संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नारायणीय| भाग ११ नारायणीय भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ नारायणीय - भाग ११ "नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते. Tags : epicpoemकाव्यमहाकाव्यसंस्कृत भाग ११ Translation - भाषांतर ११-९१-१-१ श्रीकृष्ण! त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टेर्-११-९१-१-२ मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मैव ।११-९१-१-३ यत्तावत्त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे११-९१-१-४ धावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन्! ॥११-९१-२-१ भूमन्! कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मा११-९१-२-२ यद्यत्कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि ।११-९१-२-३ जात्यापीह श्वपाकस्त्वयि निहितमनः कर्मवागिन्द्रियार्थ-११-९१-२-४ प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः ॥११-९१-३-१ भीतिर्नाम द्वितीयाद्भवति ननु मनःकल्पितं च द्वितीयं११-९१-३-२ तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्यां ।११-९१-३-३ मायाविद्धे तु तस्मिन्पुनरपि न तथा भाति मायाधिनाथं११-९१-३-४ तत्त्वां भक्त्या महत्या सततमनुभजन्नीश! भीतिं विजह्यां ॥११-९१-४-१ भक्तेरुत्पत्तिवृद्धी तव चरणजुषं सङ्गमेनैव पुंसा-११-९१-४-२ मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन ।११-९१-४-३ तत्सङ्गो देव! भूयान्मम खलु सततं तन्मुखादुन्मिषद्धिस्-११-९१-४-४ त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ॥११-९१-५-१ श्रेय्ॐआर्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो११-९१-५-२ गायन्क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा ।११-९१-५-३ उद्यद्धासः कदाचित्कुहाचिदपि रुदन्क्वापि गर्जन्प्रगाय-११-९१-५-४ न्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयं ॥११-९१-६-१ भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान्मृगादीन्११-९१-६-२ मर्त्यान्मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि ।११-९१-६-३ त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदार्ढ्यं विरागस्-११-९१-६-४ त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते! यत्नभेदं विनैव ॥११-९१-७-१ नो मुह्यन्क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा-११-९१-७-२ च्चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः ।११-९१-७-३ इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा-११-९१-७-४ ज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयं ॥११-९१-८-१ भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत्११-९१-८-२ त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा ।११-९१-८-३ आर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे११-९१-८-४ त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वं ॥११-९१-९-१ आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती११-९१-९-२ जीवीन्भूयिष्ठकर्मावलिविवशगतीन्दुःखजाले क्षिपन्ती ।११-९१-९-३ त्वन्माया माभिभून्मामयि भुवनपते! कल्पते तत्प्रशान्त्यै११-९१-९-४ त्वत्पादे भक्तिरेवेत्यवददयि विभो! सिद्धयोगी प्रबुद्धः ॥११-९१-१०-१ दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या-११-९१-१०-२ ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भक्तिभूमा ।११-९१-१०-३ मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे११-९१-१०-४ तस्यायं पूर्वरङ्गः पवनपुरपते! नाशयाशेषरोगान् ॥११-९२-१-१ वैदैः सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा११-९२-१-२ तानि त्वय्यर्पितान्येव हि समनुचरन्यानि नैष्कर्म्यमीश! ।११-९२-१-३ मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्तिर्-११-९२-१-४ दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥११-९२-२-१ यस्त्वन्यः कर्मय्ॐअस्तव भजनमयस्तत्र चाभीष्टमूर्तिं११-९२-२-२ हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा ।११-९२-२-३ पुष्पैर्मन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतैर्-११-९२-२-४ नित्यं वर्यां सपर्यां विदधदयि विभो! त्वत्प्रसादं भजेयं ॥११-९२-३-१ स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हास्-११-९२-३-२ त्वत्पादासन्नयातान्द्विजकुलजनुषो हन्त शोचाम्यशान्तान् ।११-९२-३-३ वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो११-९२-३-४ दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा मां ॥११-९२-४-१ पपोऽयं कृष्ण! रामेत्यभिलपति निजं गूहितुं दिश्चारित्रं११-९२-४-२ निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि ।११-९२-४-३ भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते११-९२-४-४ निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा मां ॥११-९२-५-१ श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि-११-९२-५-२ स्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते ।११-९२-५-३ सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं११-९२-५-४ नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥११-९२-६-१ सोऽयं कालेयकालो जयति मुररिपो! यत्र सङ्कीर्तनाद्यैर्-११-९२-६-२ निर्यत्नैरेव मार्गैरखिलद! नचिरात्त्वत्प्रसादं भजन्ते ।११-९२-६-३ जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते११-९२-६-४ दैवात्तत्रैव जातान्विषयविषरसैर्मा विभो! वञ्चयास्त्मान् ॥११-९२-७-१ भक्तास्तावत्कलौ स्पुर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चैः११-९२-७-२ कावेरीं ताम्रपर्णीमन्किल कृतमालां च पुण्यां प्रतीचीं ।११-९२-७-३ हा मामप्येतदन्तर्भवमपि च विभो! किञ्चिदञ्चिद्रसं त्व-११-९२-७-४ य्याशापाशैर्निबध्य भ्रमय न मगवन्! पूरय त्वन्निषेवां ॥११-९२-८-१ दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षि-११-९२-८-२ द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान्सारवेदी मुणांशात् ।११-९२-८-३ त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरुर्-११-९२-८-४ यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनं ॥११-९२-९-१ गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत्११-९२-९-२ सालग्रामाभिपूजा परपुरुष! तथैकादशी नामवर्णाः ।११-९२-९-३ एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्या११-९२-९-४ क्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः ॥११-९२-१०-१ देवर्षीणां पित्णामपि न पुनरृणी किङ्गरो वा स भूमन्!११-९२-१०-२ योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा ।११-९२-१०-३ तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं११-९२-१०-४ तन्मे पपोत्थतापान्पवनपुरपते! रुन्दि भक्तिं प्रणीयाः ॥११-९३-१-१ बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा११-९३-१-२ सर्वं त्वक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासं ।११-९३-१-३ नानात्वाद्भृआन्तिजन्यात्सति खलु गुणदोषावबोधे विधिर्वा११-९३-१-४ व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥११-९३-२-१ क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तघः सन्त्यनन्ता-११-९३-२-२ स्तेभ्यो विज्ञानवत्त्वात्पुरुष इह वरस्तज्जनिर्दुर्लभैव ।११-९३-२-३ तत्राप्यात्मात्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता-११-९३-२-४ स्तापोच्छित्तेरुपाथं स्मरति स हि सुहृत्स्वात्मवैरी ततोऽन्यः ॥११-९३-३-१ त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन्!११-९३-३-२ सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयं ।११-९३-३-३ गृह्णीयामीश! तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीराद्११-९३-३-४ व्याप्तत्वं चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥११-९३-४-१ स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णां११-९३-४-२ सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयां ।११-९३-४-३ पुष्टिर्नष्टिः कलानांं शशिन इव तनोर्नात्मनोऽस्तीति विद्यां११-९३-४-४ तोयादिव्यस्तमार्तण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥११-९३-५-१ स्नेहाद्व्याधास्तपुत्रप्रणयमृतकपोतीयितो मा स्म भूवं११-९३-५-२ प्राप्तं प्राश्नन्सहेय क्षुधमपि शयुवत्सिन्धुवत्स्यामगाधः ।११-९३-५-३ मा पप्तं योषिदादौ शिखिनि शलभवद्भृङ्गवत्सारभागी११-९३-५-४ भूयासं किन्तु तद्वद्धनचयनवशान्माहमीश! प्रनेशं ॥११-९३-६-१ मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं११-९३-६-२ हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा गुहं ग्राम्यगीतैः ।११-९३-६-३ नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गलावन्निराशः११-९३-६-४ सुप्यां भर्तव्ययोगात्कुरर इव विभो! सामिषोऽन्यैर्न हन्यै ॥११-९३-७-१ वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं११-९३-७-२ कन्याया एकशेषो वलय इव विभो! वर्जितान्योन्यघोषः ।११-९३-७-३ त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं११-९३-७-४ गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥११-९३-८-१ त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात्प्रतीयां११-९३-८-२ त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षेये पेशकारात् ।११-९३-८-३ विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिं११-९३-८-४ धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥११-९३-९-१ ही ही मे देहमोहं त्यज पवनपुराधीश! यत्प्रेमहेतोर्-११-९३-९-२ गेहे चित्ते कलत्रादिषु च विवाशितास्त्वत्पदं विस्मरन्ति ।११-९३-९-३ सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतः चाक्षिकर्ण-११-९३-९-४ त्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥११-९३-१०-१ दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्११-९३-१०-२ हृत्वा भक्तिं द्रधिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष! ।११-९३-१०-३ नूनः नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं११-९३-१०-४ क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश! ॥११-९४-१-१ नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते११-९४-१-२ वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥११-९४-२-१ आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरारे-११-९४-२-२ ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने ।११-९४-२-३ कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे११-९४-२-४ दाह्याभावने विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥११-९४-३-१ एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो११-९४-३-२ नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः ।११-९४-३-३ दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता११-९४-३-४ मत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान्विषादान् ॥११-९४-४-१ त्वल्लोकादन्यलोकः क्व नु भयरहितो यत्परार्धद्वयान्ते११-९४-४-२ त्वद्भीतः सप्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभः! ।११-९४-४-३ एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां११-९४-४-४ तन्मे त्वं छिन्धि बन्धं वरद! कृपणबन्धो! कृपापूरसिन्धो! ॥११-९४-५-१ याथार्थ्यात्त्वन्मस्यैव हि मम न विभो! वस्तुतो बन्धमोक्षौ११-९४-५-२ मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ ।११-९४-५-३ बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावेदेको११-९४-५-४ भुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥११-९४-६-१ जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे११-९४-६-२ तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् ।११-९४-६-३ तन्मे विष्णो! कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं११-९४-६-४ येन स्यां मङ्क्षु किञ्चिद्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥११-९४-७-१ शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित्११-९४-७-२ कष्टं वन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिं ।११-९४-७-३ यस्याः विश्वाभिरामाः सकलमलाहरा दिव्यलीलावताराः११-९४-७-४ सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासं ॥११-९४-८-१ यो यावान्यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम-११-९४-८-२ न्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन्! ।११-९४-८-३ त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादिर्-११-९४-८-४ भयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥११-९४-९-१ यद्यल्लभ्येत तत्तत्तव समुपहृतं देव! दासोऽस्मि तेऽहं११-९४-९-२ त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव ।११-९४-९-३ सूर्याग्निब्राह्मणात्मादिसु लसितचतुर्बाहुमाराधये त्वां११-९४-९-४ त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥११-९४-१०-१ एक्यं ते दानोहिमव्रतनियमतपस्साङ्ख्ययोगैर्दुरापं११-९४-१०-२ त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रं ।११-९४-१०-३ भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां११-९४-१०-४ तन्मे त्वद्भक्तिमेव द्रढय हर गदान्कृष्ण! वातालयेश! ॥११-९५-१-१ आदौ हैरण्यगभीं तनुमविकलजीवात्मिकामास्थितस्त्वं११-९५-१-२ जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने! ।११-९५-१-३ तत्रोद्वृद्धेन सत्त्वेन तु गणयुगलं भक्तिभावं गतेन-११-९५-१-४ च्छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥११-९५-२-१ सत्त्वोन्मेषात्कदाचित्खलु विषयरसे दोषबोधेऽपि भूमन्!११-९५-२-२ भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा ।११-९५-२-३ चित्तं तावद्गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं११-९५-२-४ तुर्ये त्वय्येकभक्तिः शरणमिति भवान्हंसारूपी न्यगादीत् ॥११-९५-३-१ सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि११-९५-३-२ क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण! तेभ्यो भवेयुः ।११-९५-३-३ त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां११-९५-३-४ त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥११-९५-४-१ त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः११-९५-४-२ सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः ।११-९५-४-३ सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या११-९५-४-४ नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ॥११-९५-५-१ त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतोर्-११-९५-५-२ भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः ।११-९५-५-३ सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं११-९५-५-४ त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणां ॥११-९५-६-१ चित्तार्द्रीभाववमुच्चैर्वपुषि च पुलकं हर्षबाष्यं च हित्वा११-९५-६-२ चित्तं शुध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्तेः ।११-९५-६-३ त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा११-९५-६-४ चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ॥११-९५-७-१ ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र-११-९५-७-२ न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववाञ्चं ।११-९५-७-३ ऊर्ध्वाग्रं भवयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात्११-९५-७-४ तत्रस्थं भावये त्वां सजलजलधरश्यामलं क्ॐअलाङ्गं ॥११-९५-८-१ आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास-११-९५-८-२ स्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामं ।११-९५-८-३ श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं११-९५-८-४ चारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तं ॥११-९५-९-१ सर्वाङ्गेष्वङ्ग! रङ्गत्कुतुकमतिमुहुर्धारयन्नीश! चित्तं११-९५-९-२ तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे ।११-९५-९-३ तत्रालीनं तु चेतः परमसुखचिदद्वैतरूपे वितन्व-११-९५-९-४ न्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयं ॥११-९५-१०-१ इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता११-९५-१०-२ दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे! ।११-९५-१०-३ त्वत्सम्प्राप्तौ विलम्बावहमखिमिदं नाद्रिये कामयेऽहं११-९५-१०-४ त्वामेवानन्दपूर्णं पवनपुरपते! पाहि मां सर्वतापात् ॥११-९६-१-१ त्वं हि ब्रह्मैव साक्षात्परमुरुमहिमन्नक्षराणामकार-११-९६-१-२ स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि ।११-९६-१-३ प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो११-९६-१-४ नागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते! ॥११-९६-२-१ ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसो वीरेषु पार्थो११-९६-२-२ भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वं ।११-९६-२-३ नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव११-९६-२-४ त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित्प्रपञ्चे ॥११-९६-३-१ धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या११-९६-३-२ कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते ।११-९६-३-३ सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं११-९६-३-४ निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धं ॥११-९६-४-१ ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र तावद्११-९६-४-२ निर्विण्णानामशेषे विषय इह भवेद्ज्ञानयोगेऽधिकारः ।११-९६-४-३ सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता११-९६-४-४ नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषां ॥११-९६-५-१ ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते११-९६-५-२ तस्मात्तत्रैव जन्म स्पृहयति भगवन्! नाकगो नारको वा ।११-९६-५-३ आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे११-९६-५-४ त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥११-९६-६-१ अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः११-९६-६-२ क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति ।११-९६-६-३ दुरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग-११-९६-६-४ स्त्वामूलादेव हृद्यस्त्वरितमयि! भवत्प्रापको वर्धतां मे ॥११-९६-७-१ ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन्११-९६-७-२ गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे ।११-९६-७-३ त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो-११-९६-७-४ रभ्यासादाशु शक्यं वशयितुं त्वत्कृपाचारुताभ्यां ॥११-९६-८-१ निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं११-९६-८-२ जातश्रद्धोऽपि कामानयि भुवनपते! नैव शक्न्ॐइ हातुं ।११-९६-८-३ तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान्११-९६-८-४ पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गाः ॥११-९६-९-१ कश्चित्क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः११-९६-९-२ प्रागेवं प्राहि विप्रो न खलु मम जनः कालकर्मग्रहा वा ।११-९६-९-३ चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारी-११-९६-९-४ त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो! तादृशीं चित्तशान्तिं ॥११-९६-१०-१ एलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां११-९६-१०-२ गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् ।११-९६-१०-३ त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूय सङ्गं११-९६-१०-४ भक्तोत्तंसं क्रिया मां पवनपुरपते! हन्त मे रुन्धिरोगान् ॥११-९७-१-१ त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य-११-९७-१-२ ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः ।११-९७-१-३ त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं११-९७-१-४ प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयं ॥११-९७-२-१ त्वय्येव न्यस्तचित्तः सुखमयि विचरन्सर्वचेष्टास्त्वदर्थं११-९७-२-२ त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन्पुंण्यदेशान् ।११-९७-२-३ दस्यौ विप्रे गृहादिष्वपि च सममतिर्मुच्यमानावमान-११-९७-२-४ स्पर्धासूयादिदोषः सततमखिलभूतेषु सम्पूजये त्वां ॥११-९७-३-१ त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं११-९७-३-२ कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयं ।११-९७-३-३ त्वद्धर्मस्यास्य तावत्किमपि न भगवन्! प्रस्तुतस्य प्रणाश-११-९७-३-४ स्तस्मात्सर्वात्मनैव प्रदिश मम विभो! भक्तिमार्गं मनोझं ॥११-९७-४-१ तं चैनं भक्तियोगं द्रढयितुमयि! मे साध्यमारोग्यमायुर्-११-९७-४-२ दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धं ।११-९७-४-३ मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः११-९७-४-४ सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युं ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP