योगयात्रा - अभियोगाध्याय

योग शास्त्र ऋषी मुनींनी जगाला शिकविले.


अभिहितगुणसंयुतेन राज्ञा कथितगुणात्ययसंस्थितो ऽभियोज्यः ।
उपहतम् उपलभ्य चास्य देशं बलम् अथवा निरुपद्रुतो ऽभियुञ्ज्यात् ॥
प्रचुरमशकयूकं मक्षिकादम्शपूर्वं बलम् अजलदवृष्ट्या पांशुवाताहतं वा(पांशुपाताहतं च) ।
पिशितरुधिरधान्यप्राणिवृष्ट्या हतम् वा( च) करितुरगमनुष्या यत्र वाध्या न दीनाः(च ध्यानदीनाः) ॥
शब्दायन्ते मुहुर् अपि शिवा गर्दभध्वानतुल्यं
त्यक्तस्नेहाः परिजनसुहृद्वाहनोपस्करेषु ।
कष्टं को नः शरणम् इति वा वादिनो यस्य सैन्ये
विद्विष्टा वा प्रवरपुरुषाः सो ऽभियोज्यो नृपेण ॥
निरालस्यावनतवदनाः केतनस्वप्नशीला
भ्रष्टाचारा मलिनपुरुषच्छायया ऽऽक्रान्तदेहाः ।
दीर्घश्वासाः सजलनयनाः शोकलोभाभिभूताः
सैन्ये यस्य द्विजगुरुसुहृद्द्वेषिणश् चैव योधाः ॥
अकारणप्रोद्गतरोमकूपा जये निराशाः प्रकृतेर् अपेताः ।
अमङ्गलाचेष्टितजातहासाः सैन्ये नरा यस्य स चाभियोज्यः ॥
कपोतकोलूकमधूनि यस्य समाश्रयन्ते ध्वजचामराणि ।
छत्रायुधादीनि(छत्रायुधाद्यानि) च सो ऽभियोज्यो यस्याथवा ऽस्यजलाशयानाम्(ऽनाहततूर्यशब्दाः) ।
प्रतीपगत्वं सरिताम् इषोश् च शोषो ऽथवा ऽशोष्यजलाशयानाम् ।
अवारिदेशे सलिलप्रवृतिर् अहैतुकं(अवैकृते) चाप्सु तरेच् छिला वा ॥
भङ्गपातचलनान्य् अनिमित्तं रोदनानि च सुरप्रतिमानाम् ।
अग्निरूपम् अनिलेन विना वा निश्चलानि च यदा प्रचलन्ति ॥
प्रसूतिवैकृत्यम् अकालपुष्पाण्य् आरण्यसत्त्वस्य पुरप्रवेशः ।
प्रदोषकाले कृकवाकुशब्दा हिमागमे च ऽन्यभृतः प्रलापाः(ऽन्यभृतप्रलापाः) ॥
दीर्घं दीनं संहताः सारमेयाः क्रोशन्त्य् उच्चैर् नित्यम् एव ऽनृतौ च ।
हन्युर् योषा योषितो निर्घृणाश् च दृष्यं नित्यं(श्वेतः काको) नक्तम् इद्रायुधं वा(च) ॥
तिला वितैला यदि वा ऽर्द्धतैला(र्द्धतैलाः) सस्यस्य वृद्धिर् यदि वा ऽतिरिक्ता ।
अन्नस्य वैरस्यम् असृक् तरूणां शुष्कप्ररोहो विरुजां प्रणाशः ॥
विहाय सर्पाखुविडालमत्स्यान् स्वजातिमांसान्य् उपभुञ्जते वा ।
व्रजन्ति वा मैथुनम् अन्यजात्यां दीप्ताश् च नित्यं विहगा मृगाश् च ॥
भङ्गः पातस् तोरणेन्द्रध्वजानां शीतोष्मानां व्यत्ययो भूविदारः ।
निम्नोच्चानां तुङ्गता निम्नता च(वा) छाया चा(वा) ऽर्कस्य ऽऽभिमुख्येन याता ॥
त्र्यहातिरिक्तः पवनो ऽतिचण्डो गन्धर्वसंज्ञस्य भवेत् पुरस्य ।
व्यक्तिर् भवेच् च ऽहनि तारकाणां नक्तं च तारागणसंप्रणाशः ॥
प्रासादवेश्मवसुधाशरगुल्मनिम्नेष्व् आवासका बलिभुजाम् अनपत्यता वा ।
एकाण्डजत्वम्(एकात्मजत्वम्) अथवा भुवि मण्डलानि कुर्वन्ति चक्रकम् इवोपरि वा भ्रमन्तः ॥
उल्का ऽभिघातेन तमो ऽतिदीप्त्या वक्रातिवक्रेन सुतो धरित्र्याः ।
केतुर् गतिस्पर्शन -- धूपनेन चारेण पीडां कुरुते ऽर्कपुत्रः ॥
त्रिभिस् त्रिभिर् भैर् अथ कृत्तिकाद्यैर् निपीडितैर्(निष्पीडितैर्) भूपतयो ऽभियोज्याः ।
पाञ्चालनाथो मगधाधिपश् च कलिङ्गराड् उज्जयिनीपतिश् च ॥
आनर्त्तराट् सैन्धवहारहोरौ(सैन्धवहारहौरौ) मद्रेश्वरो ऽन्यश् च कुरङ्गनाथः(कुलिन्दनाथः) ।
एते हि कूर्माङ्गसमाश्रितानां विशेषपीडाम् उपयान्ति भूपाः ॥
अङ्गेषु सूर्यो यवनेषु चन्द्रो भौमो ह्य् अवन्त्यां मगधेषु सौम्यः ।
सिन्धौ गुरुर् भोजकटे च(भोजकटेषु) शुक्रः सौरः सुराष्ट्रे विषये बभूव ॥
म्लेच्छेषु केतुश् च तमः कलिङ्गे यातो(जातो) यतो ऽतः परिपीडयन्ति(परिपिडितास् ते) ।
स्वजन्मदेशान् परिपीडयन्ति ततो(ते ऽतो) ऽभियोज्या क्षितिपेन देशाः ॥
सम्पूज्यन्ते भैरवोच्चानुनादै(भैरवोच्चानुरावै) रक्तैर् मांसैस् तालजङ्घादयो वा ।
दृश्यन्ते वा यातुधानाः प्रभूता भ्रष्टश्रीकः सो ऽपि देशो ऽभियोज्यः ॥
देशभ्रंशो यैर् निमित्तैः प्रदिष्टस् तास् ता वार्त्ता वक्ति लोके विशङ्कः ।
त्यक्त्वा देशं यान्ति यं भिक्षुका वा गम्यो देशो सो ऽप्य् असाधुप्रवृत्तः ॥
रोगाभिभूतं विषदूषितं वा यथा विनाशाभिमुखं शरीरम् ।
वैद्यः प्रयोगैः सुदृढं करोति राष्ट्रं तथा शान्तिभिर् अग्रजन्मा ॥

N/A

References : N/A
Last Updated : November 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP