नवमोऽध्यायः - प्रथममह्निकम्
वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्या शतकात याची निर्मिती केली गेली.
९ - १ - १ क्रियागुणव्यपदेशाभावात् प्रागसत्।
९ - १ - २ सदसत्।
९ - १ - ३ असतः क्रियागुणव्यपदेशाभावादर्थान्तरम्।
९ - १ - ४ सच्चासत्.
९ - १ - ५ यच्चान्यदसदतस्तदसत्।
९ - १ - ६ असदिति भूतप्रत्यक्षाभावात् भूतस्मृतेर्विरोधिप्रत्यक्षवत्।
९ - १ - ७ तथाऽभावे भावप्रत्यक्षत्वाच्च।
९ - १ - ८ एतेनाघटोऽगौरधर्मश्च व्याख्यातः।
९ - १ - ९ अभूतं नास्तीत्यनर्थान्तरम्।
९ - १ - १० नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः।
९ - १ - ११ आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम्।
९ - १ - १२ तथा द्रव्यान्तरेषु प्रत्यक्षम्।
९ - १ - १३ असमाहितान्तःकरणा उपसंहृतसमाधयस्तेषां च ।
९ - १ - १४ तत्समवायात् कर्मगुणेषु।
९ - १ - १५ आत्मसमवायादात्मगुणेषु।
इति कणादसूत्रपाठे नवमोऽध्यायस्य प्रथममह्निकम्।
N/A
References : N/A
Last Updated : November 11, 2016
TOP