८-२६-४-१ स्तेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन्कदाचित् ।८-२६-४-२ शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥८-२६-५-१ हूहूस्तावद्देवलस्यापि शापद्ग्राहीभूतस्तज्जले वर्तमानः ।८-२६-५-२ जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानां ॥८-२६-६-१ त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रं ।८-२६-६-२ प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वं ॥८-२६-७-१ आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः समर्चन् ।८-२६-७-२ पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्दगादीत्परात्मन्! ॥८-२६-८-१ श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते ।८-२६-८-२ सर्वात्मा त्वं भूरिकारुण्यवेगात्तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥८-२६-९-१ हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः ।८-२६-९-२ गन्धर्वेऽस्मिन्मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥८-२६-१०-१ एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् ।८-२६-१०-२ इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो! पाहि वातालयेश! ॥८-२७-१-१ दुर्वासाः सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूजः ।८-२७-१-२ नागेन्द्रप्रतिमृदिते शशाय शक्रं का क्षान्तिस्त्वदितरदेवतांशजानां ॥८-२७-२-१ शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु ।८-२७-२-२ शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव! समं भवन्तमापुः ॥८-२७-३-१ ब्रह्माद्यैर्नुतमहिमा चिरं तदानीं प्रादुःषन्वरद! पुरः परेण धाम्ना ।८-२७-३-२ हे देवा! दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वं ॥८-२७-४-१ सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिं ।८-२७-४-२ भ्रष्टेऽस्मिन्बदरमिवोद्वहन्खगेन्द्रे सद्य्स्त्वं विनिहितवान्पयः पयोधौ ॥८-२७-५-१ आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले ।८-२७-५-२ प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात्त्वं भुजगमुखेऽकरोः सुरारीन् ॥८-२७-६-१ क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने ।८-२७-६-२ देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठां ॥८-२७-७-१ वज्रातिस्थिरतरकर्परेण विष्णो! विस्तारात्परिगतलक्षयोजनेन ।८-२७-७-२ अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥८-२७-८-१ उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे ।८-२७-८-२ आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥८-२७-९-१ उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वां ।८-२७-९-२ अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ॥८-२७-१०-१ दैत्यौधे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते ।८-२७-१०-२ कारुण्यात्तव किल देव! वारिवाहाः प्रावर्षन्नमरगणान्न दैत्यसङ्घान् ॥८-२८-१-१ गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटं ।८-२८-१-२ अमरस्तुतिवादमोदनिघ्नो निरिशस्तन्निपपौ भवत्प्रियार्थं ॥८-२८-२-१ विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन्! ।८-२८-२-२ हयरत्नमभूदथेभरत्नं द्यूतरुश्चाप्सरसः सुरेषु तानि ॥८-२८-३-१ जगदीश! भवत्परा तदानीं कमनीया कमला बभूव देवी ।८-२८-३-२ अमलामवलोक्य यां विलोकः सकलोऽपि स्पृहयाम्बभूव लोकः ॥८-२८-४-१ त्वयि दत्तहृद्दे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् ।८-२८-४-२ सकलोपहृताभिषेचनीयैरृषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥८-२८-५-१ अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीं ।८-२८-५-२ मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्दभूषन् ॥८-२८-६-१ वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना ।८-२८-६-२ पदशिञ्जितमञ्जुन्पुरा त्वां कलितव्रीलविलासमाससाद ॥८-२८-७-१ गिरिशद्रुहिणादिसर्वदेवान्गुणभाजोऽप्यविमुक्तदोषलेशान् ।८-२८-७-२ अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥८-२८-८-१ उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावां ।८-२८-८-२ त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्ट्या परिपुष्टमास विश्वं ॥८-२८-९-१ अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् ।८-२८-९-२ तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥८-२८-१०-१ तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः ।८-२८-१०-२ अमृतं कलशे वहन्कराभ्यामखिलार्तिं हर मारुतालयेश! ॥८-२९-१-१ उद्गच्छतस्तव करादमृतं हरत्सु८-२९-१-२ दैत्येषु तानशरणाननुनीय देवान् ।८-२९-१-३ सधस्तिरोदधिथ देव! भवत्प्रभावाद्८-२९-१-४ उद्यत्सयूथ्यकलहा दितिजा बभूवुः ॥८-२९-२-१ श्यामां रुचापि वयसापि तनुं तदानीं८-२९-२-२ प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वं ।८-२९-२-३ पीयुषकुम्भकलहं परिमुच्य सर्वे८-२९-२-४ तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥८-२९-३-१ का त्वं मृगाक्षि! विभजस्व सुधामिमामि-८-२९-३-२ त्यारूढरागविवशानभियाचतोऽमून् ।८-२९-३-३ विश्वस्यते मयि कथं कुलटास्मि दैत्या!८-२९-३-४ इत्यालपन्नपि सुविश्वसितानतानीः ॥८-२९-४-१ मोदात्सुधाकलशमेषु ददत्सु सा त्वं८-२९-४-२ दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा ।८-२९-४-३ पङ्क्तिप्रभेदविनिवेशितदेवदैत्या८-२९-४-४ लीलाविलासगतिभिः समदाः सुधां तां ॥८-२९-५-१ अस्मास्वियं प्रणयिनीत्युसुरेषु तेषु८-२९-५-२ जोषं स्थितेष्वथ समाप्य सुधां सुरेषु ।८-२९-५-३ त्वं भक्तलोकवशगो मिजरूपमेत्य८-२९-५-४ स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥८-२९-६-१ त्वत्तं सुधाहरणयोग्यफलं परेषु८-२९-६-२ दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् ।८-२९-६-३ घोरेऽथ मूर्छति रणे बलिदैत्यमाया-८-२९-६-४ व्यामोहिते सुरगणे त्वमिहाविरासीः ॥८-२९-७-१ त्वं कालनेमिमथ मालिसुखाञ्जघन्थ८-२९-७-२ शक्रो जघान बलिजम्भवलान्सपाकान् ।८-२९-७-३ शुष्कार्द्रदुष्करवधे नमुचौ च लूने८-२९-७-४ फेनेन नारदगिरा न्यरुणो रणं तं ॥८-२९-८-१ योषावपुर्दनुजमोहनमाहितं ते८-२९-८-२ श्रुत्वं विलोकनकुतूहलवान्महेशः ।८-२९-८-३ भूतैः समं गिरिजया च गतः पदं ते८-२९-८-४ स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥८-२९-९-१ आरामसीमनि च कन्दुकघातलीला-८-२९-९-२ लोलायमाननयनां कमनीं मनोज्ञां ।८-२९-९-३ त्वामेष वीक्ष्य विगलद्वसनां मनोभू-८-२९-९-४ वेगादनङ्गरिपुरङ्ग! समालिलिङ्ग ॥८-२९-१०-१ भूयोऽपि विद्रुतवतीमुपधाव्य देवो८-२९-१०-२ वीर्यप्रमोक्षविकसत्परमार्थबोधः ।८-२९-१०-३ त्वन्मानितस्तव महत्त्वमुवाच देव्यै८-२९-१०-४ तत्तादृशस्त्वमव वातनिकेतनाथ! ॥८-३०-१-१ शक्रेण संयति हतोऽपि बलिर्महात्मा८-३०-१-२ शुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।८-३०-१-३ विक्रान्तिमान्भयनिलीनसुरां त्रिलोकीं८-३०-१-४ चक्रे वशे स तव चक्रमुखादभीतः ॥८-३०-२-१ पुत्रार्तिदर्शनवशाददितिर्विषण्णा८-३०-२-२ तं काश्यपं निजपतिं शरणं प्रपन्ना ।८-३०-२-३ त्वत्पूजनं तदुदितं हि पयोव्रताख्यं८-३०-२-४ सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥८-३०-३-१ तस्यावधौ त्वयि निलीनमतेरमुष्याः८-३०-३-२ श्यामश्चतुर्भुजवपुः स्वयमाविरासीः ।८-३०-३-३ नम्रां च तामिह भवत्तनयो भवेयं८-३०-३-४ गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥८-३०-४-१ त्वं काश्यपे तपसि सन्निदधत्तदानीं८-३०-४-२ प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा ।८-३०-४-३ प्रासूत च प्रकटवैष्णवदिव्यरूपं८-३०-४-४ सा द्वादशीश्रवणपुण्यदिने भवन्तं ॥८-३०-५-१ पुण्याश्रमं तमभिवर्षति पुष्पवर्षैर्-८-३०-५-२ हर्षाकुले सुरकुले कृततूर्यघोषे ।८-३०-५-३ बद्ध्वाञ्जलिं जय जयेति तनुः पितृभ्यां८-३०-५-४ त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥८-३०-६-१ तावत्प्रजापतिमुखैरुपनीय मौञ्जी-८-३०-६-२ दण्डाजिनाक्षवलयादिभिरर्च्यमानः ।८-३०-६-३ देदीप्यमानवपुरीश! कृताग्निकार्यस्८-३०-६-४ त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधं ॥८-३०-७-१ गात्रेण भाविमहिमोचितगौरवं प्राग्८-३०-७-२ व्यावृण्वतेव धरणीं चलयन्नयासीः ।८-३०-७-३ छत्रं परोष्मतिरणार्थमिवादधानो८-३०-७-४ दण्डं च दानवजनेष्विवं सन्निधातुं ॥८-३०-८-१ तां नर्मदित्तरतटे हयमेधशाला-८-३०-८-२ मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः ।८-३०-८-३ भास्वान्किमेष दहनो नु सनत्कुमारो८-३०-८-४ योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥८-३०-९-१ आनीतमाशु भृगुभिर्महसाभिभूतैस्८-३०-९-२ त्वां रम्यरूपमसुरः पुलकावृताङ्गः ।८-३०-९-३ भक्त्या समेत्य सुकृती परिषिच्य पादौ८-३०-९-४ तत्तोयमन्वधृत मूर्धति तीर्थतीर्थं ॥८-३०-१०-१ प्रह्लादवंशजतया क्रतुभिर्द्विजेषु८-३०-१०-२ विश्वासतो नु तदिदं दितिजोऽपि लेभे ।८-३०-१०-३ यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यं८-३०-१०-४ स त्वं विभो! गुरुपुरालय! पालयेथाः ॥८-३१-१-१ प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत्सर्वथापि८-३१-१-२ त्वामाराध्यन्नजित! रचयन्नञ्जलिं सञ्जगाद ।८-३१-१-३ मत्तः किं ते समभिलषितं विप्रसूनो! वद त्वं८-३१-१-४ वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ॥८-३१-२-१ तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णो-८-३१-२-२ऽप्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् ।८-३१-२-३ भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं८-३१-२-४ सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥८-३१-३-१ विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं८-३१-३-२ सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् ।८-३१-३-३ यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान्८-३१-३-४ बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥८-३१-४-१ पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये-८-३१-४-२ दित्युक्तेऽस्मिन्वरद! भवते दातुकामेऽथ तोयं ।८-३१-४-३ दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं८-३१-४-४ मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥८-३१-५-१ याचत्येवं यदि स भगवान्पूर्णकामोऽस्मि सोऽहं८-३१-५-२ दास्याम्येव स्थिरमिति वदन्काव्यशप्तोऽपि दैत्यः ।८-३१-५-३ विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं८-३१-५-४ चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वं ॥८-३१-६-१ निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद्८-३१-६-२ व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षं ।८-३१-६-३ दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजाम्-८-३१-६-४ उच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डं ॥८-३१-७-१ त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ८-३१-७-२ कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् ।८-३१-७-३ हर्षोत्कर्षात्सुबहु खेचरैरुत्सवेऽस्मिन्८-३१-७-४ भेरीं निघ्नन्भुवनमचरज्जाम्बवान्भक्तिशाली ॥८-३१-८-१ तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धतुद्धा८-३१-८-२ देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् ।८-३१-८-३ कालात्मायं वसति पुरतो यद्वशात्प्राग्जिताः स्मः८-३१-८-४ किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥८-३१-९-१ पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी-८-३१-९-२ स्तार्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि ।८-३१-९-३ पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं८-३१-९-४ प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वां ॥८-३१-१०-१ दर्पोच्छित्त्यै विहितमखिलं दैत्य! सिद्धोऽसि पुण्यैर्८-३१-१०-२ लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् ।८-३१-१०-३ मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं८-३१-१०-४ विप्रैः सन्तानितमखवरः पाहि वातालयेश! ॥८-३२-१-१ पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।८-३२-१-२ निद्रोन्मुखब्रह्ममुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपं ॥८-३२-२-१ सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीं ।८-३२-२-२ कराञ्जलौ स ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥८-३२-३-१ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रण मुनिः स्वगेहं ।८-३२-३-२ स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो! त्वं ॥८-३२-४-१ योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिं ।८-३२-४-२ पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ॥८-३२-५-१ प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः ।८-३२-५-२ सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वां ॥८-३२-६-१ धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते ।८-३२-६-२ तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥८-३२-७-१ झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वां ।८-३२-७-२ निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणिं बबन्धुः ॥८-३२-८-१ आकृष्टनौको मुनिमण्डलाय प्रदर्शयन्विश्वजगद्विभागान् ।८-३२-८-२ संस्तूयमानो नृवरेण तेन ज्ङानं परं चोपदिशन्नचारीः ॥८-३२-९-१ कल्पावधौ सप्त मुनीन्पुरोवत्प्रस्ताप्य सत्यव्रतभूमिपं तं ।८-३२-९-२ वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥८-३२-१०-१ स्वतुङ्गशृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान्गृहीत्वा ।८-३२-१०-२ विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते! प्रपायाः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP