संस्कृत सूची|शास्त्रः|योग शास्त्रः|योगयात्रा| आचाराध्याय योगयात्रा दैवपुरुषाकाराध्याय आचाराध्याय अभियोगाध्याय योगाध्याय बल्युपहाराध्याये नक्षत्रविजयस्नानप्राशन् अग्निनिमिताध्याय नक्षत्रकेन्दुभाध्याय हस्तिलक्षणाध्याय अश्वेङ्गिताध्याय खड्गलक्षणाद्याय प्रस्थानिकाध्याय शकुनाध्याय प्रोत्साहनाध्याय उपसंहाराध्याय योगयात्रा - आचाराध्याय योग शास्त्र ऋषी मुनींनी जगाला शिकविले. Tags : astrologyhoroscopevarahamihiryogayogayatraयोगयोगयात्रावराहमिहिर आचाराध्याय Translation - भाषांतर रक्तासिताद्या हि यथाम्बरस्य वर्णाः सितस्यैष भवन्ति सम्यक् ।विलग्नतिथ्यादिगुणास् तथैव विशुद्धदोषस्य भवन्ति यातुः ॥मद्याङ्गनावादितनृत्यगीतान्य् अक्षा वृथाद्या(वृथाट्या) मृगया द्युनिद्रा ।परोक्षनिन्देति च कामजानि दशैव विन्द्याद्(विद्याद्) व्यसनानि पुंसाम् ॥वाक्पारुष्यं दण्डपारुष्यम् ईर्ष्यां(ईर्ष्या) द्रोहो ऽसूया पैशुनं साहसञ् च ।अर्थस्योक्तं दूषणं च ऽष्टसंख्यः क्रोधोद्भूतो वर्ग एष प्रदिष्टः ।महद् इदम् अनयानाम् आस्पदं मद्यम् आहुस् तनुधनमतिसत्त्वश्रेयसां कर्षणाय । समुपहतमतिः सन्(संस्) तत्प्रधानेन्द्रियत्वाद् गणयति न हि भक्ष्याभक्ष्यम् अन्यानि चैवम् ॥पत्नीयत्य् अपि मातरं मदवशात् पत्नीं च मात्रीयतिश्वभ्रीयत्य् अपि मन्दिरं श्लथशिलं कूपं च गेहीयति ।स्वल्पं वार्य् उदधीयतीश्वरम् अपां मोहात् स्थलीयत्य् अपिमित्रीयत्य् अपि पार्थिवं किम् अपरं कुर्यान् न यन् मद्यपः ॥भूयो ऽपि दीव्यति जितो जयलिप्सयैव प्राप्नोति तच् च सविशेषतरं कदाचित् ।कृत्वा ऽप्रियाणि मदतः परितो ऽप्य् अटन्ति(परितप्य चान्ते) भूयः(भूपः) पिवेत् किम् अपि दोषविशेषकांक्षी ॥अभ्यागमोत्सवभिषग्वचनोपदेशैः कामं पिबेद् अमतिलोपकृद् अप्रकाशम्(आप्रकामम्) ।द्यूतं विनेन्द्रियसुखानि हितानि युक्त्या विज्ञस्य(शून्यं हि) जीवितफलं विषयैर् विना किम् ॥शौचाचारविवर्जितः शव इव त्यक्तः सुहृद्बान्धवैर्निश्शङ्को निरपत्रपो गतघृणः कृच्छ्राद् अवाप्ताशनः ।बन्धुर् नास्य निबन्धनं न शपथो लोकद्वयं नेक्ष्यतेमायावी कुलपांशलश् च कितवो दोषाकरो(दोषार्णवो) निःसुखः ॥दैवज्ञमन्त्रिसुहृदाप्तवचांसि राजा यो न ऽऽद्रियेन् निजविचेष्टितदुष्टबुद्धिः(द्रियेत् स्वमतिचेष्टितदुष्टबुद्धिः) ।सो ऽग्रेमरेण(सन्नायकेन) रहितो ऽन्ध इव ऽचिरेण हास्यत्वम् एति पतितो विषये रिपूणाम् ॥मेधावी मतिमान् अदीनवचनो दक्षः क्षमावान् ऋजुर्धर्मात्माप्य्(धर्मात्मा त्व्) अनसूयको लघुकरः षाड्गुण्यविच् छक्तिमान् ।उत्साही पररन्ध्रवित् कृतधृतिर् वृद्धिक्षयस्थानवित्शूरो न व्यसनी स्मरत्य् उपकृतिं(उपकृतं) वृद्धोपसेवी च यः ॥परीक्ष्यकारी न विकस्थनश्(विकत्थनश्) च दृढपतिज्ञो ऽतिदृढपहारी ।जितेन्द्रियः स्याज् जितकोपलोभनिद्रालसस्थानपरिग्रहश् च ॥त्यागी विनीतः प्रियदर्शनश् च व्यपेतमोहः प्रतिपत्तियुक्तः ।देशस्य कालस्य च भागविज्ञः(भागविद् यः) स्वयं च यः स्याद् व्यवहारदर्शी ॥शब्दार्थविन् न्यायापटुः प्रगल्भः संग्रामविद्याकुशलो ऽभिजातः ।स्मिताभिभाषी मितसत्यवक्ता दैवान्वितो यस्य(यश् च) स धाम लक्ष्म्याः ॥गुणैः समस्तैर् अपि संप्रयुक्ता कन्येव यात्रा विगुणाय दत्ता ।करोत्य् अकीर्तिं सुखवित्तहानिं(सुखवित्तहीनां) यात्रान्तरज्ञानजडस्य(पात्रान्तरज्ञानजडस्य) दातुः ।गुणान्वितस्यैव गुणं करोति यात्रा शुभर्क्षग्रहलग्नयोगात् ।व्यर्था सदोषस्य गुणान्विता ऽपि वीणेव शब्दाश्रयवर्जितस्य ॥यात्रा विशुद्धा ऽपि समं प्रवृत्ता पात्रानुरूपाणि फलानि धत्ते ।जगत्य् उदीर्णा ऽपि हि कौशिकस्य भा भानवी नैव तमः प्रमार्ष्टि ॥विचिन्त्य कार्याणि निशावसाने द्विषत्सुहृन्मण्डलसंश्रितानाम् ।बलार्थदेशेषु नियोजितानां समाश्रितानां च कृताकृतानि ॥अनाद्श्रितः ख्यातगुणः परो ऽपि शूरो ऽथवा साधुजनः प्रशस्तः ।सम्पूजनीयो जनसंप्रहार्थम् ममेति देशोपगतो विचिन्त्य ॥सवेणुबीणापणवस्वनेन गीतेन पूर्वं व्यपनीतनिद्रः ।शय्यां त्यजेत् तूर्यरवावसाने शृण्वन् गिरो मङ्गलपाठकानाम् ॥अज्ञातपूर्वाणि न दन्तकाष्ठान्य् अद्यान् न पत्रैश् च समन्वितानि ।न चोर्ध्वशुष्कानि(युग्मपर्वाणि) न पाटितानि न युग्मपर्वाणि(चोर्ध्वशुष्कानि) विना त्वचा च ॥उदङ्मुखः प्राङ्मुखसंस्थितो वा ऋज्व् अब्रणं तच् च वितस्तिमात्रम् ।अद्यान् नरेन्द्रो विनियम्य(विनिगृह्या) वाचं प्रक्षाल्य जह्याच् च शुभप्रदेशे(शुचौ प्रदेशे) ॥अभिमुखपतितं प्रशान्तदिक्स्थं शुभम् अतिशोभनम् ऊर्ध्वसंस्थितं च ।अशुभकरम् अतो ऽन्यथा प्रदिष्टं स्थितपतितं च करोति मिष्टम्(मृष्टम्) अन्नम् ॥प्रणम्य देवांश् च गुरूंश्(देवाण् स्वगुरूंश् च) पूर्वं दत्वा च गां वत्सयुतां द्विजाय ।दृष्ट्वा मुखं सर्पिषि दर्पणे च नक्षत्रम् आदौ शृणुयात् तिथिं च ॥श्रुत्वा तिथिं भग्रहवासरं(भं ग्रहवासरं) च प्राप्नोति धर्मार्थयशांसि सौख्यम् ।आरोग्यम् आयुर् विजयं सुतांश् च दुःस्वप्नजातं(दुःस्वप्नघातं) प्रियतां च लोके ॥दूर्वेभदानाञ्जनतीर्थतोयमृद्रोचनासर्षपपुष्पगन्धान् । सिताम्बरोष्णीषसुवणरत्नान्य् आसेव्य कुर्याद् भिषजां वचांसि ॥स्मितप्रसन्नप्रथमाभिभाषितैः प्रसाददृष्ट्या करसंपरिग्रहैः ।यथाभिरूपं(यथानूपं) हृदयान्य् अपि द्विषां प्रसादयन् धर्मसभां समाश्रयेत् ॥विनीतवेषाभरणः सदक्षिणं(विनीतवेषाभरणश् च दक्षिणं) कर(करं) समुद्यम्य विचक्षणान्वितः ।सुखोपविष्टः स्थित एव वा नृपः समारिमित्रो व्यवहारदर्शने ॥क्षमान्वितो ऽस्मीति विचिन्त्यम् एतद् दण्ड्येषु दण्डक्षमणं न धर्मः ।दण्डप्रभोआवो हि स दुर्जनस्य हस्ते न यो जीवति साधुवर्गः ॥सुतराम् अभिवर्द्धते ऽभिमानो नीचानां क्षमया ऽन्वितेषु यस्मात् ।अत उग्रतरेण ते निवर्त्त्या येन ऽन्ये ऽपि खलास् तथा न भूयः ॥यस्मिन् गृहीतः(गृहीते) सदृशापराधो महाजनस् त्रासम् उपैति तस्मिन् ।दण्डो निपात्यो मनुजेश्वरेन कालान्तरे ऽन्यद् व्यपदिश्य कार्यम् ॥द्विरद इव मदेन विप्रयुक्तो विषरहितो भुजगो व्यसिश् च कोशः ।परिभवम् उपयाति न ऽपराधे यदि मनुजाधिपतिः करोति दण्डम् ॥एकस्य तुल्योदरपाणिपादा दण्डात् प्रभीताः(दण्डस्य भीताः) प्रणमन्ति मर्त्याः ।अत्युग्रदण्डाद् अपि चोद्विजन्ते दण्डो ऽपराधप्रतिमः शिवाय ॥दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोशस्य च संप्रवृद्धिः ।अपक्षपातो ऽर्थिषु राष्ट्ररक्षा पञ्चैव यज्ञाः कथिता नृपाणाम् ॥श्रान्तश् च तस्मिन् विनियुज्य साधून् संग्रामविद्यादिविभक्तकालः ।सर्वाणि कार्याणि यथाक्रमेण कुर्यान् नृपः प्रत्यहम् आत्मवांश् च ॥राज्ञा कार्यं पञ्चमे पञ्चमे ऽह्नि क्षौरर्क्षे वा श्मश्रु भस्योदये(तस्योदये) वा ।त्यक्त्वा ताराः पञ्चसप्तत्रिपूर्वा(सप्तपञ्चत्रिपूर्वा) यात्राकाले नैव कार्यं न युद्धे ॥आचारस्थः सागरान्तां धरित्रीं भुङ्क्ते दीर्धं कालम् उत्खातशत्रुः ।यत्रा ऽऽचारस् तत्र धर्मस्य वृद्धिर् धर्माद् भोगान् देहभेदे ऽपि भुङ्क्ते ॥ N/A References : N/A Last Updated : November 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP