प्रथमोऽध्यायः - प्रथममाह्निकम्
वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्या शतकात याची निर्मिती केली गेली.
१ - १ - १ अथातो धर्मं व्याख्यास्यामाः।
१ - १ - २ यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः।
१ - १ - ३ तद्वचनादाम्नायस्य प्रामाण्यम्।
१ - १ - ४ धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधार्म्यवैधर्मयाभ्यां तत्त्वज्ञानन् निःश्रेयसम्।
१ - १ - ५ पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि।
१ - १ - ६ रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः।
१ - १ - ७ उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि।
१ - १ - ८ सदानित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः।
१ - १ - ९ दव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम्।
१ - १ - १० द्रव्याणि द्रव्यान्तरमारभन्ते, गुणाश्च गुणान्तरम्।
१ - १ - ११ कर्म कर्मसाध्यं न विद्यते।
१ - १ - १२ न द्रव्यं कार्यं कारणं च भवति।
१ - १ - १३ उभयथा गुणाः।
१ - १ - १४ कार्यविरोधि कर्म।
१ - १ - १५ क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम्।
१ - १ - १६ द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्।
१ - १ - १७ एकद्रव्यमगुणं संयोगविभागेष्वपेक्षकारणमिति कर्मलक्षणम्।
१ - १ - १८ द्र्यगुणर्मणां द्रव्यं कारणं सामान्यम्।
१ - १ - १९ तथा गुणः।
१ - १ - २० संयोगविभागवेगानां कर्म समानम्।
१ - १ - २१ न द्रव्याणां कर्म।
१ - १ - २२ व्यतिरेकात्।
१ - १ - २३ द्रव्याणां द्रव्यं कार्य्यं सामान्यम्।
१ - १ - २४ गुणवैधर्मयान्न कर्मणां कर्म।
१ - १ - २५ द्वित्वप्रभृतयः संख्याः पृथक्त्वसंयोगविभागाश्च।
१ - १ - २६ असमवायात् सामान्यकार्यं कर्म न विद्यते।
१ - १ - २७ संयोगानां द्रव्यम्।
१ - १ - २८ रूपाणां रूपम् ।
१ - १ - २९ गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम्।
१ - १ - ३० संयोगविभागाश्च कर्मणाम्।
१ - १ - ३१ कारणसामान्ये द्रव्यकर्मणा कर्माकारणमुक्तम्।
इति काणादसूत्रपाठे प्रथमोऽध्यास्य प्रथममाह्निकम्।
N/A
References : N/A
Last Updated : November 11, 2016
TOP