संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नारायणीय| भाग ९ नारायणीय भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ नारायणीय - भाग ९ "नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते. Tags : epicpoemकाव्यमहाकाव्यसंस्कृत भाग ९ Translation - भाषांतर ९-३३-१-१ वैवस्वताख्यमनुपुत्रनभागजात-९-३३-१-२ नाभागनामकनरेन्द्रसुतोऽम्बरीषुः ।९-३३-१-३ सप्तार्णवावृतमहीदयितोऽपि रेमे९-३३-१-४ त्वत्सङ्गिषु त्वयि च मग्नमनाः सदैव ॥९-३३-२-१ त्वत्प्रीतयेसकलमेव वितन्वतोऽस्य९-३३-२-२ भक्त्यैव देव! नचिरादभृथाः प्रसादं ।९-३३-२-३ येनास्य याचनमृतेऽप्यभिरक्षणार्थं९-३३-२-४ चक्रं भवान्प्रविततार सहस्रधारं ॥९-३३-३-१ स द्वादशीव्रतमथो भ्वदर्चनार्थं९-३३-३-२ वर्षं दधौ मधुवने यमुनोपकण्ठे ।९-३३-३-३ पत्न्या समं सुमनसा महतीं वितन्दन्९-३३-३-४ पूजां द्विजेषु विसृजन्पशुषष्टिकोटिं ॥९-३३-४-१ तत्राथ पारणदिने भवदर्चनान्ते९-३३-४-२ दुर्वाससास्य मुनिना भवनं प्रपेदे ।९-३३-४-३ भोक्तुं वृतश्च स नृपेण परार्तिशीलो९-३३-४-४ मन्दं जगाम यमुनां नियमान्विधास्यन् ॥९-३३-५-१ राज्ञाथ पारणमुह्ङ्र्तसमाप्तिखेदाद्९-३३-५-२ वारैव पारणमकारि भवत्परेण ।९-३३-५-३ प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन्९-३३-५-४ क्षिप्यन्क्रुधोद्धृतजटो विततान कृत्यां ॥९-३३-६-१ कृत्यां च तामसिधरां भुवनं दहन्ती-९-३३-६-२ मग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे ।९-३३-६-३ त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते९-३३-६-४ कृत्यानलं शलभयन्मुनिमन्वधावीत् ॥९-३३-७-१ धावन्नशेषभुवनेषु भिया स पश्यन्९-३३-७-२ विश्वत्र चक्रमपि ते गतवान्विरिञ्चं ।९-३३-७-३ कः कालचक्रमतिलङ्घयतीत्यपास्तः९-३३-७-४ शर्वं ययौ स च भवन्तमवन्दतैव ॥९-३३-८-१ भूयो भवन्निलयमेत्य मुनिं नमन्तं९-३३-८-२ प्रोचे भवानहमृषे! ननु भक्तदासः ।९-३३-८-३ ज्ञानं तपश्च विनयान्वितमेव मान्यं९-३३-८-४ याह्यम्बरीषपदमेव भजेति भूमन्! ॥९-३३-९-१ तावत्समेत्य मुनिना स गृहीतपादो९-३३-९-२ राजापसृत्य भवदस्त्रमसाव (नौषी?नावी) ते ।९-३३-९-३ चक्रे गते मुनिरदादखिलाशिषोऽस्मै९-३३-९-४ त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥९-३३-१०-१ राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान्९-३३-१०-२ सम्भोज्य साधु तमृषिं विसृजन्प्रसन्नं ।९-३३-१०-३ भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत्९-३३-१०-४ सायुज्यमाप च स मां पवनेश! पायाः ॥९-३४-१-१ गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे९-३४-१-२ पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यं ।९-३४-१-३ तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो९-३४-१-४ रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥९-३४-२-१ कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो९-३४-२-२ यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः ।९-३४-२-३ न्णां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा९-३४-२-४ लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव! सिद्धाश्रमाख्यं ॥९-३४-३-१ मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन्९-३४-३-२ कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहं ।९-३४-३-३ भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा९-३४-३-४ रायं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ॥९-३४-४-१ आरुन्धाने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजो९-३४-४-२ याते यातोऽस्ययोध्यां सुखमिह निवसन्कान्तया कान्तमूर्ते! ।९-३४-४-३ शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं९-३४-४-४ तातात्रब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥९-३४-५-१ तातोक्या यातुकामो वनमनुजवधूसंयुतश्चापधारः९-३४-५-२ पौरानारूध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी ।९-३४-५-३ नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा-९-३४-५-४ न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥९-३४-६-१ श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात्स्वर्गयातं स्वतातं९-३४-६-२ तप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च ।९-३४-६-३ अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायं९-३४-६-४ हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः! शारभङ्गीं ॥९-३४-७-१ नत्वागस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः९-३४-७-२ प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे ।९-३४-७-३ ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं दीक्ष्य जटायुं९-३४-७-४ मोदाद्गोदातटान्ते परिरमसि पुरा पञ्चवत्यां वधूट्या ॥९-३४-८-१ प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा९-३४-८-२ तां स्ॐइत्रौ विसृज्य प्रबलतमरुषा तेन निर्लुननासां ।९-३४-८-३ दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दुषणं च त्रिमूर्धं९-३४-८-४ व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥९-३४-९-१ सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया-९-३४-९-२ सारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातं ।९-३४-९-३ तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत्९-३४-९-४ तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायायलाभात् ॥९-३४-१०-१ भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने-९-३४-१०-२ त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यं ।९-३४-१०-३ गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं९-३४-१०-४ सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश! ॥९-३५-१-१ नीतः सुग्रीवमैत्रीं तदनु दुन्दुभेः कायमुच्चैः९-३५-१-२ क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत्पत्रिणा सप्त सालान् ।९-३५-१-३ हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्या९-३५-१-४ वर्षावेलामनैषीर्विरहतरलैतस्त्वं मतङ्गाश्रमान्ते ॥९-३५-२-१ सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता-९-३५-२-२ मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्रां ।९-३५-२-३ सन्देशं चान्गुलीयं पवनसुतकरे प्रादिशो मोदशाली९-३५-२-४ मार्गे मार्गे ममार्गे कपिभिरपि तदी त्वत्प्रिया सप्रयासः ॥९-३५-३-१ त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य-९-३५-३-२ प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाङ्गुलीयं ।९-३५-३-३ प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं९-३५-३-४ दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान्मौलिरत्नं ददौ ते ॥९-३५-४-१ त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमि-९-३५-४-२ चक्रोऽभिक्रम्य पारेजल्धि निशिचरेन्द्रानुजाश्रीयमाणः ।९-३५-४-३ तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन्प्रार्थनापार्थ्यरोष-९-३५-४-४ प्रास्ताग्नेयास्त्रतेजस्त्रमदुदधिगिरा लब्धवान्मध्यमार्गं ॥९-३५-५-१ कीशैराशान्तरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो९-३५-५-२ यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः ।९-३५-५-३ व्याकुर्वन्सनुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा९-३५-५-४ वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥९-३५-६-१ स्ॐइत्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल-९-३५-६-२ घ्राणात्प्रणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादं ।९-३५-६-३ मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णं९-३५-६-४ सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वं ॥९-३५-७-१ गृह्णन्जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन्९-३५-७-२ ब्रह्मास्त्रेणास्य भिन्दन्गलततिमबलामग्निशुद्धां प्रगृह्णन् ।९-३५-७-३ देव! श्रेणीवरोज्जीवितसमरमृतैरक्षतैरृक्षसङ्घैर्-९-३५-७-४ लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥९-३५-८-१ प्रीतो दिव्याभिषेकैरयुतसमधिकान्वत्सरान्पर्यरंसीर्-९-३५-८-२ मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः ।९-३५-८-३ शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं९-३५-८-४ तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीत सुतौ ते ॥९-३५-९-१ वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे९-३५-९-२ सीतां त्वय्यासुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः ।९-३५-९-३ हेतोः स्ॐइत्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः९-३५-९-४ साकं नाकं प्रयातो निजपदमगमो देव! वैकुण्ठमाद्यं ॥९-३५-१०-१ सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं९-३५-१०-२ विश्लेषार्तिर्निरागस्त्यजनमपि भवेत्कामधर्मातिसक्त्या ।९-३५-१०-३ नो चेत्स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे!९-३५-१०-४ स त्वं सत्त्वैकमूर्ते! पवनपुरपते! व्याधुनु व्याधितापान् ॥९-३६-१-१ अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो९-३६-१-२ जातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन्कान्तया ।९-३६-१-३ दृष्तो भक्ततमेन हेहयमहीपालेन तस्मै वरा-९-३६-१-४ नष्टैश्वर्यमुखान्प्रदाय ददिथ स्वेनैव चान्ते वधं ॥९-३६-२-१ सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं९-३६-२-२ ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरं ।९-३६-२-३ सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे!९-३६-२-४ रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदं ॥९-३६-३-१ लब्धाम्नायगणश्चतुर्दशवया गन्धर्वराजे मना-९-३६-३-२ गासतां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया ।९-३६-३-३ ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात्पितुस्-९-३६-३-४ तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरं ॥९-३६-४-१ पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्९-३६-४-२ प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिं ।९-३६-४-३ लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं९-३६-४-४ प्राप्तो मित्रमथाकृतवृअणमुनिं प्राप्यागमः स्वाश्रमं ॥९-३६-५-१ आखेटेपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणैस्-९-३६-५-२ त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः ।९-३६-५-३ गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि-९-३६-५-४ प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ॥९-३६-६-१ शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं९-३६-६-२ बिभ्रुद्ध्यातमहोदरोपनिहितं चापं कुठारं शरन् ।९-३६-६-३ आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन्९-३६-६-४ वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरं ॥९-३६-७-१ पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महा-९-३६-७-२ सेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः ।९-३६-७-३ सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो९-३६-७-४ भीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः ॥९-३६-८-१ लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह-९-३६-८-२ श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुं ।९-३६-८-३ चक्रे त्वय्यथ वैष्णवेऽपि विकले बुद्ध्वा हरिं त्वां मुदा९-३६-८-४ ध्यायन्तं छितस्र्वदोषमवधीः सोऽगात्परं ते पदं ॥९-३६-९-१ भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका-९-३६-९-२ माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् ।९-३६-९-३ ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान्९-३६-९-४ दिक्चक्रेषु कुठारयन्विशिखयन्निःक्षात्रियां मेदिनीं ॥९-३६-१०-१ तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन्९-३६-१०-२ सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पित्न् ।९-३६-१०-३ यज्ञे क्ष्मामपि काश्यपादिषु दिशन्साल्वेन युध्यन्पुनः९-३६-१०-४ कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात्कुमारैर्भवान् ॥९-३६-११-१ न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन्पुनर्मज्जितां९-३६-११-२ गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः ।९-३६-११-३ ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं स्रुवक्षेपणा-९-३६-११-४ दुत्सार्योद्धृतकेरलो भृगुपते! वातेश! संरक्ष मां ॥९-३६-११-५ सान्द्राननन्दतनो! हरे! ननु पुरा दैवासुरे सङ्गरे९-३६-११-६ त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिं ।९-३६-११-७ तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिता९-३६-११-८ भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP