संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|वैशेषिकदर्शनम्| प्रथममाह्निकम् वैशेषिकदर्शनम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथमामह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममाह्निकम् द्वितीयमाह्निकम् प्रथममह्निकम् द्वितीयमह्निकम् प्रथममाह्निकम् द्वितीयमह्निकम् द्वितीयोऽध्यायः - प्रथममाह्निकम् वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्या शतकात याची निर्मिती केली गेली. Tags : kanadकणादवैशेषिकदर्शनसंस्कृत प्रथममाह्निकम् Translation - भाषांतर २ - १ - १ रूपरसगन्धस्पर्शवती पृथवी।२ - १ - २ रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः।२ - १ - ३ तेजो रूपस्पर्शवत्।२ - १ - ४ स्पर्शवान् वायुः।२ - १ - ५ त आकाशे न विद्यन्ते।२ - १ - ६ सर्पिर्जतुमधच्छिष्टानामग्निसंयोगाद् द्रत्वमद्भिः सामान्यम्।२ - १ - ७ त्रपुसीलोहरजतसुवर्णानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम्।२ - १ - ८ विषाणी ककुद्मान् प्रान्ते वालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम्।२ - १ - ९ स्पर्शश्च वायोः।२ - १ - १० न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः।२ - १ - ११ अद्रव्यवत्वेन द्रव्यम्।२ - १ - १२ क्रियावत्त्वाद् गुणवत्त्वाच्च।२ - १ - १३ अद्रव्यत्वेन नित्यत्वमुक्तम्।२ - १ - १४ वायोर्वायुसंमूर्च्छनं नानात्वलिङ्गम्।२ - १ - १५ वायुसन्निकर्षे प्रत्यक्षाभावाद् द़ष्टं लिङ्गं न विद्यते।२ - १ - १६ सामान्यतो दृष्टाच्चाविशेषः।२ - १ - १७ तस्मादागमिकम्।२ - १ - १८ संज्ञाकर्म त्वस्माद्विशिष्टानां लिङ्गम्।२ - १ - १९ प्रत्यक्षप्रवृत्तत्वात् संज्ञार्कमणः।२ - १ - २० निष्क्रमणं प्रवेशनमित्याकासस्य लिङ्गम्।२ - १ - २१ तदलिङ्गमेकद्रव्यत्वात् कर्मणः।२ - १ - २२ कारणान्तरानुक्लृप्तिवैधर्म्याच्च।२ - १ - २३ संयोगादभावः कर्मणः।२ - १ - २४ कारणगुणपूर्वकः कारयगुणो दृष्टः।२ - १ - २५ कार्यन्तराप्रदुर्भावाच्च शब्दः स्पर्शवतामगुणः।२ - १ - २६ परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः।२ - १ - २७ परिशेषाल्लिङ्गमाकाशस्य।२ - १ - २८ द्रव्यत्वनित्यत्वे वायुना व्याख्याते।२ - १ - २९ तत्त्वमभावेन।२ - १ - ३० शब्दलिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च।२ - १ - ३१ तदनुविधानादेकपृथक्त्वं चेति।इति काणादसूत्रपाठे द्वितीयोऽध्यास्य प्रथममाह्निकम्। N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP