योगयात्रा - खड्गलक्षणाद्याय
योग शास्त्र ऋषी मुनींनी जगाला शिकविले.
अङ्गुलशतार्द्धम् उत्तम ऊनः स्यात् पञ्चविंशतिः खड्गः ।
अंगुलमानाज् ज्ञेयः समांगुलस्थो व्रणः शुभदः ॥
श्रीवृक्षवर्धमानातपत्रशिवलिङ्गकुण्डलाब्जानाम् ।
सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानां च ॥
कृकलासकाककङ्कक्रव्यादकबन्धवृश्चिकाकृतयः ।
खड्गे व्रणा न शुभदा वंशानुगताः प्रभूताश् च ॥
स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृङ्मनो ऽनुगतः ।
अस्वर इति चानिष्टः प्रोक्तविपर्यस्त इष्टफलः ॥
क्वणितं मरणायोक्तं पराजयायाप्रवर्त्तनम् कोशात् ।
स्वयम् उद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्गे ॥
नाकारणं विवृणुयान् न विघट्टयेच् च पश्येन् न तत्र वदनं न वदेच् च मूल्यम् ।
देशं न वास्य कथयेत् प्रतिमानयेच् च नैव स्पृशेन् नृपतिर् अप्रयतो ऽसियष्टिम् ॥
गोजिह्वासंस्थानो नीलोत्पलवंशपत्रसदृशश् च ।
करवीरपत्रसदृशश् चन्द्रमण्डलाग्रः प्रशस्तश् च ॥
निष्पन्नो न छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः ।
मृते म्रियते स्वामी जननी तस्याग्रतश् छिन्ने ॥
यस्मिन् त्सरुप्रदेशे व्रणो भवेत् तद्वद् एव खड्गस्य ।
वनितानाम् इव तिलकं गुह्ये वाच्यो मुखे दृष्ट्वा ॥
अथवा स्पृशति यद् अङ्गं प्रष्टा निस्त्रिंशभृत् तद् अवधार्य ।
कोशस्थस्यादेश्यो व्रणो ऽसिशास्त्रं विदित्वेदम् ॥
शिरसि स्पृष्टे प्रथमे ऽङ्गुले द्वितीये ललाटसंस्पर्शे ।
भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चतुर्थे च ॥
नासौष्ठकपोलहनुश्रवणग्रीवांशकेषु पञ्चाद्याः ।
उरसि द्वादशसंस्थः त्रयोदशे कक्षयोर् ज्ञेयः ॥
स्तनहृदयोदरकुक्षौ नाभौ च चतुर्दशादयो ज्ञेयाः ।
नाभीमूले कट्यां गुह्ये चैकोनविंशतितः स्यात् ॥
ऊर्वोर् द्वाविंशे स्याद् ऊर्वोर् मध्ये व्रणस् त्रयोविंशे ।
जानुनि च चतुर्विंशे जघायां पञ्चविंशे स्यात् ॥
जङ्घामध्ये गुल्फे पार्ष्ण्यां पादे तथाङ्गुलीष्व् अपि च ।
षड्विंशादिषु यावत् त्रिंशाद् इति मतेन गर्गस्य ॥
पुत्रमरणं धनाप्तिर् धनहानिः सम्पदश् च वधश् च ।
एकाद्यंगुलसंस्थैर् व्रणैः फलं निर्दिशेत् क्रमशः ॥
सुतलाभः कलहो हस्तिलयः पुत्रमरणधनलाभौ ।
क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति ॥
लब्धिर् हानिस्त्रीलयो वधो वृधिमरणपरितोषाः ।
ज्ञेयाश् च चतुर्दशादिषु धनहानिश् चैकविंशे स्यात् ॥
वित्ताप्तिर् अनिर्वाणं धनागमो मृत्युसम्पदो ऽस्वत्वम् ।
ऐश्वर्यमृत्युराज्यानि च क्रमात् त्रिंशद् इति यावत् ॥
परतो न विशेषफलं विषमसमस्थाश् च पापशुभफलदाः ।
कैश् चिद् अफलाः प्रदिष्टास् त्रिंशत् परतो ऽग्रम् इति यावत् ॥
करवीरोत्पलगजमदघृतकुंकुमकुन्दचम्पकसुगन्धिः ।
शुभदो गोमूत्रहरितालपङ्कमेदसदृशगन्धिः ॥
कूर्मवसा ऽस्टकक्षारोपमश् च भयदुःखदो भवति गन्धः ।
वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः ॥
इदम् ऐशनसञ् च शस्त्रपानं रुधिरेण श्रियम् इच्छतः प्रदीप्ताम् ।
हविषा गुणवत् सुताभिलिप्सोः सलिलेनाक्षयम् इच्छतश् च वित्तम् ॥
वडवोष्ट्रकरेणदुग्धपानं यदि पापेन समीहते ऽर्थसिधिः ।
झषपित्तमृगाश्ववस्तदुग्धैः करिहस्तच्छिदये सतालगर्भैः ।
आर्कं पयो हुडविषाणमषीसमेतं पारावताखुशकृता च युतं प्रलेषः ।
शस्त्रस्य तैलमथितस्य ततो ऽस्य पानं पश्चाच् छ्रितस्य न शिलासु भवेद् विघातः ॥
क्षारे कदन्या मथितेन युक्ते दिनोषिते पायुतमायसं यत् ।
सम्यक् छिरितं चाश्मनि नैति भङ्गम् न चान्यलौहेष्व् अपि तस्य कौष्ठ्यम् ॥
N/A
References : N/A
Last Updated : November 14, 2011
TOP