योगयात्रा - प्रोत्साहनाध्याय

योग शास्त्र ऋषी मुनींनी जगाला शिकविले.


शूरकृतास्रमहाकुलजाताः स्वामिहिता बलिनः कृतयोग्याः ।
दृष्टगुणा बहुबान्धवमित्रा नागकरोरुभुजाः कठिनाङ्गाः ॥
व्याघ्रमृगेश्वरगोवृषनादाः श्येनदृशः शुकसन्निभनासाः ।
केकरजिह्मनिमीलितनेत्राः पुण्यकृतां समरेषु सहायाः ॥
देशगुणैः प्रथिताश् च पुरोगास् ते बहवो गुणलक्षणलक्ष्याः ।
कालभृतो भृकुटीकृतवक्रावमभृतो विविधायुधहस्ताः ॥
दण्डोरगौ रविसुतस्य रवेस् तु चक्रं शुक्रस्य पद्मशकटौ गरुडो बुधस्य ।
व्यूहौ तु सूचिमकरौ धरणीसुतस्य श्येनो गुरोः शिशिरगोर् अपि मण्डलाख्यः ॥
व्यूहम् आत्मशुभदग्रहस्य यद् विद्विषाम् अशुभसंस्थितस्य वा ।
तत्प्रयोज्यम् अरियोजितस्य वा घातनं तदरिभिर् बलोत्तरैः ॥
रणे प्रत्यासन्ने सदसि नृपतिर् मन्त्रिविदितं
बलोत्साहं कुर्याद् अहितवलविद्रावणकरम् ।
जयं नो दैवज्ञः कथयति जनः सत्यवचनो
निमित्तानीष्टानि द्विपतुरगयोधादिषु च मे ॥
अभिजनयुता यूयं सौर्यं जनाः कथयन्ति वो
धनुषि कणये चक्रे शक्त्याम् असौ च कृतश्रमाः ।
मयि च भवताम् अस्ति स्नेहः कथन् न जयो मम
द्विरदतुरगं स्याद् आक्रान्तं भवद्भिर् इदं यदा ॥
बृंहन्ति हेषन्ति शिवं ब्रुवन्ति दीप्यन्ति शोचन्ति मुदान्विताश् च ।
नागाश्वविप्रानलशत्रुयोधाः कः संशयश् चात्र रणे जयस्य ॥
द्वेषायनेन मुनिना मनुना च धर्मा युद्धेषु ये निगदिता विदितास् तु ते वः ।
स्वाम्यर्थगोद्विजहिते त्यजतां शरीरं लोका भवन्ति सुलभा विपुलं जयश् च ॥
तपस्विभिर् या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिर् इज्यया च या ।
व्रजन्ति ताम् आशु गतिं मनस्विनो रणाश्वमेधे पशुताम् उपागतः ॥
यस्य तपो न जनाः कथयन्ति नो मरणं समरे विजयञ् च ।
न श्रुतदानमहाधनतां वा तस्य भवः कृमिकीटसमानः ॥
सरक्ष्यमाणम् अपि नाशम् उपैत्य् अवश्यम् एतच् छरीरम् अपहाय सुहृत्सुतार्थान् ।
तत् किं वरं प्रलपतां सुहृदां समक्षं किं निध्नतः परबलं भृकुटीमुखस्य ॥
हा तात मातेति च वेदनार्त्थाः धवणञ् छकृन्मूत्रकफानुलिप्तः ।
वरं मृतः किं भवने किम् आजौ सन्दष्टदन्तच्छदभीमवक्त्रः ॥
लोकः शुभस् तिष्ठतु तावद् अन्यः पराङ्मुखानां समरेषु पुंसाम् ।
पत्न्यो ऽपि तेषां न ह्रिया मुखानि पुरः सखीनाम् अवलोकयन्ति ॥
शत्रुसैन्यम् अवदार्य वर्त्ततां यत् सुखन्तु कथयामि तादृशम् ।
शृण्वतां स्वयशसोग्रपल्लवान् दिग्बधूवदनकर्णपूरकान् ॥
निपतति शिरसि द्विपस्य सिंहः स्वतनुशताधिकमांसराशिमूर्त्तेः ।
पिबति च तदसृग्मदेष्टगन्धं वदनगतांश् च शनैः प्रसृज्य मुक्तान् ॥
मणिकनकविभूषिता युवत्यो द्विपतुरगं वसु चामरानिलश् च ।
अविरलशशिकान्ति चातपत्रं भवति न मातृमुखस्य युद्धभीरोः ॥
रुचिमत्कु बाहुपञ्जरे हरिनाक्ष्यः प्रवरोरुपीडनम् ।
रमयन्ति विमानसंस्थिताः सुरबध्वो ऽतिमुदा रणार्जिताः ॥
एकतो ऽस्य सुरसुन्दरीजनः श्रीः प्रतीच्छति युयुत्सुतो ऽन्यः ।
पद्मया सह पलायते यशश् चैकतः कुलकलङ्ककारकम् ॥
आरामदेवकुलकूपतडागयज्ञा ये वः कृता बिलसितञ् च नृपप्रसादात् ।
तद् वो वृथो यदि न निश्छलमाजिमध्ये विद्युल्लताविकसितानि करोति वो ऽसिः ॥
चित्रं किम् अस्मिन् वद साहसं वा यत् स्वामिनो ऽर्थे गनयन्ति नासून् ।
युद्धात् प्रनष्टो विदितो ऽरिमध्ये यद्वालिश स्तष्ठति साहसं तत् ॥
न केवलं गात्रविभूषणानि क्षतानि शूरस्य रणे कृतानि ।
यशस्तरोर् मूलकृषिक्षतानि तान्य् एव वंशस्य विभूषणानि ॥
भग्नेषु योधेष्व् अवपूर्य शस्त्राण्य् आजौ प्रवृत्ता व्यसवः कृता ये ।
ऊर्ध्वानना वाजिमखाप्तलोकास् तेषां विमानान्य् अवलोकयन्ति ॥
यैर् श्वमेधे ऽभिहितं फलं वा देवैर् द्विजैर् वा श्रुतिशास्त्रकारैः ।
तैर् एव भङ्गे प्रतिलोमगस्य पदे पदे वाजिमखः प्रदिष्टः ॥
स्वर्गस्य मार्गा बहवः प्रदिष्टास् ते कृच्छ्रसाध्याः कुटिलाः सविघ्नाः ।
निमेषमात्रेण महाफलो ऽयम् ऋजुश् च पन्थाः समरे व्यासुत्वम् ॥
दृष्टाइश्वर्यं स्वामिगोब्राह्मणार्थे त्यक्तासूनां सङ्गरे सङ्गतानाम् ।
कृच्छ्रोपायैर् अर्जितस्वर्गलोकाः जन्मेच्छन्ति क्षिप्रम् एवाजिलोभात् ॥
संमूर्च्छितं संयुगसंप्रहारैः पश्यन्ति सुप्तप्रतिबुद्धतुल्यम् ।
आत्मानम् अङ्केषु सुराङ्गनानां मन्दाकिनीमारुतबीजिताङ्गाः ॥
जीवितो ऽपि निहतस्य वा रणे धर्म एव हि नरस्य युध्यतः ।
निश्चयान् न मरणां हि सङ्गरे नैव भीरुजरामरः क्वचित् ॥
मानमात्रम् अवलम्ब्य युध्यते कीटको ऽपि विहगो ऽथ वा पशुः ।
को हि नाम पुरुषस् त्यजेद् रणं स्वगमानसुखकीर्त्तिवित्तदम् ॥
यद् अभावि न मे ऽस्ति तत् क्वचित् सदसद्भावि न मे क्व यास्यति ।
इति संपरिचिन्त्य पण्डिताः परसैन्यानि विशन्त्य् अविक्लवाः ॥
उरः कृत्वा वेद्यां मणिफलकगाढस्थितकुचं भुजा वालम्ब्यैर् हीत्यमरवनिता व्योमगृहगाः ।
अपद्वारेणैवं त्वरितपदम् अत्याहुर् अपरा हतं हस्तालघ्वैर् हरति सुरलोको रणमुखात् ॥
हंसाढयं मणिवेदिकाकुहरकव्यालं बिहाराम्बरं
निर्व्यूहस्थितरत्नचित्रकनकं स्तम्भाश्रितं व्यालकम् ।
घण्टाकिङ्किणिचारुचामरयुतस्त्रीगीतनृत्यान्वितं
बालार्कोपमम् आविशन्त्य् अभिमुखा युद्धे विमानं हताः ॥

N/A

References : N/A
Last Updated : November 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP