संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|वैशेषिकदर्शनम्| द्वितीयमाह्निकम् वैशेषिकदर्शनम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथमामह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममह्निकम् द्वितीयमह्निकम् प्रथममाह्निकम् द्वितीयमह्निकम् पञ्चमोऽध्यायः - द्वितीयमाह्निकम् वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्या शतकात याची निर्मिती केली गेली. Tags : kanadकणादवैशेषिकदर्शनसंस्कृत द्वितीयमाह्निकम् Translation - भाषांतर ५ - २ - १ नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म।५ - २ - २ तद्विशेषेणादृष्टकारितम्।५ - २ - ३ अपां संयोगाभावे गुरुत्वात् पतनम्।५ - २ - ४ द्रवत्वात् स्यन्दनम्।५ - २ - ५ नाड्या वायुसंयोगादारोहणम्।५ - २ - ६ नोदनापीडनात् संयोगाच्च।५ - २ - ७ वृक्षाभिसर्पणमित्यदृष्टकारितम्।५ - २ - ८ अपां संघातो विलयनं च तेजःसंयोगात्।५ - २ - ९ तत्र विस्फूर्जथुर्लिङ्गम्ष५ - २ - १० वैदिकं च।५ - २ - ११ अपां संयोगाद्विभाच्च स्तनयित्नोः।५ - २ - १२ पृथिवीकर्मणा तेजःकर्म च व्याख्याताम्।५ - २ - १३ अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनमणूनां मनसश्चाद्यं कर्मादृष्टकारितम्।५ - २ - १४ हस्तकर्मणा मनसः कर्म व्याख्यातम्।५ - २ - १५ आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे।५ - २ - १६ तदनारम्भ आत्मस्थे मनसि सरीरस्य दुःखाभावः स योगः।५ - २ - १७ अपसर्पणमुपसर्पणशितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि।५ - २ - १८ तदभावे संयोगाभावोऽप्रादुर्भावश्च मोक्षः।५ - २ - १९ द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यादभावस्तमः।५ - २ - २० तेजसो द्रव्यान्तरेणावरणाच्च।५ - २ - २१ दिक्कालावाकाशं च क्रियावद् वैधर्म्यान्निष्क्रियाणि।५ - २ - २२ एतेन कर्माणि गुणाश्च व्याख्याताः।५ - २ - २३ निष्क्रियाणां समवायः कर्मेभ्यो निषिद्धः।५ - २ - २४ कारणं त्वसमवायिनो गुणाः।५ - २ - २५ गुणैर्दिग्व्याख्याता।५ - २ - २६ कारणेन कालः।इति कणादसूत्रपाठे पञ्चमोऽध्यास्य द्वितीयमाह्निकम्, पञ्चमोऽध्यायश्च॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP