चतुर्थोऽध्यायः - प्रथममाह्निकम्

वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्‍या शतकात याची निर्मिती केली गेली.


४ - १ - १ सदकारणवन्नित्यम्।

४ - १ - २ तस्य कार्य्यं निङ्गम्।

४ - १ - ३ कारणाभावात् कार्याभावः।

४ - १ - ४ अनित्य इति विशेषतः प्रतिषेधभावः।

४ - १ - ५ अविद्या।

४ - १ - ६ महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिः।

४ - १ - ७ सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावाद्वायोरनुपलब्धिः।

४ - १ - ८ अनेकद्रव्यसमवायात् रूपविशेषाच्च रूपोपलब्धिः।

४ - १ - ९ तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम्।

४ - १ - १० तस्याभावादव्यभिचारः।

४ - १ - ११ सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपद्रव्यसमवायात् चाक्षुषाणि।

४ - १ - १२ अरूपिष्वचाक्षुषाणि।

४ - १ - १३ एतेन गुणत्वे भावे च सर्वेन्द्रयं ज्ञानं व्याख्यातम्।

इति कणादसूत्रपाठे चतुर्थाऽध्यास्य प्रथममाह्निकम्।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP