संस्कृत सूची|शास्त्रः|योग शास्त्रः|योगयात्रा| अग्निनिमिताध्याय योगयात्रा दैवपुरुषाकाराध्याय आचाराध्याय अभियोगाध्याय योगाध्याय बल्युपहाराध्याये नक्षत्रविजयस्नानप्राशन् अग्निनिमिताध्याय नक्षत्रकेन्दुभाध्याय हस्तिलक्षणाध्याय अश्वेङ्गिताध्याय खड्गलक्षणाद्याय प्रस्थानिकाध्याय शकुनाध्याय प्रोत्साहनाध्याय उपसंहाराध्याय योगयात्रा - अग्निनिमिताध्याय योग शास्त्र ऋषी मुनींनी जगाला शिकविले. Tags : astrologyhoroscopevarahamihiryogayogayatraयोगयोगयात्रावराहमिहिर अग्निनिमिताध्याय Translation - भाषांतर वेदी शुभा शुल्व(शिल्प)विधानदृष्टा दिक्स्थानमानाभ्य्धिका(दिक्-स्थान-मानानधिका) न हीना ।भ्रष्टप्रमाण(भ्रष्टा प्रमाणेन) प्रकरोति(करोति) भङ्गं दिग्वक्रसंस्था च न(न च) सिद्धिदा स्यात् ॥प्राग्भागहीना नगरस्य नेष्टा पुरोधसां(पुरोधसो) दक्षिणभागवक्रा ।नरेन्द्रजायाशुभदा परस्याम् उदग् बलेशस्य नृपस्य मध्ये ॥सत्त्वैर् अलीढं न पिपीलमक्षिकामलाविलं वा(तद्) विजयप्रदं हविः ।द्रव्याण्य् अनूनानि पटुः पुरोहितो जुहोति सम्यग् विजयाय भूभृताम् ॥गन्धमाल्यचरुकुम्भभाजनस्रुक्कुशव्यजनसर्पिषां यदा ।भङ्गविस्मृतिनिपातहीनता पार्थिवस्य न भवेत् तदा शुभम्(तदा भवेच् छिवम्) ॥शान्तायां दिशि यदि शङ्खतूर्यशब्दाः सप्तीनां प्लुतमिभबृङ्हितानि(रुतगजबृंहितानि) वास्युः ।पुंसां वा प्रमुदितचेष्टितप्रलापाः श्रूयन्ते यदि च जयो ऽस्ति होमकाले ॥अप्रतिरथः समस्तो यात्रालिङ्गस् तथा ऽभयश् च(ऽभयस्य) गणः ।स्वस्त्ययनशर्मवर्मा ऽपराजिताः पुष्पसंज्ञाश् (ऽपराजिता ऽऽयुष्यसंज्ञाश्) च ॥इन्द्रश् चन्द्रश् चिति(चन्द्रेति) गणो यत्(यं) ते चन्द्रश् च भूतभूतेति ।छेच्केद्सूक्तं महाव्याहृतयो मन्त्राशीर्वैष्णवा(सूक्तमहाव्याहृतयः प्राजापत्याश् च ये) मन्त्राः ॥प्राजापत्याश् चोक्ता होमे(उक्ताः काले लचुन राज्ञो) निर्गच्छतो ऽनु गमने च ।अग्निपुरोहितसंस्थान्य् अतो(होमे ऽग्निप्रोहितसंस्थानि) निमित्तानि वक्ष्यामि(गृह्णीयात्) ॥कृते ऽपि यत्ने ऽतिकृशः (ऊऽपि कृZअः) कृशानुर् यातव्यकाष्ठाविमुखो नतार्चिः ।वामीकृतावर्तशिखो (ऊवामे कृतावर्तशिखो) ऽतिधूमो विच्छिन्नसाकम्पविलीनमूर्तिः ॥शिमशिमायति(शिमिशिमायति,ऊसिमिसिमायति) यस्य (ऊचास्य) हविर् हुतं सुर-धनुः-सदृशः कपिशो (ऊकपिलो) ऽथवा ।रुधिरपीतकबभ्रुहरिच्छविः परुषमूर्त्तिर् अनिष्टकरो ऽनलः ॥श्वखरकरभ (ऊखरकरभक)वानरानुरूपो निगडविभीषणशस्त्ररूपभृद् वा ।शवरुधिरवसास्थिवस्त(ऊमज्ज)गन्धो हुतभुग् अनिष्टफलः स्फुलिङ्गकृच् च ॥चर्मविपाटनतुल्यनिनादो जर्जरमन्दवि(मन्द्रवि,ऊदर्दुर)रूक्षरवो वा ।आकुलयंश् च पुरोहितसभ्यान् (ऊपुरोहितमर्त्यान्) धूमचयैर्(ऊधूमलवैर्) अशिवाय (ऊन शिवाय) हुताशः ॥अब्(अब्) ।स्वाहावसानसमये स्वयम् उज्ज्वलार्चिः स्निग्धप्रदक्सिणशिखो(स्निग्धः प्रदक्सिणशिखो) हुतभुग् नृपस्य ।च्द्(च्द्) ।गङ्गादिवाकरसुताजलचारुहारां धात्रीं समुद्ररसनां वशगां करोति ॥हारकुन्दकुसुमेन्दु(ऊकुमुदेन्दु)संनिभः संहतो ऽङ्गसुखदो महोदयः ।अङ्कुशाब्जजलवारणच्छविर्(ऊअङ्कुशातपनिवारणाकृतिर्) हूयते ऽल्पतपसां न (ऊऽल्प उपमान) हव्यभुक् ॥चामीकराशोककिरीटरत्न(कुरण्टकाब्ज)वैदूर्यनीलोत्पलसंनिभे ऽग्नौ ।न ध्वान्तम् अन्तर् भवने ऽवकाशं करोति रत्नांशुहृतं(हतं) नृपस्य ॥येषां रथौघार्णवमेघदन्तिनां समः स्वनो(समस्वनो) ऽग्निर् यदि वा ऽपि दुन्दुभेः ।तेषां मदान्धेभघटावघट्टिता भवन्ति याने तिमिराबिला (तिमिरोपमा) दिशः ॥ध्वजकुम्भहयेभभूभृताम् अनुरूपे वशम् एति भूभृताम् ।उदयास्तधराधराधरा हिमवद्विन्ध्यपयोधरा धरा ॥द्विरदमदमहीसरोजलाजैर् घृतमधुना च हुताशने सगन्धे ।प्रणतनृपशिरोमणिप्रभाभिर् भवति पुरश् छुरिता नृपस्य दीप्तिः ॥अग्न्याश्रितं यत् फलम् उक्तम् अस्मिंस् नृजातकर्मादिषु( पौष्टिकेषु ।यज्ञेषु सर्वेषु च वह्निकार्येष्व् एवं वदेद् यस्य यथानुरूपम् ॥ N/A References : N/A Last Updated : November 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP