नवमोऽध्यायः - द्वितीयमह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


९ - २ - १ अस्येदं कार्यं कारणं संयोगि विरोधि समवायि चेति लैङ्गिकम्।

९ - २ - २ अस्येदं कार्यकारणसम्बन्धश्चावयवाद्भवति।

९ - २ - ३ एतेन शाब्दं व्याख्यातम्।

९ - २ - ४ हेतुरपदेशो लिङ्गं निमित्तं प्रमाणं करणमित्यनर्थान्तरम्।

९ - २ - ५ अस्येदमिति बुद्ध्यपेक्षितत्वात्।

९ - २ - ६ आत्मनः संयोगनिशेषात् संस्काराच्च स्मृतिः।

९ - २ - ७ तथा स्वप्नः।

९ - २ - ८ स्वप्नान्तिकम्।

९ - २ - ९ धर्माच्च।

९ - २ - १० इन्द्रियदोषात् संस्कारदोषाच्चाविद्या।

९ - २ - ११ तद्दुष्टज्ञानम्।

९ - २ - १२ अदुष्टं विद्या।

९ - २ - १३ आर्षं सिद्धदर्शनं च धर्मेभ्यः।

इति कणादसूत्रपाठे नवमोऽध्यायस्य द्वितीयमह्निकम्, नवमोऽध्यायश्च॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP