संस्कृत सूची|शास्त्रः|योग शास्त्रः|योगयात्रा| दैवपुरुषाकाराध्याय योगयात्रा दैवपुरुषाकाराध्याय आचाराध्याय अभियोगाध्याय योगाध्याय बल्युपहाराध्याये नक्षत्रविजयस्नानप्राशन् अग्निनिमिताध्याय नक्षत्रकेन्दुभाध्याय हस्तिलक्षणाध्याय अश्वेङ्गिताध्याय खड्गलक्षणाद्याय प्रस्थानिकाध्याय शकुनाध्याय प्रोत्साहनाध्याय उपसंहाराध्याय योग यात्रा - दैवपुरुषाकाराध्याय योग शास्त्र ऋषी मुनींनी जगाला शिकविले. Tags : astrologyhoroscopevarahamihiryogayogayatraयोगयोगयात्रावराहमिहिर दैवपुरुषाकाराध्याय Translation - भाषांतर .यश् चक्षुर् जगतः सहस्रकरबद् धाम्नां च धामा ऽर्कवन्.मोक्षद्वारम् अपावृत्तं च रविवद् ध्वान्तान्तकृत् सूर्यवत् ।.आत्मा सर्वशरीरिणां सवितृवत् तिमांशुवत् कालकृत्.साध्वीं नः स गिरं करोतु सविता यो ऽन्यैर् अतुल्योपमः ॥.वक्ष्यामि भूपम् अधिकृत्य गुणोपपन्नं.विज्ञातजन्मसमयं प्रविभ्क्तभाग्यम् ।.अज्ञातसूतिम् अथवा ऽविदितैष्य भाग्यं.सामुद्रयात्रिकनिमित्तशतैः पृथूक्तैः ॥.कर्म ऽन्यजन्मजनितं(न्यजन्मनि कृतं) सद् असच् च दैवं.तत् केवलं भवति जन्मनि सत्कुलाद्ये ।.बाल्यात् परं विनयसौष्ठवपात्रता च(ऽपि).पुंदैवजा कृषिवद् इत्य् उपपाद्यम् एतत्(अत उद्यमेत) ॥.सामन्तकालयसु(वसु)धोद्यममन्त्रभृत्यैर्.दैवेन चेति कृषिवन् नृपतेः फलाप्तिः ।.स्याच् छिद्रम् एकम् अपि चेत् तत एव सर्वं.नाशं प्रयाति हि दृतेः स्रवणाद्(दृतेश् चरणाद्) इव ऽम्भः ॥.ग्रहर्क्षतिथ्युद्गमराशिहोरा.द्रेष्काणभागाद्यनुकूलमात्रम् ।.भवेद् यियासोर् यदि सिद्धिहेतुः.स्वयं भवेद् दैवविद् एव राजा ॥.मन्त्राभिषेकमणिबन्धनशान्तिकर्म.होमोपवाससुरयागजपादिमात्रम् ।.स्यात् सिद्धिहेतुर् अथ चेद् विजगीआअतो(विजिगीषतो) ऽरीण्.कस्मात् तदा नरपतिर् न भवेत् पुरोधाः ॥.बुधार्थशास्त्राण्य्(बुद्ध्वा ऽर्थशास्त्राण्य्) अपि मन्त्रिणो ऽपि.कुयुः प्रणामं न नरेश्वराणाम् ।.यद्य् आभिजात्यद्विपवाजिपत्ति.कोशाद्यपेक्षा न भवेत् प्रधाना ॥.स्वदेशे सन्तुष्टः करितुरगकोशे सति न यो.भवेद् यायी सैन्धैः(सो ऽन्यैः) कृतपरिभवो याति विलयम् ।.स्वचक्रेणैव ऽसौ क्षपितधनराष्ट्रो भवति वा ।.गतो यो नादत्ते(ऽन्यान् आदत्ते) सुनयचरितो नीतिविधूरान् ॥.उलूकस्य ध्वांक्षो निशि वलिभुजां सो ऽह्नि वशगः.स्थले नक्रं सिंहो मृगपम् उद्के हन्ति जलजः ।.अबुध्या यः कालं व्रजति नृपतिर् देशम् अथवा(ओमित्तेद्).हते दर्पे वाक्यं स्मरति विदुषां सो ऽरिवशगः ॥.रिपोः कृत्वा ऽवज्ञां जितम् इति विदित्वा मदबलान्.न यत्नो हातव्यः शिखिविषसमो ऽल्पो ऽपि हि रिपुः ।.प्रमत्तो ऽद्रेः कुञ्जाद् अयुतबलभागैर् अपि नरैर्.हतो बद्धस्तम्भे कखति(बद्धः स्तम्भेकषति) मदलेखां द्विपपतिः ॥.वप्रप्राकारयन्त्रप्रहरणपरिखातोय*मेयेन्धनाढ्यं(धान्येन्धनाढ्यं.दुर्गं कृत्वा ऽऽत्मगुपतं(ऽऽत्मगुल्म) द्विपतुरगभिषक्शिल्पिविप्राभ्युपेतम् ।.लुब्धत्रस्ताभिमानिप्रकुपितकुभृतां ज्ञातशीलैर् विहीनं.कृत्वा शूराप्तसंस्थं परविषयम् इयाच् छुद्धपार्ष्णिर् नरेन्द्रः ॥.बुध्वा शक्तिं स्वपरबलयोः सामम् एकप्रदानैः(सामभेकप्रदानैः).कृत्वोपायैर् व्यसनसमरोपायसंरक्षणैश्(गमनसमरोपायसंसर्पणैश्) च ।.भक्त्या(साम्ना) साधून् धनविरहितान् अर्थलुब्धांश् च दानैर्.नेयाद्(भेद्यान्) भेदैस् त्रिभिर् अपि न ये साधयेत् तांश् च दण्डैः ॥.साम्नो जीवः सभृगुतनयो दण्डनाथौ कुजार्कौ.दानस्येन्दुः शिखियमबुधाः सासुरा भेदनाथाः ।.वीर्योपेतैर् उपचयकरैर् लग्नगैर् वीर्यगैर्(केन्द्रगैर्) वा.तत् तत् सिद्धिं व्रजति तद् अहःस्व् आंशकैर्(अंशके) वापि तेषां ॥.षाड्गुण्ये सन्धिर् आदौ परिपणरचितो विग्रहो ऽस्यापकारी(ऽस्यपाकारो).नैतौ चेद् आसनं तत् परपुरगमनं सर्वसैनेय्न यानम् ।.सैन्यार्द्धेनाभियुक्ते परपुरम् अपि यत् तद् द्विधायानम् उक्तं.संश्लेषो ऽन्यत्र यः स्यात् स खलु निगदितः संश्रयो ऽन्यो(ऽन्त्यो) गुणानम् ॥.मध्याह्ने ऽर्कस् तुहिनकिरणो नित्यम् आक्रन्दसंज्ञः.पौरः पूर्वे भवति दिनकृद् यायिसंज्ञो ऽन्त्यसंस्थाः(ऽन्त्यसंस्थः) ।.जीवः सौरिस्(सौरस्) तुहिनकिरणास्यात्मजश् चेति पौराः.केतुर् यायी सभृगुजकुजः सिद्धिकानन्दनश् च ॥.यानं यायिभिर् आसनं शुभकरैर् वीर्यान्वितैर् नागरैर्.द्वैधीभावम् इयाद् यदा शुभकराः पौराः सयायिग्रहाः ।.सौम्यैः सन्धिर् असद्ग्रहैश् च बलिभिर् युद्धे ऽनुकूलैर् जयः.सर्वैर् अप्य् अशुभप्रदैर् नरपतिर् दैवाम्बितं संश्रयेत् ॥.कोशो हि राज्यतरुमूलम् अतो ऽस्य शाखाः.पक्षी विपक्ष इव किं निधनः(विधनं) करोति ।.अन्नाद् इवेन्द्रियगणो वसुतस् तथा ऽन्नं.तत्प्राप्तिरक्षणविवृद्धिषु यत्नवान् स्यात् ॥.नीचाचिराढ्यनृपवल्लभतस्करेभ्यो.राष्ट्रं नृपेण परिरक्ष्यम् अतो ऽस्य कोशः ।.काले करप्रणयनं च यथोचितानां.तन्(तं) नार्थयेद् भवति येन जनापवादः ॥.यात्रा नृपस्य शरदीष्टफला मधौ च.छिद्रे रिपोर् न नियमो ऽस्ति(ऽत्र) च केचिद् आहुः ।.छिद्रे ऽप्य् अरेर् भवति दैवयुतस्य सिद्धिः.सामान्यम् आमिषम् इदं प्रतिभूमिपानाम् ॥.शत्रोर् वधाय सचिवं शुभदैवयुक्तम्.आज्ञापयेन् नृपतिर् आत्मनि दैवहीने ।.जह्यान् न चार्थम् अति(अपि) दैवपरो ऽपि भूत्वा.दृष्टे द्विपे द्विपपदानुसृतिः किम् अर्थम् ॥.कालो ऽभ्युपैति सकृद् एव नरं कथंचित्.प्राप्नोति तन् न समयं(स पुनः) खलु कालकांक्सी ।.कालेन गोचरगतान् अनपेक्ष्य भक्ष्यान्.मन्दक्रमो ऽप्य् अजगरः समुपैति सिद्धिम् ॥.दुर्गस्थितं फलम् अपक्वम् अनल्पयत्नात्(अनल्पयत्नं).संसिद्धिम् अप्य् उपकरोति गुणं न पुंसाम् ।.साधारणं स्वपतितं च भवेद् यतो ऽतः.काले ऽभियुक्तपतितं रसवत् सुखाय ॥ N/A References : N/A Last Updated : November 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP