तृतीयोऽध्यायः - द्वितीयमाह्निकम्
वैशेषिकदर्शनम् या ग्रंथाचे मूळ प्रवर्तक ऋषि कणाद होत. ई.पू. दुसर्या शतकात याची निर्मिती केली गेली.
३ - २ - १ आत्मेन्द्रियार्थसन्निकर्षज्ञानस्य भावोऽभावश्च मनसो लिङ्गम्।
३ - २ - २ तस्य द्व्यत्वनित्यत्वे वायुना व्याख्याते।
३ - २ - ३ प्रयत्नाद्योगपद्याज्ज्ञानायोगपद्याच्चैकम्।
३ - २ - ४ प्राणाऽपाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः। सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि।
३ - २ - ५ तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते।
३ - २ - ६ यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते।
३ - २ - ७ सामान्यतो दृष्टाच्च विशेषः।
३ - २ - ८ तस्मादागमिकः ।
३ - २ - ९ अहमिति शब्दस्य व्यतिरेकान्नागमिकम्।
३ - २ - १० यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति।
३ - २ - ११ दृष्ट्यात्मनि लिङ्गे एक एव दृढत्वात् प्रत्यक्षवत् प्रत्ययः।
३ - २ - १२ देवदत्तो गच्छति यज्ञदत्तो गच्छतूत्यपचाराच्छरीरे प्रत्ययः।
३ - २ - १३ सन्दिग्धास्तूपचाराः।
३ - २ - १४ अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः।
३ - २ - १५ देवदत्ते गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षोऽहङ्कारः।
३ - २ - १६ सन्दिग्धास्तूपचाराः।
३ - २ - १७ न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्रयोर्ज्ञानविषयः।
३ - २ - १८ अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यतिरेकाव्यभिचाराद् विशेषसिद्धेर्नागमिकः।
३ - २ - १९ सुखदुःखज्ञाननिष्पत्त्यविशेषादैकात्म्यम्।
३ - २ - २० व्यवस्थातो नाना।
३ - २ - २१ शास्त्रसामर्थ्याच्च।
इति कणादसूत्रपाठे तृतीयोऽध्यायस्य द्वितीयमाह्निकम्, तृतीयोऽध्यायश्च॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP